संसारान्मुच्यमानानां तथा संसरतामिह ।।
देहादिनाशे तुल्येऽपि तत्रैकेषां पुनर्भवः ।। १ ।।
देहाद्यात्यन्तिकी हानिरन्येषां यत्र कारणे ।।
सति चासति चैवं स्यात्तत्प्रयोजकमीरितम् ।। २ ।।
ग्रहातिग्रहरूपस्य मृत्योः कर्मेति निश्चितम् ।।
कीयती कर्मणस्तस्य व्याप्तिः स्यादिति भण्यते ।। ३ ।।
साधारण्यविशेषाभ्यां कर्मणश्च व्यवस्थितिः ।।
विशेषावस्था प्रागुक्ता सामान्यं त्वधुनोच्यते ।। ४ ।।
संसारे कियती व्याप्तिरभिव्यक्तस्य कर्मणः ।।
सामान्यात्मविशेषाभ्यामित्येतद्भुज्युनोच्यते ।। ५ ।।
प्रत्यग्याथात्म्यमोहस्य कायेयत्तेह भण्यते ।।
एतस्यां सम्यगुक्तायां नानुक्तमवशिष्यते ।। ६ ।।
भ्रूणहत्याश्वमेधाभ्यां न परं पापपुण्ययोः ।।
इत्येवं धर्मकाराणामपि वाक्यानि कोटिशः ।। ७ ।।
पापस्य कर्मणः कार्यमन्यत्रापि मितं यतः ।।
नेहातो भण्यते भूयोऽनर्थत्वाच्चाप्यनादरः ।। ८ ।।
स्वतश्च तज्जिहासायाः सिद्धत्वान्नेह कीर्त्यते ।।
परमोदारफलता त्वश्वमेधाख्यकर्मणः ।। ९ ।।
निःशेषपुरुषार्थानां पुण्यं कर्म हि साधनम् ।।
इत्याहुः श्रुतयः सर्वाः स्मृतयश्चाप्यनेकशः ।। १० ।।
पुरुषार्थत्वसामान्यात्स्वर्गादिपुरुषार्थवत् ।।
मुण्यसाधनताशङ्का मुक्तेरपि यतस्ततः ।।
तदाशङ्कानिवृत्त्यर्थं प्रारब्धैषोत्तरा श्रुतिः ।। ११ ।।
ज्ञानोपबृंहितस्यापि क्रतुराजस्य कर्मणः ।।
संसारविषयैवाऽऽप्तिर्मक्तौ सा न मनागपि ।। १२ ।।
प्रत्यग्याथात्म्यसंमोहः क्रियाकारकरूपवान् ।।
प्रथतेऽपास्तनिःशेषक्रियाकारकवस्तुनि ।। १३ ।।
अनिर्ज्ञातात्मयाथात्म्यैर्यत्तु कैश्चिदिहोच्यते ।।
फलाभिसंधिरहितं विद्येतं कर्म मुक्तये ।। १४ ।।
बन्धहेत्वपि मोक्षाय विरुद्धफलकृद्यथा ।।
विषदध्यादिवदिति तथोदाहृतिरुच्यते ।। १५ ।।
इत्युक्तपरिहारार्थं नैतत्सम्यगितीर्यते ।।
अनारभ्यत्ववचनं तद्धेतुप्रतिपत्तये ।। १६ ।।
आरभ्यत्वाभ्युपगमे मुक्तेस्तत्स्याद्यथोदितम् ।।
अनारभ्या त्वियं मुक्तिस्तत्सिद्धेर्ज्ञानहेतुतः ।। १७ ।।
ब्रह्म वा इदमित्युक्तेः प्रागपि ज्ञानजन्मतः ।।
जगद्ब्रह्मात्मसंसिद्धेर्नातो मुक्तिः क्रियोद्भवा ।। १८ ।।
यदि वस्तु स्वतो मुक्तं परतो बद्धमिष्यते ।।
मोक्षाय यत्नः फलवांस्तदा स्यान्न विपर्यये ।। १९ ।।
विद्याऽभिव्यञ्जिकैवेयं स्वतः सिद्धस्य वस्तुनः ।।
आरम्भकत्वं जगति तस्या नैवोपपद्यते ।। २० ।।
अज्ञानमात्रव्यवधौ वस्तुनि व्यापृतिर्मितेः ।।
आरभ्येऽर्थेऽफलं ज्ञानं व्यञ्जकत्वात्प्रदीपवत् ।। २१ ।।
न चाविद्यातिरेकेण मुक्तेर्बन्धोऽन्य इष्यते ।।
