बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम् , तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम् ; तच्च आत्मज्ञानं सर्वसन्न्यासाङ्गविशिष्टम् ; आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ; आत्मा च प्रियः सर्वस्मात् ; तस्मात् आत्मा द्रष्टव्यः ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ताः ; तत्र श्रोतव्यः, आचार्यागमाभ्याम् ; मन्तव्यः तर्कतः ; तत्र च तर्क उक्तः — ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भवत्वम् आत्मैकप्रलयत्वं च ; तत्र अयं हेतुः असिद्ध इत्याशङ्क्यते आत्मैकसामान्योद्भवप्रलयाख्यः ; तदाशङ्कानिवृत्त्यर्थमेतद्ब्राह्मणमारभ्यते । यस्मात् परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि, यच्च लोके परस्परोपकार्योपकारकभूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं च दृष्टम् , तस्मात् इदमपि पृथिव्यादिलक्षणं जगत् परस्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति — एष ह्यर्थ अस्मिन्ब्राह्मणे प्रकाश्यते । अथवा ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतुमुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अर्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम् — ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्’ इति । अन्यैर्व्याख्यातम् — आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम् , प्राङ्मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन, मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति । सर्वथापि तु यथा आगमेनावधारितम् , तर्कतस्तथैव मन्तव्यम् ; यथा तर्कतो मतम् , तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथक् निदिध्यासनविधिरनर्थक एव ; तस्मात् पृथक् प्रकरणविभाग अनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति । सर्वथापि तु अध्यायद्वयस्यार्थः अस्मिन्ब्राह्मणे उपसंह्रियते ॥
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १ ॥
इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु — सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनाम् , मधु कार्यम् , मध्विव मधु ; यथा एको मध्वपूपः अनेकैर्मधुकरैर्निर्वर्तितः, एवम् इयं पृथिवी सर्वभूतनिर्वर्तिता । तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्याः, मधु कार्यम् । किं च यश्चायं पुरुषः अस्यां पृथिव्यां तेजोमयः चिन्मात्रप्रकाशमयः अमृतमयोऽमरणधर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लिङ्गाभिमानी — स च सर्वेषां भूतानामुपकारकत्वेन मधु, सर्वाणि च भूतान्यस्य मधु, च - शब्दसामर्थ्यात् । एवम् एतच्चतुष्टयं तावत् एकं सर्वभूतकार्यम् , सर्वाणि च भूतान्यस्य कार्यम् ; अतः अस्य एककारणपूर्वकता । यस्मात् एकस्मात्कारणात् एतज्जातम् , तदेव एकं परमार्थतो ब्रह्म, इतरत्कार्यं वाचारम्भणं विकारो नामधेयमात्रम् — इत्येष मधुपर्यायाणां सर्वेषामर्थः सङ्क्षेपतः । अयमेव सः, योऽयं प्रतिज्ञातः — ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; इदममृतम् — यत् मैत्रेय्याः अमृतत्वसाधनमुक्तम् आत्मविज्ञानम् — इदं तदमृतम् ; इदं ब्रह्म — यत् ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) ‘ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इत्यध्यायादौ प्रकृतम् , यद्विषया च विद्या ब्रह्मविद्येत्युच्यते ; इदं सर्वम् — यस्मात् ब्रह्मणो विज्ञानात्सर्वं भवति ॥
इमा आपः सर्वेषां भूतानां मध्वासामपां सर्वाणि भूतानि मधु यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ २ ॥
तथा आपः । अध्यात्मं रेतसि अपां विशेषतोऽवस्थानम् ॥
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ३ ॥
तथा अग्निः । वाचि अग्नेर्विशेषतोऽवस्थानम् ॥
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ४ ॥
तथा वायुः, अध्यात्मं प्राणः । भूतानां शरीरारम्भकत्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ; तथा चोक्तम् — ‘तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः’ (बृ. उ. १ । ५ । ११) इति ॥
अयमादित्यः सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ५ ॥
तथा आदित्यो मधु, चाक्षुषः अध्यात्मम् ॥
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ६ ॥
तथा दिशो मधु । दिशां यद्यपि श्रोत्रमध्यात्मम् , शब्दप्रतिश्रवणवेलायां तु विशेषतः सन्निहितो भवतीति अध्यात्मं प्रातिश्रुत्कः — प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ७ ॥
तथा चन्द्रः, अध्यात्मं मानसः ॥
इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ८ ॥
तथा विद्युत् , त्वक्तेजसि भवः तैजसः अध्यात्मम् ॥
अयं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ९ ॥
तथा स्तनयित्नुः । शब्दे भवः शाब्दोऽध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवरः अध्यात्मम् ॥
अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १० ॥
तथा आकाशः, अध्यात्मं हृद्याकाशः ॥
आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च कार्यकरणसङ्घातात्मान उपकुर्वन्तो मधु भवन्ति प्रतिशरीरिणमित्युक्तम् । येन ते प्रयुक्ताः शरीरिभिः सम्बध्यमाना मधुत्वेनोपकुर्वन्ति, तत् वक्तव्यमिति इदमारभ्यते —
अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ११ ॥
अयं धर्मः — ‘अयम्’ इति अप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते — अयं धर्म इति — प्रत्यक्षवत् । धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः, क्षत्त्रादीनामपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतुत्वात् , प्राणिभिरनुष्ठीयमानरूपश्च ; तेन च ‘अयं धर्मः’ इति प्रत्यक्षेण व्यपदेशः । सत्यधर्मयोश्च अभेदेन निर्देशः कृतः शास्त्राचारलक्षणयोः ; इह तु भेदेन व्यपदेश एकत्वे सत्यपि, दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात् । यस्तु अदृष्टः अपूर्वाख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्यमारभते — सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं कार्यकरणसङ्घातस्य ; तत्र पृथिव्यादीनां प्रयोक्तरि — यश्चायमस्मिन्धर्मे तेजोमयः ; तथा अध्यात्मं कार्यकरणसङ्घातकर्तरि धर्मे भवो धार्मः ॥
इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १२ ॥
तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति, स एव धर्मः ; सोऽपि द्विप्रकार एव सामान्यविशेषात्मरूपेण — सामान्यरूपः पृथिव्यादिसमवेतः, विशेषरूपः कार्यकरणसङ्घातसमवेतः ; तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये, तथा अध्यात्मं कार्यकरणसङ्घातसमवेते सत्ये, भवः सात्यः — ‘सत्येन वायुरावाति’ (तै. ना. २ । १) इति श्रुत्यन्तरात् ॥
इदं मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १३ ॥
धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसङ्घातविशेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः ; तत्र मनुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ; अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु । तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति ॥
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ १४ ॥
यस्तु कार्यकरणसङ्घातो मानुषादिजातिविशिष्टः, सोऽयमात्मा सर्वेषां भूतानां मधु । ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव — न, पार्थिवांशस्यैव तत्र ग्रहणात् ; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसङ्घातः सः ‘अयमात्मा’ इत्युच्यते । तस्मिन् अस्मिन् आत्मनि तेजोमयोऽमृतमयः पुरुषः अमूर्तरसः सर्वात्मको निर्दिश्यते ; एकदेशेन तु पृथिव्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दिश्यते । यस्तु परिशिष्टो विज्ञानमयः — यदर्थोऽयं देहलिङ्गसङ्घात आत्मा — सः ‘यश्चायमात्मा’ इत्युच्यते ॥
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥
यस्मिन्नात्मनि, परिशिष्टो विज्ञानमयोऽन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा । तस्मिन् अविद्याकृतकार्यकरणसङ्घातोपाधिविशिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, स एवमुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै — स एव अयमात्मा अव्यवहितपूर्वपर्याये ‘तेजोमयः’ इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान् , सर्वेषां भूतानामयमात्मा — सर्वैरुपास्यः — सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः — न कुमारामात्यवत् — किं तर्हि सर्वेषां भूतानां राजा, राजत्वविशेषणम् ‘अधिपतिः’ इति — भवति कश्चित् राजोचितवृत्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधिपतिरिति ; एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति । यदुक्तम् — ‘ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । ९) इतीदम् , तत् व्याख्यातम् एवम् — आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, मत्वा तर्कतः, विज्ञाय साक्षात् एवम् , यथा मधुब्राह्मणे दर्शितं तथा — तस्मात् ब्रह्मविज्ञानात् एवँलक्षणात् पूर्वमपि, ब्रह्मैव सत् अविद्यया अब्रह्म आसीत् , सर्वमेव च सत् असर्वमासीत् — तां तु अविद्याम् अस्माद्विज्ञानात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन् ब्रह्माभवत् , सर्वः सः सर्वमभवत् । परिसमाप्तः शास्त्रार्थः, यदर्थः प्रस्तुतः ; तस्मिन् एतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत्समर्पितमित्येतस्मिन्नर्थे दृष्टान्त उपादीयते — तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता इति, प्रसिद्धोऽर्थः, एवमेव अस्मिन् आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवाः अग्न्यादयः सर्वे लोकाः भूरादयः सर्वे प्राणाः वागादयः सर्व एत आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिताः ; सर्वं जगत् अस्मिन्समर्पितम् । यदुक्तम् , ब्रह्मवित् वामदेवः प्रतिपेदे — अहं मनुरभवं सूर्यश्चेति, स एष सर्वात्मभावो व्याख्यातः । स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति ; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽजरोऽमृतोऽभयोऽचलः नेति नेत्यस्थूलोऽनणुरित्येवंविशेषणः भवति । तमेतमर्थम् अजानन्तस्तार्किकाः केचित् पण्डितम्मन्याश्चागमविदः शास्त्रार्थं विरुद्धं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति । तमेतमर्थम् एतौ मन्त्रावनुवदतः — ‘अनेजदेकं मनसो जवीयः’ (ई. उ. ४) ‘तदेजति तन्नैजति’ (ई. उ. ५) इति । तथा च तैत्तिरीयके —, ‘यस्मात्परं नापरमस्ति किञ्चित्’ (तै. ना. १० । ४), ‘एतत्साम गायन्नास्ते अहमन्नमहमन्नमहमन्नम्’ (तै. उ. ३ । १० । ६) इत्यादि । तथा च च्छान्दोग्ये ‘जक्षत्क्रीडन्रममाणः’ (छा. उ. ८ । १२ । ३), ‘स यदि पितृलोककामः’ (छा. उ. ८ । २ । १) ‘सर्वगन्धः सर्वरसः’ (छा. उ. ३ । १४ । २), ‘सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) इत्यादि । आथर्वणे च ‘दूरात्सुदूरे तदिहान्तिके च’ (मु. उ. ३ । १ । ७) । कठवल्लीष्वपि ‘अणोरणीयान्महतो महीयान्’ (क. उ. १ । २ । २१) ‘कस्तं मदामदं देवं’ (क. उ. १ । २ । २१) ‘तद्धावतोऽन्यानत्येति तिष्ठत्’ (ई. उ. ४) इति च । तथा गीतासु ‘अहं क्रतुरहं यज्ञः’ (भ. गी. ९ । १०) ‘पिताहमस्य जगतः’ (भ. गी. ९ । १७) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १०) ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) ‘अविभक्तं विभक्तेषु’ (भ. गी. १७ । २०) ‘ग्रसिष्णु प्रभविष्णु च’ (भ. गी. १३ । १६) इति — एवमाद्यागमार्थं विरुद्धमिव प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्तः — अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बद्धः, क्षणिको विज्ञानमात्रं शून्यं च — इत्येवं विकल्पयन्तः न पारमधिगच्छन्त्यविद्यायाः, विरुद्धधर्मदर्शित्वात्सर्वत्र । तस्मात् तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त एवाविद्यायाः पारमधिगच्छन्ति ; त एव च अस्मान्मोहसमुद्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुद्धिकौशलानुसारिणः ॥
परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी पृष्टवती भर्तारम् ‘यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि’ (बृ. उ. २ । ४ । ३) इति । एतस्या ब्रह्मविद्यायाः स्तुत्यर्था इयमाख्यायिका आनीता । तस्या आख्यायिकायाः सङ्क्षेपतोऽर्थप्रकाशनार्थावेतौ मन्त्रौ भवतः ; एवं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वात् अमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्गमुपनीतं भवति — यथा आदित्य उद्यन् शार्वरं तमोऽपनयतीति — तद्वत् । अपि च एवं स्तुता ब्रह्मविद्या — या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि ; यस्मात् अश्विभ्यामपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता ; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसन्धाय, तस्मिन्निन्द्रेण च्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय, तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता ; यस्मात् ततः परतरं किञ्चित्पुरुषार्थसाधनं न भूतं न भावि वा, कुत एव वर्तमानम् — इति नातः परा स्तुतिरस्ति । अपि चैवं स्तूयते ब्रह्मविद्या — सर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्धम् ; तच्च कर्म वित्तसाध्यम् , तेन आशापि नास्त्यमृतत्वस्य ; तदिदममृतत्वं केवलया आत्मविद्यया कर्मनिरपेक्षया प्राप्यते ; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा विरुद्धत्वात् केवलसन्न्याससहिता अभिहिता अमृतत्वसाधनाय — तस्मात् नातः परं पुरुषार्थसाधनमस्ति । अपि च एवं स्तुता ब्रह्मविद्या — सर्वो हि लोको द्वन्द्वारामः, ‘स वै नैव रेमे तस्मादेकाकी न रमते’ (बृ. उ. १ । ४ । ३) इति श्रुतेः ; याज्ञवल्क्यो लोकसाधारणोऽपि सन् आत्मज्ञानबलात् भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव । अपि च एवं स्तुता ब्रह्मविद्या — यस्मात् याज्ञवल्क्येन संसारमार्गात् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, ‘प्रियं भाषस एह्यास्स्व’ (बृ. उ. २ । ४ । ४) इति लिङ्गात् ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६ ॥
तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम ; का पुनः सा आख्यायिकेति उच्यते — इदमित्यनन्तरनिर्दिष्टं व्यपदिशति, बुद्धौ सन्निहितत्वात् ; वै - शब्दः स्मरणार्थः ; तदित्याख्यायिकानिर्वृत्तं प्रकरणान्तराभिहितं परोक्षं वै - शब्देन स्मारयन् इह व्यपदिशति ; यत् प्रवर्ग्यप्रकरणे सूचितम् , न आविष्कृतं मधु, तदिदं मधु इह अनन्तरं निर्दिष्टम् — ‘इयं पृथिवी’ (बृ. उ. २ । ५ । ११) इत्यादिना ; कथं तत्र प्रकरणान्तरे सूचितम् — ‘दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ; तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति ; स होवाचेन्द्रेण वा उक्तोऽस्म्येतच्चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति ; तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्यात्तद्वामुपनेष्य इति ; तौ होचतुरावां त्वा तस्मात्त्रास्यावहे इति ; कथं मा त्रास्येथे इति ; यदा नावुपनेष्यसे ; अथ ते शिरश्छित्त्वान्यत्राहृत्योपनिधास्यावः ; अथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावः ; तेन नावनुवक्ष्यसि ; स यदा नावनुवक्ष्यसि ; अथ ते तदिन्द्रः शिरश्छेत्स्यति ; अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति ; तथेति तौ होपनिन्ये ; तौ यदोपनिन्ये ; अथास्य शिरश्छित्त्वा अन्यत्रोपनिदधतुः ; अथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः ; तेन हाभ्यामनूवाच ; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद ; अथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति । यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु, तावदेव तत्राभिहितम् ; न तु कक्ष्यमात्मज्ञानाख्यम् ; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रदर्श्यते ; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्विभ्यामुवाच । तदेतदृषिः — तदेतत्कर्म, ऋषिः मन्त्रः, पश्यन् उपलभमानः, अवोचत् उक्तवान् ; कथम् ? तत् दंस इति व्यवहितेन सम्बन्धः, दंस इति कर्मणो नामधेयम् ; तच्च दंसः किंविशिष्टम् ? उग्रं क्रूरम् , वां युवयोः, हे नरा नराकारावश्विनौ ; तच्च कर्म किं निमित्तम् ? सनये लाभाय ; लाभलुब्धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्येते यथा लोके ; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भ्यां कृतम् ; किमिवेत्युच्यते — तन्यतुः पर्जन्यः, न इव ; नकारस्तु उपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिषेधार्थः — यथा ‘अश्वं न’ (ऋ. सं. १ । ६ । २४ । १) अश्वमिवेति यद्वत् ; तन्यतुरिव वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः । ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम् ? निन्दावचनौ हीमौ — नैष दोषः ; स्तुतिरेवैषा, न निन्दावचनौ ; यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च मीयत इति — न चान्यत्किञ्चिद्धीयत एवेति — स्तुतावेतौ भवतः ; निन्दां प्रशंसां हि लौकिकाः स्मरन्ति ; तथा प्रशंसारूपा च निन्दा लोके प्रसिद्धा । दध्यङ्नाम आथर्वणः ; हेत्यनर्थको निपातः ; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम् आथर्वणः वां युवाभ्याम् अश्वस्य शीर्ष्णा शिरसा, प्र यत् ईम् उवाच — यत्प्रोवाच मधु ; ईमित्यनर्थको निपातः ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥
इदं वै तन्मध्वित्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम् । तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म । आथर्वणो दध्यङ्नाम — आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि — दध्यङ्नाम आथर्वणः, तस्मै दधीचे आथर्वणाय, हे अश्विनाविति मन्त्रदृशो वचनम् ; अश्व्यम् अश्वस्य स्वभूतम् , शिरः, ब्राह्मणस्य शिरसि च्छिन्ने अश्वस्य शिरश्छित्त्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ, युवाम् ; स च आथर्वणः वां युवाभ्याम् तन्मधु प्रवोचत् , यत्पूर्वं प्रतिज्ञातम् — वक्ष्यामीति । स किमर्थमेवं जीवितसन्देहमारुह्य प्रवोचदित्युच्यते — ऋतायन् यत्पूर्वं प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन् ; जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येतस्य लिङ्गमेतत् । किं तन्मधु प्रवोचदित्युच्यते — त्वाष्ट्रम् , त्वष्टा आदित्यः, तस्य सम्बन्धि — यज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत् , तत्प्रतिसन्धानार्थं प्रवर्ग्यं कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु — यत्तस्य चिरश्छेदनप्रतिसन्धानादिविषयं दर्शनं तत् त्वाष्ट्रं यन्मधु ; हे दस्रौ दस्राविति परबलानामुपक्षपयितारौ शत्रूणां हिंसितारौ ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धि युवाभ्यामवोचत् ; अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद्विज्ञानं मधु मधुब्राह्मणेनोक्तं अध्यायद्वयप्रकाशितम् , तच्च वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम् ॥ १८ ॥
