प्तमाप्तो मधुकाण्डार्थो याज्ञवल्कीयकाण्डगः ।।
अतः परं प्रयत्नेन श्रुत्या व्याख्यायते स्फुटम् ।। १ ।।
याज्ञवल्कीयमेतस्मान्मधुकाण्डादनन्तरम् ।।
काण्डं विचारभूयिष्ठमधुनाऽऽरभ्यते परम् ।। २ ।।
ननु पूर्वं य उक्तोऽर्थः स एवेहापि भण्यते ।।
अनुरुक्तं न च न्याय्यमेकप्रवचनस्थयोः ।। ३ ।।
एकार्थत्वेऽपि च सति नैवास्य पुनरुक्तता ।।
याज्ञवल्कीयकाण्डस्य ह्युपपत्तिप्रधानतः ।। ४ ।।
आगमोक्तिप्र नित्वं मधुकाण्डस्य वर्णितम् ।।
आगमार्थविशुद्ध्यर्थं युक्तीरत्र प्रवक्ष्यति ।। ५ ।।
न चाऽऽगमस्य स्वातन्त्रयं युक्त्युक्तेरपनुद्यते ।।
अर्थान्तरत्वाद्युक्तीनां प्रमाणेभ्यो यतस्ततः ।। ६ ।।
सर्वप्रमाणशेषत्वं युक्तीनामुपवर्णितम् ।।
शास्रान्तरेष्वपि तथा नातः स्वातन्त्र्यखण्डनम् ।। ७ ।।
पदार्थविपया चेयं युक्तिस्तर्कोऽभिधीयते ।।
वाक्यार्थस्त्वागमादेव निरपेक्षमतो वचः ।। ८ ।।
पौरुषेयवचःस्वेव युक्तेः प्राधान्यमिष्यते ।।
अनरोक्तौ तु तात्पर्यं युक्तेरर्थो न युक्तितः ।। ९ ।।
प्रत्यक्षाद्यतिवर्तित्वाद्युक्त्यपेक्षा न विद्यते ।।
आगमार्थे, यथैवं स्याद्युक्त्यर्थे नाऽऽगमेक्षणम् ।। १० ।।
पुंस्वभावानुरोधेन युक्तिर्वेदेऽभिधीयते ।।
आगमस्य प्रवृत्तिस्तु मेयवृत्तव्यपेक्षया ।। ११ ।।
ननूक्ता मधुकाण्डेऽपि दुन्दुभ्याद्युपपत्तयः ।।
आगमैकप्रधानत्वं कथं तस्येति भण्यते ।। १२ ।।
नैष दोषो यतस्तत्र युक्तीनामप्रधानता ।।
प्राधान्यं याज्ञवल्कीये युक्तीनामभिधीयते ।। १३ ।।
युक्त्यागमौ हि संभूय करस्थामलकादिवत् ।।
सुसूक्ष्ममपि सद्वस्तु शक्तौ ज्ञापयितुं यतः ।। १४ ।।
युक्तयोऽतोऽभिधीयन्ते पूर्वपक्षादिसंश्रयाः ।।
याज्ञवल्कीय एतस्मिन्काण्डे जल्पोक्तिवर्त्मना ।। १५ ।।
उद्गीथप्रमुखा येऽर्था मधुकाण्डे पुरोदिताः ।।
तेषामेव विशुद्ध्यर्थं विचारः क्रियतेऽधुना ।। १६ ।।
दर्शनस्यास्य तेनात एकावाक्यत्वमिष्यते ।।
तथैवान्यपदार्थेषु तद्द्वयोरपि काण्डयोः ।। १७ ।।
यदिदं कर्मणोऽशेपसाधनं मृत्युनाऽऽप्लुतम् ।।
स्वामिमन्रर्त्विगग्न्यादि त्वभिपन्नं वशीकृतम् ।। १८ ।।
परिच्छेदकृदज्ञानं सासङ्गं मृत्युसंज्ञितम् ।।
केनायं यजमानोऽतो मृत्योराप्तेर्विमुच्यते ।। १९ ।।
यन्मर्त्यसाधनं साध्यं मर्त्यं तदपि जायते ।।
साधनानुमितं साध्यं मुक्तिः केनात उच्यते ।। २० ।।
