बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संसरतीत्युक्तम् ; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृतविषयः समष्टिव्यष्टिरूपः द्वैतैकत्वात्मप्राप्तिः । यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति, सः अस्ति वा, न अस्ति ; अस्तित्वे च किंलक्षणः — इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते । तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्य अधिगमात् यथोक्ताद्बन्धनात् विमुच्यते सप्रयोजकात् आख्यायिकसम्बन्धस्तु प्रसिद्धः ॥
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानीति स त आत्मा सर्वान्तरो यो व्यानेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥
अथ ह एनं प्रकृतं याज्ञवल्क्यम् , उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ । यत् ब्रह्म साक्षात् अव्यवहितं केनचित् द्रष्टुः अपरोक्षात् — अगौणम् — न श्रोत्रब्रह्मादिवत् — किं तत् ? य आत्मा — आत्मशब्देन प्रत्यगात्मोच्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात् ; सर्वस्याभ्यन्तरः सर्वान्तरः ; यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति — तम् आत्मानम् , मे मह्यम् , व्याचक्ष्वेति — विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः । एवमुक्तः प्रत्याह याज्ञवल्क्यः — एषः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ; सर्वविशेषणोपलक्षणार्थं सर्वान्तरग्रहणम् ; यत् साक्षात् अव्यवहितम् अपरोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्याभ्यन्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः, कोऽसौ तवात्मा ? योऽयं कार्यकरणसङ्घातः तव सः येनात्मना आत्मवान् स एष तव आत्मा — तव कार्यकरणसङ्घातस्येत्यर्थः । तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसङ्घातः, तृतीयो यश्च सन्दिह्यमानः — तेषु कतमो मम आत्मा सर्वान्तरः त्वया विवक्षित इत्युक्ते इतर आह — यः प्राणेन मुखनासिकासञ्चारिणा प्राणिति प्राणचेष्टां करोति, येन प्राणः प्रणीयत इत्यर्थः — सः ते तव कार्यकरणसङ्घातस्य आत्मा विज्ञानमयः ; समानमन्यत् ; योऽपानेनापानीति यो व्यानेन व्यानीतीति — छान्दसं दैर्घ्यम् । सर्वाः कार्यकरणसङ्घातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते — न हि चेतनावदनधिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ; तस्मात् विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत् प्राणनादिचेष्टां प्रतिपद्यते — तस्मात् सोऽस्ति कार्यकरणसङ्घातविलक्षणः, यश्चेष्टयति ॥
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
स होवाचोषस्तश्चाक्रायणः ; यथा कश्चित् अन्यथा प्रतिज्ञाय पूर्वम् , पुनर्विप्रतिपन्नो ब्रूयादन्यथा — असौ गौः असावश्वः यश्चलति धावतीति वा, पूर्वं प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति — एवमेव एतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ; किं बहुना ? त्यक्त्वा गोतृष्णानिमित्तं व्याजम् , यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । इतर आह — यथा मया प्रथमं प्रतिज्ञातः तव आत्मा — एवँलक्षण इति — तां प्रतिज्ञामनुवर्त एव ; तत् तथैव, यथोक्तं मया । यत्पुनरुक्तम् , तमात्मानं घटादिवत् विषयीकुर्विति — तत् अशक्यत्वान्न क्रियते । कस्मात्पुनः तदशक्यमित्याह — वस्तुस्वाभाव्यात् ; किं पुनः तत् वस्तुस्वाभाव्यम् ? दृष्ट्यादिद्रष्टृत्वम् ; दृष्टेर्द्रष्टा ह्यात्मा ; दृष्टिरिति द्विविधा भवति — लौकिकी पारमार्थिकी चेति ; तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ; सा