इदं वै तन्मध्विति पूर्ववत् । उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः । ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते । यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्युक्तम् — किं पुनस्तन्मध्वित्युच्यते — पुरश्चक्रे, पुरः पुराणि शरीराणि — यत इयमव्याकृतव्याकरणप्रक्रिया — स परमेश्वरो नामरूपे अव्याकृते व्याकुर्वाणः प्रथमं भूरादीन् लोकान्सृष्ट्वा, चक्रे कृतवान् , द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि ; तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलक्षितानि पशुशरीराणि ; पुरः पुरस्तात् , स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि — पुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिः — स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशयः, पुरि शेत इति पुरिशयः सन् पुरुष इत्युच्यते ; न एनेन अनेन किञ्चन किञ्चिदपि अनावृतम् अनाच्छादितम् ; तथा न एनेन किञ्चनासंवृतम् अन्तरननुप्रवेशितम् — बाह्यभूतेनान्तर्भूतेन च न अनावृतम् ; एवं स एव नामरूपात्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थितः ; पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९ ॥
इदं वै तन्मध्वित्यादि पूर्ववत् । रूपं रूपं प्रतिरूपो बभूव — रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्संस्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपाज्जायते, द्विपदो वा चतुष्पात् ; स एव हि परमेश्वरो नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव । किमर्थं पुनः प्रतिरूपमागमनं तस्येत्युच्यते — तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणात्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत । इन्द्रः परमेश्वरः मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहुरूपः, ईयते गम्यते — एकरूप एव प्रज्ञानघनः सन् अविद्याप्रज्ञाभिः । कस्मात्पुनः कारणात् ? युक्ताः रथ इव वाजिनः, स्वविषयप्रकाशनाय, हि यस्मात् , अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि, दश च, प्राणिभेदबाहुल्यात् शतानि दश च भवन्ति ; तस्मात् इन्द्रियविषयबाहुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाशनाय ; ‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ (क. उ. २ । १ । १) इति हि काठके । तस्मात् तैरेव विषयस्वरूपैरीयते, न प्रज्ञानघनैकरसेन स्वरूपेण । एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते उच्यते — अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च ; प्राणिभेदस्य आनन्त्यात् । किं बहुना ? तदेतद्ब्रह्म य आत्मा, अपूर्वम् नास्य कारणं पूर्वं विद्यत इत्यपूर्वम् , नास्यापरं कार्यं विद्यत इत्यनपरम् , नास्य जात्यन्तरमन्तराले विद्यत इत्यनन्तरम् , तथा बहिरस्य न विद्यत इत्यबाह्यम् ; किं पुनस्तत् निरन्तरं ब्रह्म ? अयमात्मा ; कोऽसौ ? यः प्रत्यगात्मा द्रष्टा, श्रोता मन्ता बोद्धा, विज्ञाता सर्वानुभूः — सर्वात्मना सर्वमनुभवतीति सर्वानुभूः — इत्येतदनुशासनम् सर्ववेदान्तोपदेशः ; एष सर्ववेदान्तानामुपसंहृतोऽर्थः ; एतदमृतमभयम् ; परिसमाप्तश्च शास्त्रार्थः ॥
इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥
नमोऽसाधारणज्ञातृज्ञानज्ञेयात्मबोधिने ।।
जग्धाशेषमहाविद्यातज्जानार्थाय विष्णवे ।। १ ।।
प्रत्यग्ध्वान्तसमुच्छेदि ज्ञानमैकात्म्यनिष्ठितम् ।।
संन्याससाधनं प्रोक्तममृतत्वैकसाधनम् ।। २ ।।
हेतवोऽपि च तत्सिद्धौ श्रवणादिपुरःसराः ।।
उक्ता यथावत्तत्रैव श्रोतव्यः श्रुतिवाक्यतः ।। ३ ।।
मन्तव्यो हेतुभिः सूक्ष्मैरुक्तदृष्टान्तबोधितैः ।।
चित्सामान्यचिदुत्पत्तिचिदेकप्रलयात्मभिः ।। ४ ।।
आशङ्क्य हेत्वसिद्धत्वं मधुब्राह्मणमुच्यते ।।
कुतोऽसिद्धत्वमिति चेच्छुणु तद्गदतो मम ।। ५ ।।
निःसामान्यविशेषत्वाच्चित्सामान्यं कथं भवेत् ।।
चिदुत्पत्तिलयासिद्धिः सांख्यादीन्प्रति वादिनः ।। ६ ।।
ऐकात्म्यवस्तुतात्पर्यं हेत्वादिच्छद्मनोच्यते ।।
वेदे यतो न हेत्वादि लोकवत्स्याद्विवक्षितम् ।। ७ ।।
चित्तत्त्वं सदविद्यावत्कारणत्वं निगच्छति ।।
चित्सामान्याद्यतः सिद्धं प्रागप्येतत्प्रसाधितम् ।। ८ ।।
अभ्युपेत्याप्यसिद्धत्वं तत्सिद्धत्वाभिधित्सया ।।
मधुब्राह्मणमारब्धमियमित्याद्यथोत्तरम् ।। ९ ।।
प्रतिदेहं लयोत्पत्तिश्रुतेर्ह्यात्मनि शङ्क्यते ।।
भेदोऽतस्तन्निवृत्त्यर्थं मधुत्वेनैकतोच्यते ।। १० ।।
उपकार्योपकारित्वभिन्नं यज्जगदीक्ष्यते ।।
उपकार्योपकारित्वात्तत्स्यादेकात्मतत्त्वकम् ।। ११ ।।
प्रतिज्ञायाथवैकात्म्यं हेतूनुक्त्वोक्तसिद्धये ।।
निगमायोत्तरो ग्रन्थः प्रतिज्ञाया विवक्षितः ।। १२ ।।
प्रतिज्ञातार्थसिद्ध्यर्थं हेतूनुक्त्वा पृथग्विधान् ।।
हेतोर्निगमनं पश्चात्क्रियतेऽथोत्तरोक्तिभिः ।। १३ ।।
निदिध्यासनसिद्ध्यर्थं केचिद्व्याचक्षते परम् ।।
मधुब्राह्मणमेतत्तु न युक्तं प्रतिभाति नः ।। १४ ।।
श्रुत आगमतो योऽर्थस्तर्केणापि समर्थितः ।।
स एवार्थस्तु निष्णातो निदिध्यासनमुच्यते ।। १५ ।।
शास्त्राचार्यानुभवनैर्हेतुभिश्च समर्थितः ।।
ईदृगैकात्म्यसंबोधो निदिध्यासनमुच्यते ।। १६ ।।
निदिध्यासनसिद्ध्यर्थो यत्नोऽतोऽयमनर्थकः ।।
प्रत्यग्याथात्म्यसंबोधमात्रत्वादेव हेतुतः ।। १७ ।।
क्रियाफलोपभोगार्थं सर्वैरेव स्वकर्मभिः ।।
जन्तुभिः पृथिवी सृष्टा मधु तेषां ततो मही ।। १८ ।।
पृथिव्याऽप्यात्मभोगार्थं सृष्टाः सर्वेऽपि जन्तवः ।।
पृथिव्या अपि कार्यत्वान्मधु तेऽपि भवन्त्यतः ।। १९ ।।