निवृत्तिः क्रियते यस्य विद्येतेनेह कर्मणा ।। २२ ।।
अविद्यानाशमात्रश्व मोक्ष आत्मन इष्यते ।।
यतस्ततोऽतिरेकेण मोक्षोऽनित्यो भवेद्ध्रुवम् ।। २३ ।।
सम्यग्ज्ञानातिरेकेण न चान्येनास्ति निह्नुतिः ।।
प्रयङ्भोहस्य नातः स्याज्ज्ञानकर्मसमुच्चयः ।। २४ ।।
निर्ज्ञातविषयत्वाच्च कर्मशक्तेर्जगत्यपि ।।
दृष्टं हि कर्मणः कार्यमुत्पत्त्यादिचतुष्टयम् ।। २५ ।।
उत्पत्त्याप्तिविकारा हि संस्कारश्च क्रियाफलम् ।।
नातोऽन्यत्कर्मणः कांर्य नातो मुक्तौ तदिष्यते ।। २६ ।।
न चान्यतम एतेषां मोक्षो युक्त्योपपद्यते ।।
उत्पत्त्यादिप्रकाराणामनित्यत्वसमन्वयात् ।। २७ ।।
अविद्यामात्रव्यवधिर्यतो मोक्षोऽभ्युपेयते ।।
तदन्यव्यवधाने हि प्रमाणं नोपपद्यते ।। २८ ।।
विनाशिफलवत्त्वं चेत्केवलस्यैव कर्मणः ।।
विद्येतस्य तु तस्यैव फलं ध्रौव्यं भवेदिति ।। २९ ।।
पूर्वशक्तिनिरासेन शक्त्यन्तरसमुद्भवः ।। ३० ।।
वस्त्वन्तरसमायोगाद्विषादेर्दृश्यते यतः ।।
प्रमाणासंभवान्मैवं वोचो लोकिकवस्तुवत् ।। ३१ ।।
नाऽऽगमादपरं मानं मुक्तावभ्युपगम्यते ।।
विषदध्यादिवत्तस्मान्नैतत्सूक्तं भवेद्वचः ।। ३२ ।।
उक्तकार्यातिरेकेण विषदध्यादिवन्मितिः ।।
कार्यान्तरसमुत्पत्तौ कर्मणोऽपि न विद्यते ।। ३३ ।।
साध्यावृत्त्यात्मकं ज्ञानं कर्मैवावस्तुतन्त्रतः ।।
ज्ञानं हि वस्तुतन्त्रं स्यान्न तु तत्कारकाश्रितम् ।। ३४ ।।
कर्मेतं कर्म तेनेदृग्विद्येतं न कथंचन ।।
क्रियासमुच्चयोऽतोऽयं न तु विद्यासमुच्चयः ।। ३५ ।।
साध्यसाधनसंबन्ध आगमैकप्रमाणकः ।।
मुक्तेश्च साधनत्वेन कर्म नैव श्रुतं श्रुतौ ।। ३६ ।।
अज्ञानहानं नो मुक्तिस्तस्याः कर्म न साधनम् ।।
न हि कर्म तमो हन्ति तमसीवोत्थितं तमः ।। ३७ ।।
अविद्यैकोद्भवत्वं स्याद्यद्यपि ज्ञानकर्णणोः ।।
मेयैकात्म्यानुरोधित्वं तथाऽप्यतिशयो धियः ।। ३८ ।।
नाऽऽत्माविद्यामतिक्रम्य कर्मैकात्म्यानुरोधि हि ।।
तमोमात्राभिजनतो नातोऽविद्यां निहन्ति तत् ।। ३९ ।।
स्वतःसिद्धात्मवस्त्वेकमात्रोत्थानत्वकारणात् ।।
ज्ञानं हन्ति तमोऽशेषं न तु कर्म तमोन्वयात् ।। ४० ।।
अज्ञानादित्रयं प्रत्यगाभासं यद्यपीष्यते ।।
ज्ञानवज्ज्ञानसंभूतेर्नैव प्रागभ्युपेयते ।। ४१ ।।
कर्मातः कारणं मुक्तेर्न कथंचन युज्यते ।।
साक्षादविद्याप्रध्वस्तौ पारंपर्यात्तु युज्यते ।। ४२ ।।
मुक्तौ च कर्मसाध्यायां किमेकैकं विमुक्तिदम् ।।
किंवा संभूय सर्वाणि कर्माणि घ्नन्ति संसृतिम् ।। ४३ ।।
सकृद्भूयःप्रयोगाद्वा यावज्जीवप्रयोगतः ।।
एकादिदक्षिणास्वेवं विक्लपस्तुल्य इष्यते ।। ४४ ।।