क्रियत इति जायते विनश्यति च ; या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत् , सा च द्रष्टुः स्वरूपत्वात् , न जायते न विनश्यति च ; सा क्रियमाणया उपाधिभूतया संसृष्टेवेति, व्यपदिश्यते — द्रष्टेति, भेदवच्च — द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टिः चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृष्टेव, तत्प्रतिच्छाया — तया व्याप्तैव जायते, तथा विनश्यति च ; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि — पश्यति न पश्यति चेति ; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ; तथा च वक्ष्यति षष्ठे — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७), ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इति च । तमिममर्थमाह — लौकिक्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारम् , न पश्येः ; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मतेः मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभावः ; अतः नैव दर्शयितुं शक्यते गवादिवत् ॥
‘न दृष्टेर्द्रष्टारम्’ इत्यत्र अक्षराणि अन्यथा व्याचक्षते केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारम् , न पश्येरिति ; दृष्टेरिति कर्मणि षष्ठी ; सा दृष्टिः क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातॄणामभिप्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः ; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दृष्टेरिति निरर्थकम् ; तदा ‘द्रष्टारं न पश्येः’ इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते ; ‘गन्तारं भेत्तारं वा नयति’ इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु ‘गतेर्गन्तारं भिदेर्भेत्तारम्’ इति असति अर्थविशेषे प्रयोक्तव्यः ; न च अर्थवादत्वेन हातव्यं सत्यां गतौ ; न च प्रमादपाठः, सर्वेषामविगानात् ; तस्मात् व्याख्यातॄणामेव बुद्धिदौर्बल्यम् , नाध्येतृप्रमादः । यथा तु अस्माभिर्व्याख्यातम् — लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यः — तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विः प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; ‘न हि द्रष्टुर्दृष्टेः’ इति च प्रदेशान्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च ‘चक्षूंषि पश्यति’ (के. उ. १ । ७) ‘श्रोत्रमिदं श्रुतम्’ (के. उ. १ । ८) इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाच्च — एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे ; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) ‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ. उ. ४ । ४ । २३) इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति — न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् ; न आत्मतत्त्वनिर्धारणार्थानि तानि ; ‘न दृष्टेर्द्रष्टारम्’ इत्येवमादीनाम् अन्यार्थासम्भवात् यथोक्तार्थपरत्वमवगम्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ; अतः एतस्मादात्मनः अन्यदार्तम् — कार्यं वा शरीरम् , करणात्मकं वा लिङ्गम् ; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो ह उषस्तश्चाक्रायण उपरराम ॥
इति तृतीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥
ऐकात्म्यानवबोधस्य कार्यमुक्तमशेषतः ।।
तन्मूलध्वस्तयेऽथोर्ध्वं परो ग्रन्थोऽवतार्यते ।। १ ।।
पुण्यापुण्यप्रयुक्तः सन्ग्रहातिग्रहबन्धनः ।।
आब्रह्माऽऽस्थाणु चाजस्रं यः संसरति मूढधीः ।। २ ।।
सोऽयमुक्तस्तथोत्कर्षः परः पुण्यस्य चोदितः ।।