पार्थिवानि शरीराणि सर्वेषां देहिनां यतः ।।
पृथिव्या तानि सृष्टानि पृथिव्यन्वयदर्शनात् ।। २० ।।
भूतानां च पृथिव्याश्च मिथःकार्यत्वहेतुतः ।।
योग्यभोक्तृत्वसंबन्धस्तस्मात्सिद्धः परस्परम् ।। २१ ।।
भोग्यता प्रथमान्तेन पृथिव्यादेरिहोच्यते ।।
कर्तृता भोक्तृता चैषां षष्ठ्यन्तेनाभिधीयते ।। २२ ।।
अचेतनांशप्राधान्यात्कार्यकारणतोच्यते ।।
भोक्तृभोग्याभिसंबन्धश्चेतनाचेतनात्मनोः ।। २३ ।।
सर्वेषामपि भूतानां कार्यकारणसंगतेः ।।
सर्वभूतात्मकत्वं स्याद्यथा सर्वात्मनस्तथा ।। २४ ।।
संहृत्य स्थूलमाधारं भूतानां च क्षितेस्तथा ।।
तदाधेयोपसंहृत्यै यश्चायमिति शब्द्यते ।। २५ ।।
अस्यां पृथिव्यां यश्चासौ भास्वद्विज्ञानविग्रहः ।।
अमृतो नित्य एवातो न नाशी स्थूलदेहवत् ।। २६ ।।
स चापि मधु सर्वेषां भूतानां तानि तस्य च ।।
मधु सर्वाणि भूतानि यथा पूर्वमवादिषम् ।। २७ ।।
सहाध्यात्माधिदैवं हि साधिभूतमिदं जगत् ।।
एकैकस्याऽऽत्मनः कृत्स्नं भोग्यत्वेनावतिष्ठते ।। २८ ।।
सर्वः सर्वस्य कार्यं स्यात्सर्वः सर्वस्य भोजकः ।।
एवं सति भवेत्सिद्धं यथा पूर्वं प्रपञ्चितम् ।। २९ ।।
अध्यात्मं यश्च शारीरः पार्थिवांशसमाश्रयः ।।
स चापि मधु सर्वेषां सर्वभूतानि तस्य च ।। ३० ।।
कार्यकारणरूपेण भोज्यभोक्तृतयोदितम् ।।
चतुष्टयं पृथिव्यादि तस्य तत्त्वमथोच्यते ।। ३१ ।।
चतुष्टयविभागेन स्वार्थोऽप्यात्मा विभज्यते ।।
अविभागोऽपि तादर्थ्याद्भोक्ताऽतः सोऽत्र गृह्यते ।। ३२ ।।
प्रत्यक्तया यः प्रथते चतुष्टयविलक्षणः ।।
प्रात्यक्ष्यात्सोऽयमित्येवं प्रत्यक्साक्ष्यभिधीयते ।। ३३ ।।
अयमेव स इत्युक्त्वा सामानाधिकरण्यतः ।।
प्रत्यङ्भात्रैकयाथात्म्यं चतुर्धोक्तस्य बोध्यते ।। ३४ ।।
पृथिव्यादिषु यः पूर्वं व्याख्यातोऽन्तरबाह्यतः ।।
आत्मैव स इति ज्ञेयस्तदबोधप्रसूतितः ।। ३५ ।।
अयमित्यस्य शेषः स्याद्योऽयमित्यादिकः परः ।।
एवेत्यवधृतोवेतत्संसर्गप्रतिषेधकृत् ।। ३६ ।।
तत्त्वं चतुष्टयस्यास्य प्रत्यगात्मैव केवलः ।।
अव्यावृत्ताननुगतध्वस्ताविद्यातदुद्भवः ।। ३७ ।।
प्रकृतात्माभिधानं वा स इत्येतत्पदं भवेत् ।।
अयमित्युच्यते साक्षात्संनिकर्षाच्चतुष्टयम् ।। ३८ ।।
स एवायमिति ज्ञेयो यो द्रष्टव्यतयोदितः ।।
यच्चामृतं स्वभार्यायै याज्ञवल्क्येन भाषितम् ।। ३९ ।।
ब्रह्मेति ध्वस्तसंभेदं यन्नेतीति पुरोदितम् ।।
सर्वं समभवत्कृस्नं यद्याथात्म्यावबोधतः ।। ४० ।।
पृथिवीं पार्थिवं चांशं शरीरं साधिदैवतम् ।।
जानीयात्सर्वमात्मेति नेति नेत्युपलक्षणम् ।। ४१ ।।
उत्तरेष्वपि वाक्येषु यथोक्तेनैव वर्त्मना ।।
इममेव तु वाक्यार्थं व्याचक्षीताविचारयन् ।। ४२ ।।
पृथिव्यादीनि भूतानि तदंशाश्च समीरिताः ।।
हिरण्यगर्भलिङ्गांशास्तथा पूर्वोक्तमूर्तयः ।। ४३ ।।
यथोक्ता येन सर्वेऽपि प्रयुक्ताः स्वात्मकर्मभिः ।।
उपकुर्वन्ति नः सर्वान्स धर्म इति संज्ञितः ।। ४४ ।।
तस्य कार्यं द्विधेहोक्तं सामान्यात्मविशेषतः ।।
पृथिव्यादीह सामान्यं विशेषः पिण्डमात्रकम् ।। ४५ ।।
तत्कार्यस्येह प्रात्यक्ष्यात्तदभेदोपचारतः ।।
प्रत्यक्षवदयं धर्मस्तस्मादेवाभिधीयते ।। ४६ ।।
साधारणः पृथिव्यादिकारी धर्मोऽभिधीयते ।।
यश्चायमिति वाक्येन तथाऽसाधारणाभिधा ।। ४७ ।।
यश्चायमध्यात्ममिति योऽयं सद्देहकृन्मतः ।।
साधारणविशेषात्मा यदपूर्वं तदुच्यते ।। ४८ ।।
प्राजापत्यमपूर्वं यत्सर्वभूतप्रयोजकम् ।।
अध्यात्मं पिण्डकृद्यच्च सोऽयं धर्माभिधोदितः ।। ४९ ।।
तथैवाऽऽचाररूपेण प्रत्यक्षेण यदीक्ष्यते ।।
स एव धर्मः सत्यं स्याद्यद्व्यवस्थाप्रयोजकम् ।। ५० ।।
साधारणविशेषाभ्यां धर्मवत्तदपि द्विधा ।।
साधारणविशेषार्थव्यवस्थाकारणत्वतः ।। ५१ ।।
धर्मसत्यप्रयुक्तोऽयं लिङ्गपिण्डस्वलक्षणः ।।
विराड्ढिरण्यगर्भश्च सर्वजातिसमन्वितः ।। ५२ ।।
मनुष्यजातेर्ग्रहणं सर्वजात्युपलक्षणम् ।।
इदं मानुषमित्येवं व्याख्या तस्यास्तु पूर्ववत् ।। ५३ ।।
पृथिवी शारीर इत्येवं खण्डशो यः पुरोदितः ।।
विराड्ढिरण्यगर्भश्चेत्ययमात्मेति तद्वचः ।। ५४ ।।
हिरण्यगर्भभेदानां भूतानां च पृथक्पृथक् ।।
उक्तं मधुत्वं येनातस्तत्सामस्त्यमथोच्यते ।। ५५ ।।
अयमात्मेति निर्देशो विराजः प्रथमो मतः ।।
सप्तम्यन्तेन तत्प्रत्यङ्लिङ्गात्माऽतोऽभिधीयते ।। ५६ ।।
कार्यात्मा कारणात्मा च यदर्थौ भवतः सदा ।।
यश्चायमात्मेत्यत्रोक्तो विज्ञानात्मेति यं विदुः ।। ५७ ।।
यस्मिन्नात्मनि विध्वस्तव्याकृताव्याकृतात्मके ।।
खिल्यदृष्टान्तवचसा विज्ञानात्मा प्रवेशितः ।। ५८ ।।
ब्रह्मविद्याहतध्वान्ते तस्मिन्ब्रह्मणि निष्ठिते ।।
तमस्तदुत्थकार्याणामत्यन्तासंभवादतः ।। ५९ ।।
योऽसावविद्यया देही संसारीवाप्यभूत्पुरा ।।
सोऽयं साक्षात्परं ब्रह्म विद्यया वर्ततेऽधुना ।। ६० ।।
ध्वस्ताज्ञानतदुत्थोत्यं संविन्मात्रसतत्त्वकः ।।
अनन्तापार आत्मैव स्वमहिम्नि व्यवस्थितः ।। ६१ ।।
अपूर्वानपरामध्यप्रत्यग्याथात्म्यवित्तये ।।
स वा इत्यादिको ग्रन्थः सदृष्टान्तोऽभिधीयते ।। ६२ ।।
ब्रह्मास्मीतिपरिज्ञानध्वस्तध्वान्तत्वकारणात् ।।