काम्यैर्वा यदि वा नित्यैः सर्वैर्वा मुक्तिरिष्यते ।।
श्रौतैर्वा यदि वा स्मार्तैर्यदि वोभयकर्मभिः ।। ४५ ।।
तेषां च ज्ञानसंयोगे प्रधानगुणभेदतः ।।
त्रिधा विकल्पो विज्ञेयो विमुक्तिफलसिद्धये ।। ४६ ।।
एकैकं मुक्तिकृच्चेत्स्याद्यवव्रीह्यादिहोमवत् ।।
एकेनैव कृतार्थत्वान्नानुतिष्ठेत्ततोऽपरम् ।। ४७ ।।
प्रयोगे दक्षिणायां च समानोऽयं परिक्रमः ।।
अथ संभूय सर्वणि मुक्तिं कर्माणि कुर्वते ।। ४८ ।।
ऐककर्म्यं ध्रुवं प्रापत्सर्वेषामपि कर्मणाम् ।।
दर्शादिवत्फलैकत्वात्तच्चानिष्टं प्रसज्यते ।। ४९ ।।
अन्यद्धि मुक्तिफलतः काम्यानां श्रूयते फलम् ।।
तेषां मुक्तिफलत्वं तु न श्रुतेर्नापि चान्यतः ।। ५० ।।
न च गोदोहनन्यायः काम्यकर्मसु युज्यते ।।
तेषां मुक्तिफलत्वे हि न मानं विद्यते यतः ।। ५१ ।।
सर्वं चाप्यप्रमाणं स्याद्यदुक्तं भेदलक्षणम् ।।
मुक्तिं सर्वाणि कर्माणि यदि संभूय कुर्वते ।। ५२ ।।
साध्यसाधनबुद्धिर्नो वचनात्पारलौकिकी ।।
न चाश्रौषं श्रुतेर्वाक्यात्कर्म मोक्षफलं क्वचित् ।। ५३ ।।
न तत्र दक्षिणा यन्ति विद्ययैव तदाप्यते ।।
वेदाहमिति मन्त्रश्च ज्ञानान्मार्गान्तरापनुत् ।। ५४ ।।
न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः ।।
नित्योऽस्य महिमेत्येवमुदर्केऽपि प्रवक्ष्यते ।। ५५ ।।
क्षयी कर्मार्जितो लोको नित्यो ज्ञानजितस्तु यः ।।
इति स्पष्टं श्रुतेर्वाक्यं कस्मान्नाऽऽद्रियते त्वया ।। ५६ ।।
समुच्चयश्चाप्यसकृत्पुरैव सुनिराकृतः ।।
भूयोऽपीह प्रवक्ष्यामः प्रसङ्गान्नातिविस्तरात् ।। ५७ ।।
संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।।
साध्यसाधनभावत्वोदेककालानवस्थितेः ।। ५८ ।।
बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव ।।
एकदेशानवस्थानान्न समुच्चयता तयोः ।। ५९ ।।
बाध्यबाधकभावेन काममस्तु समुच्चितिः ।।
स्वशक्त्यनपहारेण दाह्यदाहकयोरिव ।। ६० ।।
अयथावस्त्वविद्या स्याद्विद्यैतस्या विरोधिनी ।।
समुच्चयस्तयोरेवं रविशार्वरयोरिवः ।। ६१ ।।
वस्त्वधीना भवेद्विद्या कर्त्रधीना क्रिया तथा ।।
कर्त्रादि चाऽऽत्ममोहोत्थं स्वतोऽकारकताऽऽत्मनः ।। ६२ ।।
बृहस्पतिसवे यद्वत्क्षत्र्रियो न प्रवर्तते ।।
ब्राह्मणत्वानहंमानी विप्रो वा क्षत्र्रकर्मणि ।। ६३ ।।
विदेहो वीतसंदेहो नेति नेत्येव बोधितः ।।
देहाद्यनात्मदृक्तद्वत्तक्रियां वीक्षतेऽपि न ।। ६४ ।।
मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति ।।
अध्यस्याऽऽत्मनि देहादीन्मूढस्तद्वद्विचेष्टते ।। ६५ ।।
स्थाणुं चोरधियाऽऽलाय भीतो यद्वत्पलायते ।।