मुमुक्षुरस्ति नास्तीति परो ग्रन्थोऽवतार्यते ।। ३ ।।
देहेन्द्रियमनोबुद्धिवेदनाव्यतिरेकतः ।।
अस्तित्वे तस्य संसिद्धे तन्मुक्त्यै यत्यते यतः ।। ४ ।।
भविष्यल्लोकसंबन्धी येषामागमतो मतः ।।
न तान्प्रति समारम्भः सिद्ध एव हि तान्प्रति ।। ५ ।।
कर्त्रात्मनः पुरा सिद्धेर्बुद्ध्याद्यव्यतिरेकतः ।।
कर्त्रादेरिह साक्ष्यात्मा दृष्टेर्द्रष्टोच्यतेऽधुना ।। ६ ।।
विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते ।।
विषयेऽवधृते यस्मादुपदेशोऽर्थवान्भवेत् ।। ७ ।।
ब्रह्मणो वोपदेशः स्यादथवाऽब्रह्मणो भवेत् ।।
ब्रह्मत्वस्य स्वतः सिद्धेर्ब्रह्मणि स्यादनर्थकः ।। ८ ।।
उपदेशशतेनापि ब्रह्मत्वं न कथंचन ।।
स्वतोऽब्रह्मत्वतस्तस्य नातोऽब्रह्मण इष्यते ।। ९ ।।
सर्वस्यैकात्म्ययाथात्म्यान्न चाब्रह्मेह लभ्यते ।।
क्षेत्रज्ञेश्वरसंभेदशङ्कानुत्त्यर्थमुच्यते ।। १० ।।
यदित्यनेन निर्देशो विशेष्यस्य विवक्षितः ।।
सामान्यमात्रविज्ञानाद्विशेषस्याप्रतीतितः ।। ११ ।।
साक्षादित्यादिकं सर्वं तद्विशेषणमुच्यते ।।
विशिष्टार्थावबोधित्वान्नीलरक्तोत्पलादिवत् ।। १२ ।।
यदित्यादिपदानां च सामानाधिकरण्यतः ।।
विशेषणविशेष्यत्वं श्रुत्यैवेहावसीयते ।। १३ ।।
साक्षादित्यभिधानेन प्रत्यक्षोऽर्थोऽभिधीयते ।।
मनसोऽग्रहणं तस्य न दृष्टेरिति वारणात् ।। १४ ।।
यदि वा द्रष्टरि प्राप्ते साक्षादिति विशेषणात् ।।
तत्प्रसङ्गनिवृत्त्यर्थमपरोक्षादितीर्यते ।। १५ ।।
द्रष्टृदर्शनदृश्यार्थप्राप्तावाद्यविशेषणात् ।।
लोकवत्तन्निषेधार्थमपरोक्षादितीर्यते ।। १६ ।।
द्रष्टृदर्शनदृश्यार्थसंभेदविषयस्य हि ।।
निषेधायापरोक्षाद्गीरभिन्नार्थग्रहाय तु ।। १७ ।।
द्रष्टृदर्शनदृश्यार्थसंभेदस्य निषेधतः ।।
दृष्टिमात्रं स्वप्तः सिद्धं विशेषणफलं भवेत् ।। १८ ।।
एऴं सदेकरूपं च यदि नामोक्तलक्षणम् ।।
निर्द्वयं सद्वयं वेति नोक्तहेतोस्तदीक्ष्यते ।। १९ ।।
यतोऽतोऽद्वयसिद्ध्यर्थं ब्रह्मेत्येतद्विशेष्यते ।।
अव्यावृत्ताननुगतं वस्तु ब्रह्मेति भण्यते ।। २० ।।
अपुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत् ।।
यतोऽत आत्मरूपार्थमात्मेत्येवं विशेष्यते ।। २१ ।।
सजातीयासजातीयद्वितीयार्थानभिप्लुतम् ।।
सांख्यराद्धान्तपुंवत्तत्प्राप्तं नानात्वदर्शनात् ।। २२ ।।
यतोऽतस्तन्निषेधार्थं सर्वान्तर इतिरणम् ।।
सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते ।। २३ ।।
स्रग्वत्सर्पादिक्लृप्तानां प्रत्यङ्भात्रैकरूपतः ।।
प्रत्यग्वस्तूपरोधेन नानार्थो नावशिष्यते ।। २४ ।।
प्रत्यग्रूपावबोधस्य भावाभावात्मवस्तुषु ।।
सर्वत्राव्यभिचारित्वादात्मा सर्वान्तरो भवेत् ।। २५ ।।
यत्साक्षादपरोक्षाद्भ्यां ब्रह्म वेह विशिष्यते ।।
सर्वान्तरगृहीत्या च प्रत्यगर्थस्य संगतिः ।। २६ ।।
साक्षादित्यव्यवहितमगौणमपरोक्षतः ।।
इति द्वयं प्रतीच्येव संभाव्यं ब्रह्मणीरितम् ।। २७ ।।
तथा सर्वान्तरत्वस्य सभेदवृत्तिविरोधतः ।।
संभावनाऽद्वितीयत्वाद्ब्रह्मण्येवाऽऽत्मसंस्थितेः ।। २८ ।।
यतोऽत एकवाक्यत्वे ब्रह्मात्माख्यापदार्थयोः ।।
द्वैतसंसर्गबाधेन पूर्णं वस्तु प्रतीयते ।। २९ ।।
यदि वैकविशेष्येण विशेषणतया युतिः ।।
साक्षादित्यादिकानां स्यान्मिथोऽन्योन्यानपेक्षतः ।। ३० ।।
एकवस्त्ववसायित्वादन्योन्यार्थानुरोधतः ।।
विशेषणानि सर्वाणि विशिंषन्त्युत्पलादिवत् ।। ३१ ।।
उपात्तस्वविशेष्याणि साक्षादित्यादिकानि हि ।।
परस्परोपरोधेन स्वविरुद्धार्थहानतः ।। ३२ ।।
स्वार्थासंत्यागमर्गेण नानासंसर्गबाधनात् ।।
भेदहेतुतमोघातिप्रत्यग्याथात्म्यशेमुषी -
जन्मनैवाऽऽप्तमांप्नोति स्वतोऽमेयं वचःश्रवात् ।। ३३ ।।
सामानाधिकरण्योक्तेर्विशेषणविशेष्यतः ।।
लक्ष्यलक्षणगत्याऽतो यथोक्तार्थं प्रपद्यते ।। ३४ ।।