राजेति राजनाद्भास्वदविलुप्तात्मदर्शनात् ।। ६३ ।।
तथाऽधिपतिशब्देन स्वातन्त्र्यमभिधीयते ।।
स्वार्थः प्रत्यक्तदर्थत्वात्सहेतोर्जगदात्मनः ।। ६४ ।।
प्रत्यग्विज्ञप्तिमात्रेण समाप्तिं जगदात्मनः ।।
आविश्चिकीर्षुः साक्षान्नस्तद्यथेति परा श्रुतिः ।। ६५ ।।
चक्रनाभौ यथा प्रोताश्चक्रनेमौ च बाह्यतः ।।
अराः प्राणादयस्तद्वदोताः प्रोताः परात्मनि ।। ६६ ।।
व्याचक्षतेऽन्यथैवेमं दृष्टान्तं केचिदात्मनः ।।
समस्तादिप्रतिज्ञार्थसिद्धये ब्रह्मवादिनः ।। ६७ ।।
एकीकृत्य स्वमात्मानमक्षरे परमात्मनि ।।
चक्रनाभिवदात्मानं कल्पयित्वा विचक्षणः ।। ६८ ।।
शरीरं नेमिवच्चैतद्देवताद्यरवज्जगत् ।।
कल्पयित्वा निदिध्यासेत्तद्भावाविष्टधीः सदा ।। ६९ ।।
अनेन ध्यानमार्गेण ध्यायमानस्य सर्वदा ।।
तप्तलोहवदेकत्वं भवत्यावृत्तिदुर्लभम् ।। ७० ।।
एतामवस्थामापन्नो ध्यातृत्वाद्विनिवर्तते ।।
अविद्यातिमिरान्धानां ध्येयत्वमधिगच्छति ।। ७१ ।।
निश्चित्याचिन्त्यमेतद्यो योगिनां निलयं परम् ।।
यं प्राप्य न निवर्तन्ते निर्वाणं परमं गताः ।। ७२ ।।
प्रत्येकं प्राणिनां ह्येतद्ब्रह्मचक्रमवस्थितम् ।।
असंवोधात्तु तैः सर्वैः प्राणिभिर्नानुभूयते ।। ७३ ।।
वैश्वानरवरात्केचिदेवं व्याचक्षते स्फुटम् ।।
अक्षरानन्वयात्त्याज्या व्याख्येयं साध्वपीदृशी ।। ७४ ।।
सामर्थ्यादपि संप्राप्तो न चेदक्षरपूर्वकः ।।
तादृङ्नोपास्य एवेति प्राहुरागमवेदिनः ।। ७५ ।।
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ।।
अदृष्टशतभागोऽपि न कल्प्यो निप्प्रमाणकः ।। ७६ ।।
यथोक्तचक्रविन्यासो न श्रुतोऽक्षरपूर्वकः ।।
न चाप्युपासनपदं कृत्स्नेऽपि ब्राह्मणे श्रुतम् ।। ७७ ।।
नाभिनेमिद्वयस्थाने दृष्टान्तत्वेन संमते ।।
दार्ष्टान्तिकोक्तावात्मैव यतः साक्षादिह श्रुतः ।। ७८ ।।
समर्पितत्वं प्राणादेः श्रूयते प्रत्यगात्मनि ।।
भूतेषु देवतादेस्तदश्रुतं गृह्यते कथम् ।। ७९ ।।
बहिरन्तर्विभागोऽस्य कार्यकारणता तथा ।।
तदेतदिति वाक्येन प्रतीचोऽत्रैव वार्यते ।। ८० ।।
अथ योऽन्यामिति तथा भेददृष्टिनिराकृतेः ।।
उपास्योपासनविधिर्न सम्यगिति मे मतिः ।। ८१ ।।
अज्ञानमात्रव्यवधेर्ब्रह्मैकात्म्यफलस्य च ।।
ब्रह्मविद्यातिरेकेण तत्प्राप्तौ नापरा क्रिया ।। ८२ ।।
यद्वाचाऽनभ्युदितं मनुते मनसा न यत् ।।
तदेव ब्रह्म विद्धि त्वं न त्विदं यदुपासते ।। ८३ ।।
उपासिक्रियया व्याप्तिरब्रह्मत्वस्य लक्षणम् ।।
श्रुत्याऽकारि यतस्तादृक्कथं ब्रह्मेत्युपास्यते ।। ८४ ।।
दृश्यते त्वग्यया बुद्ध्या मनसैवेति यद्वचः ।।
तदात्मविद्याविध्यर्थं नोपासनविधायकम् ।। ८५ ।।
रजस्तमोनुविद्धेन यतो न ब्रह्म राम्यते ।।
शुद्धचेतस्तया तस्माद्विद्याद्ब्रह्मान्तरात्मनि ।। ८६ ।।
यद्वाऽनात्माभिसंबन्धात्पूर्वमैकात्म्यनिष्ठिता ।।
सर्वप्राणभृतां बुद्धिरित्यर्थो वचसो भवेत् ।। ८७ ।।
एषोऽर्थो वचसस्तस्य न तूपासाविधिर्भवेत् ।।
प्रध्वस्तभेद ऐकात्म्ये नोपासनविधिर्यतः ।। ८८ ।।
चक्रक्लृप्तिरतोऽसाध्वी श्रुत्यादिमितिबाह्यतः ।।
तदेतदितिवाक्यार्थो ग्राह्योऽतः संभवान्मितेः ।। ८९ ।।
तदाहुरिति वाक्येन ब्रह्मविद्याप्रयोजनम् ।।
साक्षेपं प्रागुपन्यस्तं तस्यायं निर्णयः कृतः ।। ९० ।।
आत्मेत्येवेति सूत्रस्य व्याख्येयं सम्यगात्मनः ।।
पञ्चभिर्ब्रह्मणैः श्रुत्याऽकारि कृत्स्नात्मबुद्धये ।। ९१ ।।
समाप्ता ब्रह्मविद्येयं कैवल्यावाप्तयेऽखिला ।।
यामवोचत्स्वभार्यायै याज्ञवल्क्योऽतिविस्तरात् ।। ९२ ।।
यथोक्तब्रह्मविद्याया इत आरभ्य भण्यते ।।
आख्यायिकेयं स्तुत्यर्था प्रवृत्त्यङ्गतया परा ।। ९३ ।।
आख्यायिकार्थं मन्त्राभ्यां व्याचष्टे श्रुतिरादरात् ।।
श्रुतिमन्त्रस्तुतो ह्यर्थ आदेयत्वं निगच्छति ।। ९४ ।।
अवाप्तपुरुषार्थोऽपि यामरक्षच्छचीपतिः ।।
प्रत्यग्विद्यैव तेन स्यादुदारफलसाधनम् ।। ९५ ।।
महता च यतोऽश्विभ्यामायासेनार्जिता पुरा ।।
ब्रह्मविद्या ततो नास्य मुक्तौ स्यात्साधनं परम् ।। ९६ ।।
निःशेषपुरुषार्थानां कैवल्योत्तमता यथा ।।
साधनानामपि तथा तद्विद्योत्तमसाधनम् ।। ९७ ।।
अश्व्याथर्वणयोर्वृत्तं ब्रह्मविद्याप्तिकारणात् ।।
यत्प्रागाविष्कृतिस्तस्य मन्त्राभ्यां क्रियतेऽञ्जसा ।। ९८ ।।
अश्विम्यां प्रार्थितोऽथर्वा मधुविद्यामिमां किल ।।
तावथर्वाऽब्रवीदिन्द्रश्छिन्द्यान्मे ब्रुवतः शिरः ।। ९९ ।।
अतो भयादिमां विद्यां युवाभ्यां न ब्रवीम्यहम् ।।
तमूचतुः पुरैवाऽऽवामिन्द्रच्छेदनतः शिरः ।। १०० ।।
छित्त्वा तवाश्व्यं संधाय शिरः श्रोष्यावहे ततः ।।
ब्रूह्यतोऽश्व्येन शिरसा मधुविद्यां विमुक्तये ।। १०१ ।।
एवमस्त्वित्यनुज्ञाते छित्वा तस्याथ तच्छिरः ।।
समधत्तां शिरोऽश्वस्य तेन विद्यामुवाच सः ।। १०२ ।।
पुनश्छिन्नेऽथ शिरसि तेनेन्द्रेणाश्विनावपि ।।
समधत्तां शिरस्तस्य विद्यां स्वशिरसाऽथ सः ।। १०३ ।।
शेषामवोचदश्विभ्यामृतायन्नात्मनो वचः ।।
यत एवमतस्तस्मात्सत्यं रक्ष्यं प्रयत्नतः ।। १०४ ।।
इदं वै तन्मधु प्रोक्तं यत्तत्प्रकरणान्तरे ।।