होत्रर्त्विजाऽग्निना वाचा मृत्योराप्तेर्विमुच्यते ।।
इति प्रश्नप्रतिवचो याज्ञवल्क्योऽप्युवाच तम् ।। २१ ।।
प्रवक्त याज्ञवल्क्योऽत्र तं पृच्छन्त्यश्वलादयः ।।
सराजके समाजेऽयं विचारः क्रियते महान् ।। २२ ।।
यजमानस्य येयं वाग्घोता चैतद्दूयं यदा ।।
अधिदैवात्मना वेत्ति स होतैवंविधो भवेत् ।। ३३ ।।
अनन्तविग्रहः सोऽग्निर्होता मृत्योर्यथोदितात् ।।
यजमानस्य मुक्तिः स्यादतिमुक्तिस्तथैव च ।। २४ ।।
आसुरात्साधनाद्दैवप्राप्तिर्मुक्तिरिहोच्यते ।।
साध्यादप्यासुराद्दैवसाध्याप्तिरतिमुक्तिता ।। २५ ।।
यथोक्तोपासनादेव कैवल्यं चेद्विवक्ष्यते ।।
ब्रह्मविद्या किमर्थेयं नान्यन्मुक्तेः फलं ततः ।। २६ ।।
आसुरात्कर्मणो मृत्योरतिमुक्तिरिहोदिता ।।
कालात्कर्मातिरेकेण मृत्योमुक्तिरिहोच्यते ।। २७ ।।
प्रयोगसमवाय्येव द्रव्यकर्त्रादिसाधनम् ।।
तत्प्रयोगावसाने च सर्वं तदपवृज्यते ।। २८ ।।
प्रयोगावसितेस्तूर्ध्वं कालः प्राक्च प्रयोगतः ।।
क्षपयन्वर्ततेजस्रं सर्वं तत्कर्मसाधनम् ।। २९ ।।
तस्मात्कर्मातिरेकेण कालो मृत्युः प्रतीयताम् ।।
ततोऽपि मुक्तिर्वक्तव्येत्यत आरभ्यते परः ।। ३० ।।
कालश्च द्विविधः प्रोक्त एकोऽहोरात्रलक्षणः ।।
तिथ्यादिलक्षणश्चान्यस्ताभ्यां मुक्तिरिहोच्यते ।। ३१ ।।
उपस्थापयतः कर्म तथा क्षपयतो यतः ।।
अहोरात्रे ततो मृत्युस्ताभ्यां मुक्तिः कुतो भवेत् ।। ३२ ।।
अव्यात्मं चक्षुरध्वर्युरधियज्ञं द्वयं रविः ।।
साक्षादनन्तदेहोऽयमिति ध्यायन्विमुच्यते ।। ३३ ।।
आत्मावयव एवायं सूर्यश्चक्षुर्ममांशुमान् ।।
अध्वर्युरहमेवेति साक्षात्कृत्वा विमुच्यते ।। ३४ ।।
कलावृद्धिक्षयाभ्यां तु पक्षयोरुभयोस्तथा ।।
चन्द्रः कर्तेह तत्प्राप्त्या पक्षाभ्यां विप्रमुच्यते ।। ३५ ।।
ह्रासवृद्ध्योर्यतः कर्ता वायुश्चन्द्रमसस्ततः ।।
वायुनैवोपसंहारः प्राणोद्गात्रोरयं कृतः ।। ३६ ।।
मनोऽध्यात्मं यदस्याभूद्ब्रह्मा चैवाधियज्ञगः ।।
तस्याधिदेवता चन्द्र इति माध्यंदिनश्रुतिः ।। ३७ ।।
कर्मतः कालतो मृत्योर्मुक्तोऽयं स्वर्गमेष्यति ।।
तं प्रयास्यति केनायमाक्रमेणेति पृच्छ्यते ।। ३८ ।।
स्वर्गलोकगतावत्र साधनं पृच्छ्यते यतः ।।
अन्तरिक्षमनाधारं गतौ हेतुनिषेधनम् ।। ३९ ।।
न तु देहग्रहे प्रश्नः सति गन्तरि पृच्छ्यते ।।
अग्न्यादिदृष्टिभिश्चास्य देहः प्राक्प्रतिपादितः ।। ४०।।