सर्वार्थं यदि वाऽऽद्यं स्यात्साक्षादिति विशेषणम् ।।
अपरोक्षान्तमथवा ब्रह्मान्तं वोत्तरस्य तु ।। ३५ ।।
यत्साक्षाच्चापरोक्षाच्च ब्रह्माणः स्तो विशेषणे ।।
वाक्याद्ब्रह्याभिसंबन्धात्तदन्यस्य तथाऽश्रवात् ।। ३६ ।।
यदव्यवहितं द्रष्टुर्व्यवधानेन केनचित् ।।
प्रत्यङ्भात्रस्वभावत्वाद्ब्रह्मणोऽव्यवधानता ।। ३७ ।।
अव्यावृत्ताननुगतं ब्रह्मागौणं प्रचक्षते ।।
अपरोक्षाद्भवेत्तादृङ्नातोऽन्यादृक्कथंचन ।। ३८ ।।
सर्वानात्मनिषेधेन बोध आत्मन्यथैकले ।।
परमार्थं त्वसंप्राप्य निषेधो नेष्यते यतः ।। ३९ ।।
व्यतिरेकान्वयाभावैः कार्यं वस्त्वभिलप्यते ।।
कारणत्वनिषेधेन ब्रह्माऽऽत्मानं प्रपद्यते ।। ४० ।।
एतावन्मात्रयाथात्म्यात्कार्यकारणवस्तुनः ।।
अव्यावृत्ताननुगतं ब्रह्माऽऽत्मैव ततो भवेत् ।। ४१ ।।
यश्चाऽऽत्मैव भवेत्प्रत्यक्सर्वान्तरतमस्तथा ।।
तमेवंलक्षणं मह्यं यथावद्वक्तुमर्हसि ।। ४२ ।।
सामानाधिकरण्योक्तेर्ब्रह्मात्मार्थाभिधायिनोः ।।
ऐकार्थ्यमेतयोर्न्याय्यं मिथोर्थावसितेस्तथा ।। ४३ ।।
ब्रह्माऽऽत्मैकस्वभावेन साक्षादिति विशेष्यते ।।
असंभवात्तदन्यत्र ब्रह्मत्वस्य यतस्ततः ।। ४४ ।।
आत्माऽपि ब्रह्मणोऽन्यत्र नैव संभाव्यते यतः ।।
सामानाधिकरण्योक्तिस्तस्माद्ब्रह्मात्मशब्दयोः ।। ४५ ।।
विशेषणविशेष्यत्वे मिथो ब्रह्मात्मनोरतः ।।
अब्रह्मानात्मापह्नुत्याऽसंसर्गैकात्म्यधीर्भवेत् ।। ४६ ।।
ब्रह्मणोऽप्यात्मनो मोहादब्रह्मत्वं न वस्तुतः ।।
आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽपि तमोन्वयात् ।। ४७ ।।
तमसो ज्ञानविध्वस्तावब्रह्मानात्मताहतेः ।।
अपूर्वाद्यात्मकं ब्रह्म निःसंसर्गं प्रपद्यते ।। ४८ ।।
प्रत्यग्याथात्म्यविज्ञानात्तत्तमोनात्मबाधतः ।।
प्रत्यङ्भात्रावशेषत्वात्स्यामपूर्वादिमानहम् ।। ४९ ।।
प्रणिधायाऽऽत्मनि दृष्टिं प्रत्यग्बोधैकरञ्जिताम् ।।
प्रतिवक्त्येष इति तं याज्ञवल्क्योऽप्युदारधीः ।। ५० ।।
आत्मप्रमातृमानादेरनेकस्येह संभवात् ।।
प्रत्यक्षार्थस्यैष इति न विद्मः को विवक्षितः ।। ५१ ।।
प्रत्यक्षार्थविज्ञप्त्यै त आत्मेति ततोऽवदत् ।।
सर्वान्तरगृहीतिस्तु तत्पूर्वोक्तोपलक्षणम् ।। ५२ ।।
क्षोण्युपक्रममाकाशात्षष्ठ्यन्तेनाभिधीयते ।।
आत्मेति च प्रमात्रादेरागमापायसाक्ष्यपि ।। ५३ ।।
मातृमानप्रभेदेऽपि प्रतिदेहं न भिद्यते ।।
साक्षी वाह्यार्थवद्यस्मात ञ आत्मेत्युच्यते ततः ।। ५४ ।।
व्यभिचारो मिथो यद्वत्प्रमात्रादेः स्वसाक्षिकः ।।
सर्वमात्राद्यभावार्थसाक्षित्वान्न तथाऽऽत्मनः ।। ५५ ।।
साक्षादित्यादिभिः प्रत्यक्प्रत्यग्दृष्ट्या यदेक्ष्यते ।।
प्रत्यग्वस्त्वतिरेकेण नान्यदात्मा तदेक्ष्यते ।। ५६ ।।
प्रत्यङ्भात्रैकयाथात्म्यादात्माविद्यातदुत्थयोः ।।
तावन्मात्रावसायित्वं सम्यग्बोधादतस्तयोः ।। ५७ ।।
आत्मनोऽनवशेषेण तदन्यार्थस्य संगतेः ।।
साक्षादित्यादिकं सर्वं संभाव्यं स्याद्विशेषणम् ।। ५८ ।।
प्रत्यक्तयैवावसितेः प्रतीचोऽन्यस्य वस्तुनः ।।
व्यतिरेकैकरुपस्य व्यतिरेको न लभ्यते ।। ५९ ।।
विरोधादन्वयो नास्य खण्डादौ गोत्ववत्तथा ।।
व्यतिरेकोऽपि नैकात्म्ययाथात्म्यादुपपद्यते ।। ६० ।।
प्रत्यङ्भात्रतयैवातोऽनात्माऽऽत्मनि विलीयते ।।
तवाऽऽत्मेत्यपि निर्णीतौ नैव स्यात्प्रश्ननिर्णयः ।। ६१ ।।
ममाऽऽत्मनामनेकेषां संभवादप्रबोधतः ।। ६२ ।।
पिण्डान्तस्तावदात्मैको लिङ्गान्तस्तु तथा परः ।।
बु्धिसाक्षी तृतीयः स्याद्योऽयं संदिह्यते तथा ।। ६३ ।।
यत एवमतो ब्रूहि कतमोऽत्र विवक्षितः ।।
साक्षादित्यादिमानात्मा निर्धार्येदंतयाऽन्यतः ।। ६४ ।।
याज्ञवल्क्योऽपि तं प्राह यः प्राणेनेति लिङ्गतः ।।
प्राणादेः प्रत्यगात्मानं बुबोधयिषुरञ्जसा ।। ६५ ।।