बुद्ध्यादिभिस्तथाऽऽत्मानं भ्रान्तोऽध्यारोप्य चेष्टते ।। ६६ ।।
स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायने ।।
आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ।। ६७ ।।
यद्धि यस्याविरोधेन स्वभावमनुवर्तते ।।
तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ।। ६८ ।।
अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति ।।
विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ।। ६९ ।।
हेतुस्वरूपकार्याणां प्रकाशतमसोरिव ।।
मिथो विरोधतो नातः संगतिर्ज्ञानकर्मणोः ।। ७० ।।
सकृत्प्रवृत्त्या मृद्राति क्रियाकारकरूपभृत् ।।
अज्ञानमागमज्ञानं सांगत्यं नास्त्यतोऽनयोः ।। ७१ ।।
सर्वथा नैव घटते ज्ञानकर्मसमुच्चयः ।।
विद्ययैव तमोहानादकार्ये कर्म किंफलम् ।। ७२ ।।
न मानं किंचिदप्यस्ति ज्ञानकर्मसमुच्चितेः ।।
प्रत्यक्कैवल्यसंसिद्धौ ज्ञानादेव तमोहतेः ।। ७३ ।।
उत्पत्त्याद्यतिरेकेण संसारविनिवृत्तये ।।
कर्मणोऽपि तथा मानं न किंचिदुपपद्यते ।। ७४ ।।
अस्ति मानं यतो नित्यं कर्म सर्वत्र चोद्यते ।।
न चोत्पत्त्यादिमत्किंचित्तत्र साक्षात्फलं श्रुतम् ।। ७५ ।।
विश्वजिद्वन्न सामर्थ्यं तत्र संभाव्यतेऽण्वपि ।।
उत्पत्त्यादिफलोद्भूतौ मुक्तिरस्तु ततः फलम् ।। ७६ ।।
पुरुषार्थेऽसति फले विधानं नोपपद्यते ।।
नित्यानां कर्मणां तस्मिन्सत्येव घटते यतः ।। ७७ ।।
दुःखात्मकेषु नित्येषु समीक्षापूर्वकारिणः ।।
पुरुषा न प्रवर्तेरन्न चेत्तेभ्यः फलं भवेत् ।। ७८ ।।
नैवं वाक्यात्फलं यस्मान्न किंचिदपि लभ्यते ।।
तत्सामर्थ्यश्रवाभावात्फले नातो मितिश्च नः ।। ७९ ।।
प्रमाणबलतः प्राप्तमपि भूरि न वार्यते ।।
अणुमात्रं न तद्ग्राह्यं वस्तु यन्निष्प्रमाणकम् ।। ८० ।।
पुमाशयवशाच्चेयं फलक्लृप्तिस्त्वयोच्यते ।।
अन्यानपेक्षं सन्मानं प्रमेयार्थसमर्पकम् ।। ८१ ।।
प्रत्यवायाद्यभावश्च फलं नित्यस्य कर्मणः ।।
क्लृप्तं सत्कल्प्यते कस्माद्विमुक्तिर्नित्यकर्मणः ।। ८२ ।।
तावतैव कृतार्थत्वाद्विधेर्नित्यस्य कर्मणः ।।
विमुक्तिफलसंबन्धे न मानं विद्यते ततः ।। ८३ ।।
अन्यथाऽनुपपत्त्या चेद्विश्वजिद्वत्प्रकल्प्यते ।।
फलं कथं नु न भवेद्विश्वजिन्न्याय ईर्यताम् ।। ८४ ।।
काम्याग्निहोत्रवन्नित्यं काम्यं चापि प्रसज्यते ।।
फलेनास्याभिसंबन्धान्निष्कामं नित्यमुच्यते ।। ८५ ।।
मतं चेन्न फलत्वेन मोक्षो नित्योऽभ्युपेयते ।।
प्रतिज्ञातार्थहानाप्तेर्नैवमप्युपपद्यते ।। ८६ ।।
आरभ्यमाणता मुक्तेः प्रत्यज्ञायि त्वयैव सा ।।