मनोऽधियज्ञं ब्रह्मैव ब्रह्मा चन्द्रोऽधिदैवतम् ।।
चन्द्रेण मनसा लोकमवष्टम्भेन यास्यति ।। ४१ ।।
अध्यात्मं प्राण एव स्यादुद्गाता योऽधियज्ञगः ।।
स वायुरिति पाठे स्याद्व्याख्या माध्यंदिने त्वियम् ।। ४२ ।।
यजमानश्रुतेरत्र पूर्वोद्गीथैकवाक्यतः ।।
यजमानो जपस्तत्र ज्ञानं नेत्यवसीयताम् ।। ४३ ।।
संभाव्यते न यत्तत्र यजमानस्य मानतः ।।
अस्तु कामं तदुद्गातुर्नतु तद्यजमानगम् ।। ४४ ।।
इतीत्युक्तपरामर्शो ह्यतिदेशार्थ उच्यते ।।
इतोऽन्यत्रातिमोक्षा ये तेऽप्येवमिति वीक्ष्यताम् ।। ४५ ।।
अधिदैवात्मना तेषां दृष्टयः साधनात्मनाम् ।।
अतिमोक्षाः स्युः सर्वत्र यथोक्तादेव लक्षणात् ।। ४६ ।।
फलवत्कर्मणां क्वापि किंचित्सामान्यसंश्रयात् ।।
संपत्तिमर्हतां संपदल्पीयःकर्मसूच्यते ।। ४७ ।।
यदि वा तत्फलस्यैव किंचित्सामान्यवर्त्मना ।।
संपादनं भवेत्संपदग्निहोत्रादिकर्मणि ।। ४८ ।।
संपदा चेत्फलप्राप्तिरश्वमेधादिकर्मणाम् ।।
त्रयाणामपि वर्णानां तत्पाठः फलवान्भवेत् ।। ४९ ।।
नातिभारोऽस्ति नो बुद्धेः शास्रं चेत्तत्परं भवेत् ।।
विदुषां श्रेयसेऽतोऽध्वा न क्वचित्प्रतिहन्यते ।। ५० ।।
तिसृभिरिति संख्यार्थप्रश्ननिर्णयमब्रवीत् ।।
पुरोनुवाक्याद्युक्त्या तु संख्येयार्थविनिर्णयम् ।। ५१ ।।
त्रैलोक्यसंख्यासामान्यात्स्यात्सर्वप्राणभृज्जभः ।।
सर्वप्राणभृतां यस्मात्र्रिष्वेवैतेषु संभवः ।। ५२ ।।
उज्ज्वलत्वादिसामान्याद्देवलोकादिसंपदः ।।
फलसंपद एवैता नात्र कर्म विवक्ष्यते ।। ५३ ।।
दीप्तिर्नादोऽधःशयनमाज्यमांसपयोम्भसाम् ।।
देवलोकादिसंपत्स्याद्दीप्तिमत्त्वादिसंभवात् ।। ५४ ।।
वृत्त्यानन्त्यान्मनोऽनन्तं शब्दादीनामनन्ततः ।।
विश्वेदेवान्मनोवृत्तीः संपाद्याऽऽनन्त्यसाम्यतः ।। ५५ ।।
अनन्तमेव तेनासौ सम्यग्ज्ञानेन विन्दति ।।
लोकं यथोक्तदृष्टिः सन्यजमानः फलं स्वयम् ।। ५३ ।।
तिस्रः पुरोनुवाक्याद्या ऋचः पूर्वमुदीरिताः ।।
यास्ता एवात्र विज्ञेयाः स्तोत्रिया अपि नापराः ।। ५७ ।।
गीतयस्त्वधियज्ञं ता अध्यात्मं कास्तु ता इति ।।
प्राणापानव्यानरूपा अध्यात्मं ताः प्रचक्षते ।। ५८ ।।
जयो भूरादिलोकानां संख्यादित्वादिसाम्यतः ।।
अश्वलोऽप्युपरेमेऽथ स्वोक्तप्रश्नविनिर्णयात् ।। ५९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य प्रथममश्वलब्राह्मणम्