प्राणनाद्यनुमानेन ग्राहयित्वा धियः परम् ।।
ततोऽवबोधयिष्यामि यथोपात्तविशेषणम् ।। ६६ ।।
इत्येतद्धृदये कृत्वा याज्ञवल्क्यो निराह तम् ।।
यः प्राणेनेति वचसा न लिङ्गदुक्तबोधनम् ।। ६७ ।।
मुखसंचारिणाऽप्राणो यः प्राणोनानितीक्षिता ।।
सर्वप्रत्यक्तमः सोऽयमात्मा सर्वान्तरावधिः ।। ६८ ।।
सुप्तेऽस्मिन्करणग्रामे योऽसुप्तोऽलुप्तदृष्टितः ।।
वासनारूपकान्पश्यन्प्राणान्प्राणिति वायुना ।। ६९ ।।
अनात्मत्वमतः सिद्धं प्राणादेः करणोक्तितः ।।
प्राणात्मत्वाच्च बुद्ध्यादेः पिण्डान्तस्याप्यनात्मता ।। ७० ।।
दृश्यत्वाद्धटवद्देहः प्राणादेः करणत्वतः ।।
अनात्मत्वप्रसिद्धिः स्याल्लिङ्गपिण्डात्मनोरतः ।। ७१ ।।
प्राणादिकार्यकरणैः स्वतोऽसंहत एकलः ।।
तच्चेष्टां कुरुतेऽकुर्वन्नयस्कान्तो मणिर्यथा ।। ७२ ।।
लोकेऽनधिष्ठितस्येह केनचिच्चेतनावता ।।
न दृष्टा नियता चेष्टा रथादेर्जडरूपिणः ।। ७३ ।।
देहेन्द्रियमनोबुद्धिप्राणादेर्नियतेक्ष्यते ।।
प्रवृत्तिर्येन तेनैभ्यो ज्ञात्माऽन्योऽभ्युपगम्यताम् ।। ७४ ।।
प्रतिज्ञाय पुरा साक्षाद्गामहं दर्शयामि ते ।।
अशक्नुवंस्तथा कर्तुं लिङ्गेन प्रतिबोधयेत् ।। ७५ ।।
यथा कश्चित्तथैव त्वं प्रतिज्ञाय परात्मनः ।।
साक्षात्त्वं तदसंपाद्य लिङ्गेनाऽऽवेदयस्यमुम् ।। ७६ ।।
यथाप्रतिज्ञमेवातो यथा पृष्टं तथैव तत् ।।
मह्यं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथा ।। ७७ ।।
यथाप्रतिज्ञं प्रत्युक्तिमवोचामासकृत्तव ।।
ततोऽप्यपरितुष्टस्त्वमन्यथैव बुभुत्ससे ।। ७८ ।।
उक्तवर्त्मातिरेकेण नाऽऽत्मवस्तु घटादिवत् ।।
शक्यते प्रतिनिर्देष्टुं प्रमाणागोचरत्वतः ।। ७९ ।।
विद्मीति यद्वलादात्थ न वेद्मीत्यपि यद्वलात् ।।
तद्दृष्ट्यैवेह तं दृष्ट्वा ब्रूह्यवद्यं यदीक्षते ।। ८० ।।
अप्रमेयं हि यद्वस्तु न तच्छक्यं प्रमाणतः ।।
कुम्भवत्प्रतिनिर्देष्टुं यथा तदभिधीयते ।। ८१ ।।
द्रष्टृदर्शनदृश्यानां संहतानां परस्परम् ।।
साक्षित्वमात्मनो नित्यं वस्तुस्वाभाव्यमुच्यते ।। ८२ ।।
प्रमात्रादिप्रवृत्तेः प्राक्सदानस्तमितोदिता ।।
अकारकात्मना तस्थौ प्रत्यग्दृष्टिरसंगतः ।। ८३ ।।
अकार्यकारणात्मैतद्वास्तवं रूपमात्मनः ।।
सकृद्विभातमैकात्म्यं वितमस्कमभेदकम् ।। ८४ ।।
एतत्तमोभिसंबन्धात्साक्षित्वं प्रतिपद्यते ।।
तमोमात्रैकहेतुश्च मोहसंगतिरात्मनः ।। ८५ ।।
कूटस्थदृष्टितन्मोहौ दृष्ट्याभासश्च तत्र्रयम् ।।
कारणं जगतः साक्षी नियन्तेति च भण्यते ।। ८६ ।।
कारणत्वं न कौटस्थ्यात्तन्मोहविरहाद्भवेत् ।।
जाड्यान्वयाच्च बुद्ध्यादेर्युक्ता तत्कारणानुमा ।। ८७ ।।
प्रमात्राद्यतिरेकोऽपि वस्तुनो बोधरूपिणः ।।
अज्ञातस्य प्रमेयस्य युक्तः स्वध्वान्तसाक्षिणः ।। ८८ ।।
कूटस्थदृष्टेः साक्षित्वं जडस्येव न युज्यते ।।
साक्ष्यार्थानभिसंबन्धात्तस्मिन्सत्यपि नाचितेः ।। ८९ ।।
तस्मात्परस्य साक्षित्वं स्वमोहाभासवर्त्मना ।।
कार्यकारणसंबन्धे चिदाभासस्य संगतेः ।। ९० ।।
प्रमात्राद्यभिसंबन्धो यथाऽनुभवसिद्धिकः ।।
तथैव तदभावोऽपि सिद्धोऽनुभवमात्रतः ।। ९१ ।।
अनन्यहेतुकं तावत्र्रयमेतद्यथोदितम् ।।
प्रमात्रादिपदार्थस्तु धर्माधर्मादिहेतुकः ।। ९२ ।।
बुद्ध्यादेरभिसंबन्धो जन्मनैव चिदात्मना ।।
घटाद्यर्थाभिसंबन्धो धर्माधर्मादिकारणः ।। ९३ ।।
प्रमातृदृष्टिरेकाऽत्र शब्दाद्यर्थावलेहिनी ।।
भूरिसाधनसापेक्षा सुखदुःखफलप्रदा ।। ९४ ।।
क्षणप्रध्वंसिनी चेयं तद्धेतोर्भङ्गुरत्वतः ।।
प्रतिदेहं विभिन्न च त्वसाधारणकारणात् ।। ९५ ।।
क्रियाकारकरूपेयमक्रियाऽकारकात्मना ।।
तावन्मात्रैकयाथात्म्यात्तया व्याप्तैव जयाते ।। ९६ ।।
कार्त्स्न्येन यत्र वृत्तिः स्याद्व्याप्यव्यापकवस्तुनोः ।।
व्याप्तिस्तत्रैव मुख्या स्याद्रज्जुसर्पादिवस्तुवत् ।। ९७ ।।
देशकालादिसंभेदादसाधारणतत्त्वयोः ।।
व्याप्तिर्न घटते साक्षाद्धिमवद्विन्ध्ययोरिव ।। ९८ ।।
प्रमात्रादिव्यपेक्षेयं लौकिकी दृष्टिरात्मनः ।।
तत्प्रत्यगात्मदृष्टिस्तु विज्ञेया पारमार्थिकी ।। ९९ ।।
परमार्थात्मदृष्ट्येयं लौकिकी दृष्टिरात्मनः ।।
षड्भावविक्रियामेति व्याप्तैवाऽऽकाशकुम्भवत् ।। १०० ।।
धर्माधर्मानपेक्षत्वाच्चैतन्याभासतां प्रति ।।
घटाद्याभासवत्तस्मान्नाऽऽत्माभासो विनश्वरः ।। १०१ ।।
निष्क्रियश्चेतनः साक्षी सक्रियोऽचेतनः पराङ् ।।
व्यावृत्तश्च प्रमात्रादेः सिद्धः साक्षी सुषुप्तगः ।। १०२ ।।
न चेदनुभवव्याप्तिः सुषउप्तस्याभ्युपेयते ।।
नावेदिषं सुषुप्तेऽहमिति धीः किंबलाद्भवेत् ।। १०३ ।।
बुद्ध्यादेः प्रविलीनत्वाद्देहादेश्च जडत्वतः ।।
लोष्टादेरिव, नैव स्यान्नाज्ञासिषमितीक्षणम् ।। १०४ ।।
चिदाभासैकमात्रेण तमःसिद्धिर्न मातृतः ।।
संवित्तन्मोहचिद्विम्बैः प्रात्यक्ष्यं कर्तृरूपिणः ।। १०५ ।।
स्मृतिनिश्चितिसंशीतिरागादिहिरुगात्मसु ।।
अहरूपेण योऽन्वेति स प्रमाता परो मतः ।। १०६ ।।
स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक् ।।
प्रथतेऽनेकरूपाभं तज्ज्ञानं ज्ञातृकर्तृकम् ।। १०७ ।।
विभिन्नो बहिराभाति जातिरूपक्रियादिमान् ।।
विभिन्नोऽनुभवादेव ज्ञातुर्ज्ञानात्स गोचरः ।। १०८ ।।
संवित्तन्मोहधीवृत्तिशरीरादिविशेषणम् ।।
भोक्तरीह यदाभाति तत्प्रमाणफलं स्मृतम् ।। १०९ ।।
कर्तृत्वं करणत्वं च कर्मत्वं चाऽऽत्मसाक्षितः ।।
व्यतिरेकेण कर्त्रादेः सिद्धेर्नाऽऽत्मत्वमस्त्यतः ।। ११० ।।
साक्षित्वेनाऽऽत्मनः सिद्धिर्मात्रादिव्यतिरेकतः ।।
न कर्तृता प्रमात्रादेः साक्ष्यत्वेनैव तत्क्षयात् ।। १११ ।।
प्रत्यङ्भोहजबुद्ध्यादिजडरूपप्रधानतः ।।
कर्तृत्वमात्मनो युक्तं चित्प्राधान्याच्च भोक्तृता ।। ११२ ।।
अव्याकृतव्याकरणे यदुक्तं सर्वमेव तत् ।।
अनुसंधेयमत्रापि वस्तुतत्त्वविशुद्धये ।। ११३ ।।
स्वमहिम्ना न संसिध्येत्स्वतोऽनवगमात्मकम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ११४ ।।
तस्मादजायमानैव जायमानेव लक्ष्यते ।।
संवित्तिस्तदशंबोधहेतूत्थानात्मजन्मना ।। ११५ ।।
तद्विनाशेऽपि तत्साक्ष्याद्विनश्यन्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ११६ ।।
अज्ञानभूमिगं वस्तु मानसंगतिमाप्नुवत् ।।
मेयत्वं लभते नान्यद्यच्च त्यक्तक्षितिद्वयम् ।। ११७ ।।
हेतोः कर्यासमुत्पत्तेः सिद्धेः प्रागापि संविदः ।।
कार्यकारणताहीना तस्मात्संवित्प्रतीयताम् ।। ११८ ।।
शून्यस्यापि हि शून्यत्वं तत्साक्षिणि सतीक्ष्यते ।।
असाक्षिकं चेच्छून्यत्वं साक्षिवत्स्यादसाक्षिकम् ।। ११९ ।।
साक्ष्यसाक्ष्यपि संसिध्येत्स्वायत्वान्न तु शून्यता ।।
पारार्थ्यात्स्वार्थविरहे षष्ठगोचरवद्भवेत् ।। १२० ।।
देहान्तः प्रत्यगात्माऽयं पञ्चधा गम्यते मितेः ।।
एककारणसाक्षित्वकर्तृदुःखित्वरूपतः ।। १२१ ।।
श्रुतितो लिङ्गतः साक्षात्कार्यकारणसंगतिः ।।
यतोऽनुभूय़ते तस्मात्कारणत्वं परात्मनः ।। १२२ ।।
प्रत्यक्साक्ष्यतिरेकेण नाभावोऽपि प्रसिध्यति ।।
किमु भावो जगत्यस्मिन्साक्षी चानन्यसिद्धिकः ।। १२३ ।।
यथोक्तानुभवारूढो बुद्ध्यन्तोऽपि प्रसिध्यति ।।
माता मातरि मानं च मानान्मेयं प्रसिध्यति ।। १२४ ।।
सुखी गौरो धनी गोमान्वाह्यमेयसामाश्रयात् ।।
प्रमाणभूमौ स्थित्वैतदुक्तं सर्वं प्रसिध्यति ।। १२५ ।।
प्राक्प्रमात्रादिसंभूतेर्यत्प्रमात्रादिकारणम् ।।
अनन्यानुभवात्माभं तत्प्रमाणं सदादृशेः ।। १२६ ।।
मेयमानप्रमात्रादिविभागस्तत्र नेक्ष्यते ।।
प्रत्यग्बोधैकयाथात्म्यवस्तुमात्रोपरोधतः ।। १२७ ।।
ईदृगेव फलं चात्र मानमेयादिकं तथा ।।
कुता भेदावकाशः स्यादद्वयैकप्रमात्मनि ।। १२८ ।।
प्रमाणवर्त्मनाऽऽयातमिदं मोहापनुत्तये ।।
वस्तुवृत्तेन नैवालं शास्रानारम्भसक्तितः ।। १२९ ।।
उक्तार्थापरिहारेण तदज्ञानजभूमिषु ।।
व्यवहारः प्रमात्रादेः स्वप्नमायेन्द्रजालवत् ।। १३० ।।
अविचारितसंसिद्धितमोवत्स्यात्तदुद्भवम् ।।
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः ।। १३१ ।।
भिन्नमानप्रमात्रादौ कार्यकारणवस्तुनि ।।
अभिन्नमातृमानादिरात्मैवैकोऽद्वयः स्वतः ।। १३२ ।।
न देशकालावस्थादावपेक्षाऽस्त्यात्मनः स्वतः ।।
अनन्यापेक्षसंसिद्धेर्देशादेस्तदपेक्षतः ।। १३३ ।।
देशकालनिमित्तादिव्यपेक्षं वस्तु यद्भवेत् ।।
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम् ।। १३४ ।।
कारकादिवशाद्यावत्किंचिद्वस्तूपलभ्यते ।।
क्रियाफलं तद्विज्ञेयमनपेक्षिततत्त्वकम् ।। १३५ ।।
वस्त्वधीना यतो विद्या कर्त्रधीना क्रियाऽखिला ।।
कर्त्रादि चाऽऽत्ममोहोत्थं वस्तु सिद्धं स्वतोऽद्वयम् ।। १३६ ।।
कारकाण्युपमृद्गाति विद्या बीजमिवोषरम् ।।
तत्कारणोपमर्दित्वाज्जन्मनैव न कारकम् ।। १३७ ।।
प्रमातृपरिणामत्वात्प्रमासिद्धिः प्रमातरि ।।
प्रमात्रव्यवधानेन संविदैव न वृत्तिभिः ।। १३८ ।।
मात्रन्तरे व्यपेक्षायां मातुर्मानान्तरे मितेः ।।
दुर्वारत्वात्प्रसङ्गस्य ह्यनवस्था प्रसज्यते ।। १३९ ।।
प्रमात्रतिशयेनैव कारणं स्यात्प्रमात्रपि ।।
विज्ञानातिशयं सिध्येन्मानं निश्चयवत्तथा ।। १४० ।।
मेयासाधारणात्मोत्थरूपवान्निश्चयो यथा ।।
बाह्यमेयप्रधानत्वे सत्यसाधारणार्थधीः ।। १४१ ।।
मानव्यापारकाले स्याद्वाह्यमेयोपसर्जनम् ।।
आभासादिप्रमाणान्तं तद्विशिष्टफलोत्थितेः ।। १४२ ।।
प्रमाणव्यापृतेस्तूर्ध्वं वासनाधानकारणात् ।।
मेयोपसर्जना बुद्धिः स्मृत्या साक्षात्प्रतीयते ।। १४३ ।।
साक्षात्कुर्वत्स्वमात्मानं यदालम्बनतां व्रजेत् ।।
कार्यकारणरूपस्य तदेवाऽऽलम्बनं मतम् ।। १४४ ।।
पूर्वोपलम्भसंस्कारसमुत्थस्मृतिविभ्रमात् ।।
वस्तुवृत्तातिवर्त्येष व्यापारः सार्वलौकिकः ।। १४५ ।।
मोयाभिसंगतेः पूर्वं ज्ञानं ज्ञातृसमाश्रयम् ।।
ज्ञातृत्वसिद्धये ज्ञानं ज्ञातृत्वं तत्कृतं यतः ।। १४६ ।।
वासनाबलतः स्पष्टं बहिर्वद्यन्मतौ स्थितम् ।।
भावनागोचरं ज्ञानं बाह्यवस्त्ववलम्बनम् ।। १४७ ।।
अपेक्षावृत्तवद्वस्तु यावत्किंचिदिेहेक्ष्यते ।।
मातृमात्राश्रयं तत्स्यान्न स्वतःसिद्धिनिष्ठितम् ।। १४८ ।।
अन्तःकरणवृत्तिर्या चक्षुरादिसमाश्रया ।।
रूपादिविषयाभासा लौकिकी दृष्टिरूच्यते ।। १४९ ।।
तस्याश्च क्रियमाणत्वाज्जन्मनाशाभिसंगतिः ।।
आत्मदृष्टिस्त्वियं नित्य जन्मनाशादिवर्जिता ।। १५० ।।
कार्यकारणयोस्तत्त्वं प्रत्यगात्मा चितिर्यतः ।।
तस्मान्नित्यश्चिदाभासो बुद्धौ तत्प्रत्ययेषु च ।। १५१ ।।
प्रत्यक्चिदुपरक्तायां बुद्धौ धर्मादिहेतुकः ।।
आकारो जायतेऽनित्यो दुःखशब्दादिलक्षणः ।। १५२ ।।
स्यास्नौ प्रत्यक्चिदाकारे बाह्यहेतुनिबन्धनः ।।
आकारो जायते बुद्धेरागमापायधर्मवान् ।। १५३ ।।
उपाधिभूतया दृष्ट्या हानोपादानरूपया ।।
एकाश्रयत्वतः स्थास्न्वी संसृष्टेवोपजायते ।। १५४ ।।
बुद्धितद्वृत्तिसाक्षित्वाद्बुद्धितत्प्रत्ययैरजः ।।
गृह्यतेऽविद्ययाऽभिन्नो मणिर्यद्वदुपाश्रयैः ।। १५५ ।।
कर्तृकार्यावभासित्वात्कर्तृकार्याभिधायिभिः ।।
लक्ष्यते नामभिः साक्षी साक्षान्न त्वभिधीयते ।। १५६ ।।
तज्जन्मनाशसाक्षित्वादजोऽनाशी स्वयंप्रभः ।।
जायते नश्यतीत्येवं तत्साक्ष्यप्यभिधीयते ।। १५७ ।।
दृष्टेर्जडस्वभावायाः परार्थायाः स्वतश्चितिम् ।।
न पश्येः प्रत्यगात्मानं द्रष्टारं दृश्ययाऽनया ।। १५८ ।।
दिदृक्षितपरिच्छिन्नपराग्रपाद्यपेक्षया ।।
तद्विरुद्धं कथं पश्येर्दृष्ट्या तत्कर्मभूतया ।। १५९ ।।
द्रष्टुर्हि व्यापृतिर्दृष्टौ दृष्टे रूपादिकर्माणि ।।
ताभ्यां तत्प्रत्यगात्मानं कथं पश्येश्चितिं स्वतः ।। १६० ।।
नाकारकं समीक्षेत द्रष्टुदर्शनगोचरान् ।।
कारकत्वमृतेऽविद्यां कूटस्थस्याऽऽत्मनः कुतः ।। १६१ ।।
कारकं सत्तथैकात्म्यं न कथंचन वीक्षते ।।
अविद्यानन्वयाद्भास्वत्प्रत्यग्ज्योतिः सतत्त्वतः ।। १६२ ।।
येन चक्षुरिदं दृष्टं चक्षुषा यन्न पश्यति ।।
ब्रह्म विद्धि तदेव त्वं न तु तद्यदुपासते ।। १६३ ।।
मनसा मनुते यन्न येन चाऽऽहुर्मनो मतम् ।।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।। १६४ ।।
इत्येवमादिवाक्यानि यथोक्तार्थसमर्थने ।।
श्रौतानि शतशः सन्ति दृगमेयत्वसिद्धये ।। १६५ ।।
एतन्मोहसमुत्थत्वाल्प्रमात्रादेर्मनागपि ।।
नैकात्म्यं शक्यते वक्तुं क्लृप्तहेतोरबाधया ।। १६६ ।।
दृष्टिभेदमकृत्वैव दृष्टेरित्यादिकां श्रुतिम् ।।
केचिद्व्याचक्षते धीराः प्रसादाज्जातवेदसः ।। १६७ ।।
दृष्टेः कर्तारमात्मानं न पश्येः क्रियमाणया ।।
दृष्ट्या रूपानुपातिन्या न क्रिया कर्तृकर्मिका ।। १६८ ।।
दृष्टेरिति च षष्ठीयं क्रियमाणत्वहेतुतः ।।
कर्मण्येव तु विज्ञेया नासावर्थान्तरे यतः ।। १६९ ।।
दृष्टिकर्तृत्वमाचष्टे तृजन्तेन तथाऽऽत्मनः ।।
यतोऽतः कर्मदृष्ट्या तं द्रष्ठारं नानुपश्यति ।। १७० ।।
कर्मेप्सिततमं रूपं दृष्टेः कार्यत्वहेतुतः ।।
चक्षुर्मनो वा बुद्धिर्वा कर्तुः करणमिष्यते ।। १७१ ।।
विज्ञानात्मा तु कर्ताऽत्र स्वातन्त्र्यात्सर्वकर्मसु ।।
फलं रूपोपलब्धिश्च कर्तुर्दृष्ट्यवसानजम् ।। १७२ ।।
साधनत्वेन कर्ताऽत्र दृष्टाववसितिं गतः ।।
क्रियासिद्ध्युत्तरे काले फलं कस्यापि चेष्यते ।। १७३ ।।
स्वामिनो यदि वाऽन्यस्य कर्म प्रत्येव च क्रिया ।।
कर्म दर्शयितव्यं स्याद्दृष्ट्या द्रष्टा न दृश्यते ।। १७४ ।।
तत्रैवं सति तं दृष्टेर्द्रष्टारं कर्मभूतया ।।
दृष्ट्या पश्येः स्वमात्मानं न कथंचन कर्तृतः ।। १७५ ।।
व्य़ाख्यानमेतन्महतां न साधु प्रतिभाति नः ।।
न्यायाक्षरानुपात्तत्वाद्यथा तदभिधीयते ।। १७६ ।।
यथाप्रश्नमियं तावत्प्रत्युक्तिर्नोपपद्यते ।।
यतो द्र्ष्टर्यसंभाव्यं कृत्स्नं प्रश्नविशेषणम् ।। १७७ ।।
साक्षादित्यादिकं यस्मान्न मनागपि युज्यते ।।
विशेषणं यथोक्तं तत्कारके दृष्टिकारिणि ।। १७८ ।।
क्षेत्रज्ञपरमात्मानौ नापि प्रश्ने विवक्षितौ ।।
एकार्थयोगाद्वाक्यस्य नैकोक्तौ स्याद्दूयार्थता ।। १७९ ।।
न चेप्सिततमत्वं स्याद्द्रष्टुर्दृष्टेरसंभवात् ।।
दृष्ट्यन्तरस्य दृष्टुश्च न च द्रष्ट्रन्तरं तथा ।। १८० ।।
तदभ्युपगमे वः स्यागदनवस्थाऽनिवारणा ।।
दृष्ट्यन्तरेण संव्याप्तिर्नातो दृष्टेः कथंचन ।। १८१ ।।
तथा द्रष्टृगृहीत्यैव कामितार्थसमाप्तितः ।।
निरर्थकमिदं च स्याद्दृष्टेरिति यदुच्यते ।। १८२ ।।
सदैवाव्यभिचारित्वादृष्टिद्रष्ट्रोः परस्परम् ।।
विशेषणविशेष्यत्वं व्यभिचारे सतीष्यते ।। १८३ ।।
न च प्रमादपाठोऽयं सर्वेषामविगानतः ।।
विध्यशेषत्वतो नापि चार्थवादत्वमिष्यते ।। १८४ ।।
अहंदृष्ट्यधिगम्यत्वमपि द्रष्टुरिहेष्यते ।।
प्रत्यक्षमाविरूद्धत्वं तथाचोक्तेः प्रसज्यते ।। १८५ ।।
मेयमानप्रमातृणां प्रात्यक्ष्यं प्रागपीरितम् ।।
व्याख्या व्यरोधि तेनेयं दृष्टेरित्यत्र या कृता ।। १८६ ।।
यथोक्तादात्मनोऽन्यद्यत्कार्यकारणरूपकम् ।।
आर्तं विनाशि तत्तुच्छं शुक्तिकारजतादिवत् ।। १८७ ।।
एतदेवमनार्तं स्यात्स्वतःसिद्धत्वकारणात् ।।
सदैकानुदितालुप्तप्रत्यगदृष्टिसतत्त्वकम् ।। १८८ ।।
हेतूक्तिरथवाऽतः स्यावुक्तवस्तुस्वभावतः ।।
तदन्यभावासंसिद्धेरार्तत्वं हेतुमद्भवेत् ।। १८९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यास्य चतुर्थमुषस्तब्राह्मणम्