विरुध्यतेऽफलोक्त्यैवमारभ्यं स्याद्यतः फलम् ।। ८७ ।।
मुक्तेश्च कर्मकार्यत्वे विशेषो भवतोच्यताम् ।।
स्वर्गादिभ्यो विनाशादौ मोक्षे तेऽनिर्वृतिर्यतः ।। ८८ ।।
अथोपचारतो मोक्षः कार्यं स्यान्नित्यकर्मणः ।।
ज्ञानकार्यवदित्येवं मतं चेन्नैवमिष्यते ।। ८९ ।।
अज्ञानध्वंसकारित्वान्मोक्षो ज्ञानस्य भण्यते ।।
उपचारात्कार्यमिति तदसत्त्वान्न कर्मणः ।। ९० ।।
व्यवधानापनुज्ज्ञानं न कर्माज्ञानहानिकृत् ।।
यतोऽतो नोपचारेण कर्मणो मुक्तिकार्यता ।। ९१ ।।
न चाज्ञानातिरेकेण व्यवधानान्तरं मतम् ।।
विवर्त्यत्वेन मोक्षस्य कर्मणा यन्निवर्त्यते ।। ९२ ।।
विरोध्यन्तरविध्वंसो दृष्टो लोके विरोधिना ।।
तमःप्रकाशवत्कर्म नाज्ञानेन विरुध्यते ।। ९३ ।।
मतमज्ञानमेवैतत्कर्म नाशयतीति चेत् ।।
नाविरोधात्तमो हन्ति कर्म किंचित्कदाचन ।। ९४ ।।
अज्ञानमनभिव्यक्तिर्बोधोऽभिव्यक्तिरात्मनः ।।
बाध्यबाधकभावोऽयं विरोधाद्धटते तयोः ।। ९५ ।।
विरुद्धधर्मकत्वं तु मिथो नाज्ञानकर्मणोः ।।
बाध्यबाधकभावोऽयं न तयोर्युज्यते ततः ।। ९६ ।।
कर्मणोऽदृष्टसामर्थ्यं यद्यज्ञानापनुन्मतम् ।।
ज्ञानेनाज्ञानविध्वस्तेः प्रात्यक्ष्यात्तदसद्वचः ।। ९७ ।।
तुषतण्डुलनिर्मोके प्रत्यक्षे ह्यवघातजे ।। ९८ ।।
सामर्थ्यात्तद्विनिष्पत्तिर्नाग्निहोत्रादिकर्मणः ।।
कल्प्यते तद्वदेवेह प्रत्यक्षेणावबोधतः ।। ९९ ।।
प्रत्यगज्ञानविध्वंसे सामर्थ्यान्नित्यकर्णणः ।।
न युक्तोऽज्ञानविध्वंसो बलात्कल्पयितुं त्वया ।। १०० ।।
कर्मभिश्चाविरुद्धं यद्देवताद्रव्यतत्त्वगम् ।।
समुच्चीयेत तज्ज्ञानं न तु कर्मविरोधि यत् ।। १०१ ।।
कल्प्ये चादृष्टसामर्थ्ये नित्यानां कर्मणां त्वया ।।
विरुद्धं कर्मभिः किंवा यदुत्पत्त्यादिवर्जितम् ।। १०२ ।।
न जन्यं जनकं वस्तु न द्रव्यगुणकर्मभिः ।।
अन्यते यत्फलं तादृक्कल्प्यतां नित्यकर्मणः ।। १०३ ।।
किंवोत्पत्त्यादिमत्किंचित्सामर्थ्यं यत्र कर्मणः ।।
तादृक्फलं प्रकल्प्यं स्याद्यथा न्याय्यं तथाऽस्त्विह ।। १०४ ।।
अवश्यं चेत्प्रकल्प्यं स्यात्पुस्प्रवृत्तिप्रयोजकम् ।।
तदुत्पत्त्यादिमत्स्वेव युक्तं कल्पयितुं फलम् ।। १०५ ।।
अर्थापत्तेश्च तत्रैव क्षीणत्वान्मोक्षकल्पने ।।
न सामर्थ्यं यतस्तस्मान्न युक्ता मुक्तिकल्पना ।। १०६ ।।
नित्यस्य कर्मणः कार्यं पारिशेष्यसमाश्रयात् ।।
युक्ता कल्पयितुं मुक्तिरन्यस्यासंभवो यतः ।। १०७ ।।
मोक्षात्फलान्तरैर्योगः काम्यानां स्याच्छ्रुतत्वतः ।।
नित्यकर्माभिसंबन्धो मुक्तेः स्यात्पारिशेष्यतः ।। १०८ ।।
मैवं कर्मफलव्यक्तेरानन्त्यादुपपद्यते ।।
पारिशेष्यनयद्वारा मुक्तेः कर्मफलात्मता ।। १०९ ।।
पुंस्कामविषयाणां तु नेयत्तेहोपपद्यते ।।
काम्यकर्मफलानां हि तथा तत्साधनस्य च ।। ११० ।।
देशकालाद्यनियमात्पुमिच्छानामनन्तता ।।
तथा तत्साधनानां च काम्येष्टर्थप्रयुक्तितः ।। १११ ।।
प्रतिप्राणि च वैचित्र्याद्देशकालादिहेतुतः ।।
इच्छातत्साधनानां च स्यादानन्त्यं तथा सति ।। ११२ ।।
पारिशेष्यनयो न स्यात्सर्वज्ञस्याप्यनन्ततः ।।
न च कर्मफलत्वेन पारिशेष्यं प्रसिध्यति ।। ११३ ।।
नित्यकर्मफलत्वेन मुक्तेरपि परिग्रहात् ।।
न पारिशेष्यसंसिद्धिस्तथाऽपीहोपपद्यते ।। ११४ ।।
नित्यकर्मफलत्वं चेन्मुक्तेरप्यभ्युपेयते ।।
कर्मकार्यसजातित्वात्पारिशेष्यनयः कुतः ।। ११५ ।।
अर्थापत्तिक्षयोऽतः स्यादन्यथाऽप्युपपत्तितः ।।
उत्पत्त्यादेरन्यतमो न च मोक्ष इहेष्यते ।। ११६ ।।
उत्पत्त्यादिविरुद्धात्वान्मोक्षरूपस्य नित्यतः ।।
नोत्पद्यो वा विकार्यो वा विकारप्रतिषेधतः ।। ११७ ।।
व्रीहिपात्रादिवन्नापि मोक्षः संस्कार्य इष्यते ।।
असाधनत्वान्नाप्याप्यः प्रत्यङ्भात्रस्वभावतः ।। ११८ ।।
नित्यस्य सर्वकर्मभ्यो वैलक्षण्याच्च कारणात् ।।
कारणानुविधायित्वात्फमप्यस्तु चेतथा ।। ११९ ।।
नैवं कर्मत्वसारूप्यात्सालक्षण्यं भवेन्न किम् ।।
काम्यकर्मफलैर्नित्यफलस्येत्यभिधीयताम् ।। १२० ।।
वैलक्षण्यं निमित्ताच्चेन्न नैमित्तिकतुल्यतः ।।
क्षामवत्यादिवन्नित्यं कस्मान्न स्यात्सलक्षणम् ।। १२१ ।।
न हि लौकिकचक्षुर्भिर्वैलक्षण्यात्समर्थ्यते ।।
उलूकचक्षुषोऽरूपाद्रसादिग्रहणं कचित् ।। १२२ ।।
रसादिग्रहणे शक्तिर्लोके दृष्टा न चक्षुषः ।।
सामर्थ्यस्याग्रहात्तस्मान्न विरुद्दा प्रकल्प्यते ।। १२३ ।।
सामर्थ्यं यस्य यत्रैव दृष्टं तत्रैव तस्य तत् ।।
सुदूरमपि गत्वेह ह्यतिशीतिरपीष्यते ।। १२४ ।।
कर्मकार्यान्तरं नित्यं विषदध्यादिवद्ध्रुवम् ।।
यदारभत इत्युक्तं तच्चाप्यस्तु स्वगोचरे ।। १२५ ।।
यदेव विद्ययेत्यादि श्रुतेरपि वचस्तथा ।। १२६ ।।
देवयाजिसकाशाच्च विशेषश्चाऽऽत्मयाजिनः ।।
तदाहुरिति विस्पष्टं श्रूयते श्रुतिवाक्यतः ।। १२७ ।।
मनुनाऽप्यात्मयाजीति यदुक्तं परदर्शने ।।
तत्रापि च समं पश्यन्नात्मयाजी भवत्यम् ।।
समदृष्टिप्रशंसैषा यदि वा भूतपूर्वतः ।। १२८ ।।
आत्मसंस्कृतये कर्म यः करोति यथाविधि।।
आत्मयाजीति मनुना स एवेहाभिधीयते ।। १२९ ।।
सुसंस्कृतधियः पुंसो यथोक्तैः कर्मभिः समम् ।।
इह वाऽमुत्र वा ज्ञानं जायते मोक्षकृद्ध्रुवम् ।। १३० ।।
ब्रह्मा विश्वसृजोवाक्याद्देवसार्ष्ट्यतिरेकतः ।।
भूतापीतिं मनुः साक्षाद्दर्शयत्यविनश्वरीम् ।। १३१ ।।
अत्येतीति तु ये पाठं कुर्वते तेऽविपश्चितः ।।
यथोक्तदोषदुष्टत्वान्नात्ययो बोधतोऽन्यतः ।। १३२ ।।
स्पष्टार्थमुत्तरं भाष्यं न व्याख्यानमपेक्षते ।।
यतोऽत उत्तरो ग्रन्थः सम्यगव्याख्यायतेऽधुना ।। १३३ ।।
प्रयोज्यस्य हि बन्धस्य प्रयोजकमिहोदितम् ।।
प्राधान्येनेह कर्मैव तदन्यत्तूपसर्जनम् ।। १३४ ।।
परिच्छिन्नापरिच्छिन्नं तच्च कर्म स्वभावतः ।। १३५ ।।
परिच्छिन्नस्य संव्याप्तिर्व्याख्याता पूर्वमेव तु ।।
अपरिच्छिन्नसंव्याप्तिर्भुज्युप्रश्नेन भण्यते ।। १३६ ।।
ब्रह्माण्डाद्बहिरन्तश्च समष्टिव्यष्टिरूपिणः ।।
व्याप्तिर्हिरण्यरार्भस्य बन्धज्ञानाय भण्यते ।। १३७ ।।
वैषम्यप्रतिपत्त्यर्थं प्रश्नस्य च्रासजन्मने ।।
प्रतिवादिधियो यत्नाद्भुज्युनाऽऽख्यायिकाच्यते ।। १३८ ।।
लोकानामवसानानि पर्यपृच्छाम तं यदा ।।
गन्धर्वं तत्र काले तमथाब्रूम क्व तेऽभवन् ।। १३९ ।।
अप्रसिद्धाभिधानोक्त्या वादिव्यामोहसिद्धये ।।
अश्वमेधकृतो वक्ति भुज्युः पारिक्षिता इति ।। १४१ ।।
पारिक्षिताः क तेऽभूवन्नित्युक्तिस्रिरिहोदिता ।।
त्रिरुक्तेरुपयोगोऽयं विभागेनोपवर्ण्यते ।। १४१ ।।
प्रश्नार्था प्रथमोक्तिः स्यात्प्रत्युक्त्यर्था तथा परा ।।
तृतीय याज्ञवल्क्यार्थं तिस्रोऽप्युक्तीरितीरयेत् ।। १४२ ।।
भानुस्यन्दनगत्याऽध्वा मितो यावानहर्निशम् ।।
द्वात्रिंशद्गुणितस्तावान्व्याप्तो भानुगभस्तिभिः ।। १४३ ।।
द्वात्रिंशद्भिरहोरात्रैर्यावन्तं देशमुद्व्रजन् ।।
मण्डली कुरुते भानुस्तावाँल्लोकरवेरितः ।।
शरीरमेतद्वैराजं देवताकरणं महत् ।। १४४ ।।
इयानेव तु देशोऽयं प्राणिनां भोगसिद्धिकृत् ।।
अग्न्यादिदेवतानां च व्याप्तिरेतावती मता ।। १४५ ।।
लोकात्परं निरालोकः सर्वप्राणिविवर्जितः ।।
पर्येति लोकं द्विस्तावत्पृथिवी पूर्वमानतः ।। १४६ ।।
लोकालोकगिरेर्भागः सर्वप्राणिविवर्जितः ।।
समुद्रो द्विगुणो भूमेः परस्तादवतिष्ठते ।। १४७ ।।
यं घनोदमिति प्राहुः पुराणज्ञा विपश्चितः ।।
ब्रह्माण्डसंपुटस्तस्मात्परेणाभ्येति सर्वतः ।। १४८ ।।
पृथिव्यनन्तरं साक्षात्समुद्रः श्रूयते श्रुतौ ।।
अण्डाद्वहिः पुराणे तु विरोधे स्मृतिबाधनम् ।। १४९ ।।
व्याख्येह संप्रवृत्तेयमश्वमेधकृकतां पथः ।।
स चैवं शक्यते वक्तुं लोकालोकादिमानतः ।। १५० ।।
यथोक्तपरिमाणेन ध्यानकर्मविवक्षया ।।
लोकालोकादिकार्याणां परिमाणवचस्ततः ।। १५१ ।।
अस्ति तावदयं लोको यथोक्तपरिमाणवान् ।।
भानुप्रकाशसंव्याप्तो विराजो विस्तृतिस्त्वियम् ।। १५२ ।।
ततो लोकाद्विनिष्क्रम्य द्विगुणा पृथिवी स्थिता ।।
समन्ताद्दूिगुणोऽब्धिश्च संवेष्ट्य पृथिवीं स्थितः ।। १५३ ।।
तं समुद्रं समुत्तीर्य यदन्यत्परतस्ततः ।।
गन्तव्यमुपमानोक्तिः क्रियते तस्य सांप्रतम् ।। १५४ ।।
कपालसंधिगं व्योम सामर्थ्यात्परिमाणतः ।।
यावतीत्युपमोक्तेह श्रुत्याऽऽविष्क्रियतेऽनया ।। १५५ ।।
तेन पारिक्षितान्खेन चित्यात्मत्वमुपागतान् ।।
अन्तः संस्थाप्य नयति समष्टिव्यष्टितामसुः ।। १५६ ।।
चित्यात्माऽत्र सुपर्णः स्यादादित्यात्माऽथवोच्यते ।।
इमं देशं यतः प्राप्तानादित्याद्युक्तवर्त्मना ।। १५७ ।।
एवं पारिक्षितान्सर्वानग्निरिन्द्रो वियत्पथा ।।
निर्गमय्याण्डतः प्रादाद्वायवे सूक्ष्मरूपिणे ।। १५८ ।।
अश्वमेधमखापूर्वं देवताऽग्निरिहोच्यते ।।
वायुवेष्टनमेतच्च यदपूर्वमिहोदितम् ।। १५९ ।।
वायुरेव ततोऽपूर्वमभिव्यक्ततनुर्मतः ।।
अनन्तरमपूर्वस्य कार्यं निर्दिश्यतेऽधुना ।। १६० ।।
पारिक्षितानथाऽऽदाय वायुः स्वात्मसमाश्रयान् ।।
आपाद्य गमयामास तत्र प्राणैकरूपिणः ।। १६१ ।।
अश्वमेधकृतो यत्र पूर्वे तस्थुरितो गताः ।।
वाय्वात्मा गमयामास समष्टिव्यष्टिताप्तये ।। १६२ ।।
अश्वमेधमखापूर्वफलप्रकथनेन या ।।
प्रवृत्ताऽऽख्यायिका सेयं समाप्ताऽनवशेषतः ।। १६३ ।।
प्रश्नशेषमथेदानीं स्वयमेव श्रुतिर्जगौ ।।
यदि वा याज्ञवल्क्योक्तिरेवमेवेति यद्वचः ।। १६४ ।।
तस्मादित्यादिकं वाक्यं श्रुतेरिति च निर्दिशेत् ।।
वायुमेव स गन्धर्वः प्रशशंसातिविस्मितः ।। १६५ ।।
वायुं मुकत्वा बहिर्यस्मान्नान्यस्या विद्यतेऽबहिः ।।
देवताया गतिस्तस्माद्वायुर्ज्यायानिहैकलः ।। १६६ ।।
यत एवमतो ज्ञेयो वायुरेव न चापरः ।।
व्यष्टिः समष्टिरित्येवमण्डादन्तर्बहिश्च सः ।। १६७ ।।
व्याप्तिर्विशेषरूपेण व्यष्टिरित्यभिधीयते ।।
सामान्येन समष्टिश्च वायुरेव द्विधा स्थितः ।। १६८ ।।
वस्तु यल्लक्ष्यते किंचिज्जगत्यस्मिंश्चराचरे ।।
सामान्येन विशेषेण वायुरेव तदीक्ष्यते ।। १६९ ।।
न सामान्यविशेषाभ्यां वायोरन्यस्य वस्तुनः ।।
संबन्धो वायुरेवेति सावधारणवाक्यतः ।। १७० ।।
अन्ययोगव्यवच्छेदे प्रशंसेयमसोर्भवेत् ।।
न त्वयोगव्यवच्छेद उत्कर्षस्तादृगिष्यते ।। १७१ ।।
अश्वमेधक्रतोरेष समष्टिव्यष्टिलक्षणः ।।
महिमाऽऽविष्कृतः श्रुत्या विद्यायुक्तस्य संभ्रमात् ।। १७२ ।।
समष्टिव्यष्टिरूपं यो वायुमात्मेति संश्रितः ।।
सोऽपहन्ति पुनर्मृत्युं मृत्युमात्मानमेत्यसौ ।। १७३ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य तृतीयं भुज्युब्राह्मणम्