दध्यङ् ह वा आभ्यामिति श्रूयते ब्राह्मणोक्तितः ।। १०५ ।।
मधुब्राह्मणमेतत्तद्यत्प्रागुक्तमभूत्स्फुटम् ।।
दध्यङ्ङाथर्वणोऽश्विभ्यां यदुवाचाऽऽत्मबोधनम् ।। १०६ ।।
अश्व्याथर्वणयोरेतत्कर्म पश्यन्नृचाऽब्रवीत् ।।
ऋपिरार्षेयदृष्ट्यैव तदेतदभिधीयते ।। १०७ ।।
आविप्करोमि तत्कर्म युवयोरद्य हे नरौ ।।
लाभाय सनये क्रूरे चक्रथुर्यद्रहस्यगौ ।। १०८ ।।
वृष्टेरागमनं यद्वत्स्तनयित्नुः प्रबोधयेत् ।।
रहस्यं युवयोः कर्म तद्वदाविप्करोम्यहम् ।। १०९ ।।
अश्वस्य शिरसा वां यदवोचन्मध्वसावृषिः ।।
दधीचोऽशव्यं शिरश्छित्वा निकृत्यास्य शिरोऽश्विनौ ।। ११० ।।
संधत्तां सोऽश्वशिरसा युवाभ्यां मध्वथाब्रवीत् ।।
ऋतायन्सत्यमात्मानं कर्तुमिच्छन्नसावृषिः ।। १११ ।।
प्राणसंशयमापन्नस्तस्माच्चैवावसीयते ।।
आत्मनो मरणेनापि सत्यं रक्ष्यं प्रयत्नतः ।। ११२ ।।
आदित्यविषयं त्वाष्ट्रं मध्ववोचदथर्वणः ।।
हे दस्रावपि कक्ष्यं यत्प्रत्यग्याथात्म्यदर्शनम् ।। ११३ ।।
उपक्षयकरौ व्याधेर्दस्रौ स्यातामतोऽश्विनौ ।।
न केवलं त्वाष्ट्रमेव कक्ष्यमप्यब्रवीन्मधु ।। ११४ ।।
प्रवर्ग्याध्यायोरेवं त्वाष्ट्रज्ञानोपसंहृतिम् ।।
मन्त्रद्वयेन कृत्वाऽथ कक्ष्यज्ञानोपसंहृतिः ।। ११५ ।।
क्रियतेऽध्याययोरेवं मधुकाण्डं समाप्यते ।।
श्रुतिमत्रोपदिष्टोऽर्थो यस्मादाद्रियते ततः ।। ११६ ।।
पुरश्चक्रे शरीराणि द्विपदः पक्षिमानुषान् ।।
चतुष्पदोऽथ पशयः पुरश्चक्रे स्वमायया ।। ११७ ।।
पुरो भुक्तशरीरात्स पक्षी लिङ्गमिहोच्यते ।।
पुरो नवशरीराणि प्राविशज्जलचन्द्रवत् ।। ११८ ।।
कस्मात्पुरुष इति चेत्पुरुषार्थं श्रुतिः स्वयम् ।।
स वा इत्यादिनाऽऽचष्टे सर्वैकात्म्यावबुद्धये ।। ११९ ।।
पुरुषोऽयं भवेदात्मा यतः शेते स पूरुषु ।।
सर्वासु तेन लोकेऽस्मिन्पुरुषोऽयमितीर्यते ।। १२० ।।
परिच्छेदप्रसङ्गश्चेन्मैवं यस्मादिदं जगत् ।।
नैनेनानावृतं किंचिन्नाव्याप्तं ह्योततन्तुवत् ।। १२१ ।।
नासंवृतं तथा किंचित्प्रोततन्तुवदात्मना ।।
पूर्णत्वात्पुरुपः सोऽयं ब्रह्मैकं पुरुषस्ततः ।। १२२ ।।
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-स्तेनेदं पूर्णं पुरुषेण सर्वम् ।। १२३ ।।
आवृतं ज्ञप्तिमात्रेण सर्वमात्मीकृतं जगत् ।।
संवृतं प्रतिषिद्धं तद्यदनात्मेव लक्ष्यते ।। १२४ ।।
तन्नास्ति कारणं कार्यं यन्नानेनाऽऽत्मसात्कृतम् ।।
तन्नास्ति कारणं कार्यं यन्नानेनाऽऽत्मना ह्नुतम् ।। १२५ ।।
रूपं रूपं प्रति ह्येष प्रतिरूपो बभूव ह ।।
देहं देहं प्रविष्टः संस्तद्देहाकारतामगात् ।। १२६ ।।
मायाभिः प्रत्यगज्ञानैर्यदि वाऽनृतबुद्धिभिः ।।
गम्यते पुरुरूपोऽज्ञैरेकोऽपि जलसूर्यवत् ।। १२७ ।।
प्रत्यग्याथात्म्यबोधार्थं रूपं मायामयं विभोः ।।
शास्त्राचार्यादिना नर्ते ज्ञातुं वस्त्विह शक्यते ।। १२८ ।।
कुतोऽस्य बहुरूपत्वमिति हेतुरिहोच्यते ।।
युक्ता ह्यस्येति वचसा मिथ्याज्ञानैकहेतुतः ।। १२९ ।।
स्रजस्तत्त्वापरिज्ञानाद्युक्ता दण्डादयो यथा ।।
प्रत्यक्तत्त्वापरिज्ञानादात्मनो हरयस्तथा ।। १३० ।।
इन्द्रियाण्येव हरयो हरणाद्विषयान्प्रति ।।
दश तानि सहस्राणि शतानि प्राणिभेदतः ।। १३१ ।।
नान्यो हेतुरविज्ञानादिन्द्रियादेरिहाऽऽत्मनि ।।
यतोऽयमेव हरयो यावत्संख्या तदाश्रया ।। १३२ ।।
अयमेवेन्द्रियत्वेन देहत्वेन च कल्पितः ।।
तथा शतसहस्रादिसंख्याभेदेन चाप्ययम् ।। १३३ ।।
नामरूपक्रियाभेदैर्यथा पूर्वमवादिषम् ।।
अयमेव तथाऽरूपः कल्पितोऽविद्ययाऽद्वयः ।। १३४ ।।
तदेतत्कल्पितं सर्वं सहेतु फलवज्जगत् ।।
प्रत्यगात्मात्मकं भास्वत्प्रज्ञानघनतत्त्वकम् ।। १३५ ।।
निःशेषोपनिषत्सारस्तदेतदिति सांप्रतम् ।।
उक्त्याऽऽविष्क्रियते साक्षात्करविन्यस्तबिल्ववत् ।। १३६ ।।
अज्ञातं संशयज्ञातं मिथ्याज्ञातमिदं जगत् ।।
तदेतदित्यनूद्यैतत्तत्तत्त्वमवबोध्यते ।। १३७ ।।
ब्रह्मेति वास्तवं वृत्तं तावदस्यावबोध्यते ।।
ज्ञानात्पुराऽपि ब्रह्मैव नातो ज्ञानफलं भवेत् ।। १३८ ।।
अपूर्वमिति कार्यत्वनिषेधायाभिधीयते ।।
कारणत्वनिषेधाय तथाऽनपरगीरियम् ।। १३९ ।।
अनन्तरमिति तयोरन्ध्रस्य प्रतिषेधनम् ।।
कार्यकारणयोर्बाह्यमबाह्यमिति वार्यते ।। १४० ।।
सत्ता वाऽनन्तरगिरा ब्रह्मणः प्रतिषिध्यते ।।
विशेषोऽबाह्यशब्देन ततो वाक्यार्थरूपकम् ।। १४१ ।।
नाऽऽत्मनोऽन्यत्र संभाव्यमपूर्वादि यदीरितम् ।।
ब्रह्माऽऽत्मैवेत्यतो वक्ति श्रुतिरैकात्म्यसिद्धये ।। १४२ ।।
पारोक्ष्यप्रतिषेधार्थ ब्रह्माऽऽत्मैवेति भण्यते ।।
ब्रह्मैवाऽऽत्मेति च तथा संसारित्वनिवृत्तये ।। १४३ ।।
भिन्नं ब्रह्मापरिज्ञानात्संसारित्वं तथाऽऽत्मनः ।।
तत्त्वज्ञानात्तमोध्वस्तौ नेतीत्यात्माऽवशिष्यते ।। १४४ ।।
सर्वोऽनुभव एवायमतः सर्वानुभूः परः ।।
कार्त्स्न्यात्सर्वो भवेदेष चिन्मात्रत्वात्तथाऽनुभूः ।। १४५ ।।
इतीत्युक्तपरामर्शो वेदाज्ञा चानुशासनम् ।।
कर्तव्यमेतद्विज्ञानमिति वेदानुशासनम् ।। १४६ ।।
अस्यातिलङ्घने दोषः संसारानर्थसंगतिः ।।
कुर्वतश्च महाल्ला़भ आत्मनः कृतकृत्यता ।। १४७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम्