नामरूपादिमत्कार्यं यः प्रविष्टः स्वमोहजम् |
जलार्कवदकृत्स्नत्वमापेदेऽविद्यया परः || १ ||
तदविद्यापनुत्त्यर्थं गार्ग्यकाश्यादिच्छद्मना |
अपूर्वादिस्वभावोऽयं प्रविष्टंः प्रतिपादितः || २ ||
आगमादेमात्मानं प्रतिपाद्याथ तर्कतः|
स एव पञ्चमेऽप्युक्तः साक्षाज्जल्पैकवर्त्मना || ३ ||
वादन्यायेन तस्यैव प्रतिपत्त्यरथेमञ्जसा |
षष्ठे क्रमादुपन्यस्तं जाग्रदादिचतुष्टयम् || ४ ||
इन्धतैजससौषुप्ततुरीयाण्येव मांप्रतम् |
संश्रित्य पूर्व एवार्थ इह साक्षाद्विभाव्यते || ५ ||
विसंवादनिरासेन सद्भावश्चाऽऽत्मनः पुनः |
व्यतिरिक्तत्वशुद्धत्वस्वयंज्योतिष्ट्वनित्यता || ६ ||
स्वतोनतिशयानन्दस्वाभाव्यैकात्म्यनित्यता |
दृष्टिमात्राद्वयत्वं च तर्केण महताऽऽत्मनः || ७ ||
विभाव्यते सुविस्पष्टं वादन्यायेन यत्नतः |
विद्यायाः संप्रदानादिविध्यर्थाऽऽख्यायिकाऽत्र च || ८ ||
याज्ञवसल्क्योऽथ जनकं योगक्षेमार्थमभ्यगात् |
न वदिष्ये नृपेणाहमिति बद्ध्वा व्रतं किल || ९ ||
संवदिष्ये नृपेणाहमिति वा तं जगाम सः |
समित्यस्याभिसंबन्धादेनेनेत्येवमुच्यते || १० ||
अविवक्षुरपि प्राह यत्पृष्टं जनकेन सः |
तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ || ११ ||
एनेन संवदिष्येऽहमिति व्याख्यायते यदा|
तदाऽऽख्यायिकया हेतुस्तयोः संवाद इष्यते || १२ ||
राजैव पूर्वं पप्रच्छेत्येतस्माद्नम्यते शुभा |
लिङ्गाद्व्याख्योत्तरा पूर्वा न साध्वीत्यप्रमाणतः || १३ ||
न वदिष्येऽहमित्यत्र व्रते हेतुर्न वीक्ष्यते |
यतोऽसंतोषतस्तस्मात्कृता व्याख्योत्तरा शुभा || १४ ||
नाप्राक्षीत्तत्र यद्राजा वरदानादनन्तरम्|
प्रश्नानुक्तिर्विरुद्धत्वाद्विद्यायाः कर्मभिः सह || १५ ||
स्वोत्पत्तावेव विद्येवं हेत्वन्तरमपेक्षते |
प्रत्यगात्मतमोध्वस्तौ नासावन्यदपेक्षते || १६ ||
स्वरूपलाभमात्रेण यतोऽविद्यां निहन्त्यतः|
प्रयोगमपि विद्येयं नोपरुध्यति दात्रवत् || १७ ||
व्यवहर्तुमशक्तोऽयं देहो मृत्पिण्डंवत्स्वयम्|
परतन्त्रव्यवहृतिः स्वतोजाड्यस्वभावतः || १८ ||
पृथिव्याद्याध्यवस्यायं स्वयज्योतिरनुग्रहान् |
कर्माऽऽसनादि कुरुते तस्माच्च फ़लसंगतिः || १९ ||
त एवमतोऽप्राक्षीद्याज्ञवल्क्यं नराधिपः |
किंज्योतिरयमित्येवं प्रत्यग्ज्योतिर्बुभुत्सया || २० ||
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति || आदित्यज्योतिः सम्राडिति होवाचादित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतद्याज्ञवल्क्य || २ ||
करणानि च देहश्च पुरुषोऽत्र विवक्षितः |
आसनादिक्रियाकारी पीठक्षेत्रादि कर्म च || २१ ||
किं स्वावयवसंघातभिन्नजात्यतिरेकिणा |
ज्योतिषा व्यवहार्येषोऽसंहतेन पुमानिति || २२ ||
किंवा ताद्विपरीतेन ज्योतिषेत्यभिधीयताम् |
किंचातो यदि नामैवं शृण्वतो यत्प्रसिध्यति || २३ ||
तयोः पूर्वोक्तरूपेण ज्योतिषाऽनुग्रहो यदि |
अप्रव्यक्षेऽपि तस्मिंस्तत्पुंस्क्रियालिङ्गदर्शनात् || २४ ||
अनुमास्यामहे ज्योतिस्तादृगेव तदा वयम् |
अथ तद्विपरीतेन संगतिर्ज्योतिषेक्ष्यते || २५ ||
तथाभूतं तदा ज्योतिरनुमास्यमाहे वयम्|
अथोभयात्मताऽदृष्टा तदाऽपि स्यादनिश्चितिः || २६ ||
इत्येतदभिसंधाय पप्रच्छ जनको मुनिम् |
स च पृष्टो यथाप्रश्नं प्रत्युत्तरमभाषत || २७ ||
नन्वेवं कौशले राज्ञः किमर्थं पृष्टवान्मुतिम् |
स्वयमेवानुमायेदृग्ज्योतिः किं न प्रपद्यते || २८ ||
सत्यमेवं तथाऽप्येष नृपः पप्रच्छ तं मुनिम्|
लिङ्गलिङ्ग्यभिसंबन्धदुर्ज्ञेयत्वात्सुसूक्ष्मतः || २९ ||
बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते |
किमुतैकस्य वक्तव्यं पर्यपृच्छदतो नृपः || ३० ||
सूक्ष्मधर्मविवेकार्थमत एवाब्रवीन्मनुः |
दशावरा पर्षदिति ह्यपेक्षन्ते च सद्धियः || ३१ ||
याज्ञवल्क्यादिरूपेण श्रुतिरेवाथवा स्वयम् |
अनुमावर्त्मना ज्योतिः साक्षान्नः प्रत्यपीपदत् || ३२ ||
नृपाभिप्रायवित्प्राह याज्ञवल्क्योऽपि तं नृपम् |
यथोक्तज्योतिषः सिद्धावादित्याज्योतिरित्ययम् || ३३ ||
देहावयवसंघातजातिसंस्थानतात्क्रिया -
देशाद्यत्यन्तसंभिन्नतद्विलक्षणभास्वर -
स्वप्रतिष्ठैकभान्वाख्यज्योतिषैव पुमानयम् |
आस्ते पल्ययते कर्म कृत्वा भूयो निवर्तते || ३४ || ३५ ||
मध्ये जडस्वभावोऽयं ज्योतिषोर्वर्तते पुमान् |
बुद्ध्यादिविषयान्तो हि प्रत्यक्चैतन्यबिम्बितः || ३६ ||
प्रत्यगेकस्वयंज्योतिःस्थिरासंहतनिष्क्रिय-
तद्विरुद्धरवीन्द्वादिज्योतिषोर्मोहहेतुकः || ३७ ||
मातृमानप्रमेयात्मा कर्तृसाधनकार्यवान् |
अशनायादिसंसारधर्मापायागमात्मकः || ३८ ||
तद्विरुद्धात्मकेनैव ज्योतिषोद्दीपितेक्षणः |
आदित्येन स दैवाऽस्ते यात्यायातिकरोति च || ३९ ||
आदित्यात्परमेवेति नाऽऽदित्यस्यावधारणे |
पिण्डप्राणादिधर्मेभ्यो वैधर्म्यावधृतौ यतः || ४० ||
आदित्त्यावधृतिश्चेत्स्यान्नेन्गद्वादेः स्यादनुग्रहः |
तस्मात्पिण्डादिवैधर्म्यमेवेतीहावघार्यते || ४१ ||
नृपस्त्वेवेतिसंश्लेषादादित्यस्यावधारणम् | मत्वाऽस्तमित इत्येवं मुहुर्विप्रचूचुवदत् || ४२ ||
आत्मैव ज्योतिरथवा रविसोमाग्न्युपाधिगम् |
अवध्रियत एवेति तमेव इति च श्रुतेः || ४३ ||
रवीन्द्वादिपदार्थेभ्यो ह्यनुमानैकवर्त्मना |
स्वार्थं विज्ञापयिष्यामि विभज्यातः परा श्रुतिः || ४४ ||
ज्योतिषोऽत्यन्तवैधर्म्यप्रसिद्ध्यर्थं विशेषणम् |
आस्त इत्यादि सुबहु श्रुत्योपन्यस्तमादरात् || ४५ ||
भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह |
लिङ्गस्याव्यभिचारार्थं बुद्धिवाक्कायकर्मणः || ४६ ||
आदित्येनैव चेत्पुंसोऽनुग्रहो भवतोच्यते |
तस्मिन्नस्तंगते पुंस आसनादिः कुतो भवेत् || ४७ ||
चन्द्रमा एव पुंसोऽस्य तदा ज्योतिरनुग्रहे |
तस्याप्यस्तमयेऽग्निः स्यादासनादिप्रवृत्तये || ४८ ||
आदित्यादित्रयं ज्ञेयं ज्योतिषामुपलक्षणम् |
मण्यादीनां प्रवृत्तिर्हि पुंसां तैरपि दृश्यते || ४९ ||
तेष्वप्यस्तमितेष्वस्य पुंसो वाग्ज्योतिरिष्यताम् |
वाक्च शब्दोऽत्र विज्ञेयो ज्योतिष्कार्यसमन्वयात् || ५० ||
स्पर्शादिविषयाणां वागिह स्यादुपलक्षणम् |
यतः स्पर्शादिनाऽप्येषां प्रवृतिर्दृश्यते नृणाम् || ५१ ||
बाह्यादित्यादिज्योतिर्भिः पुमान्संदीपितेन्द्रियः |
प्रत्यक्चैतन्यसंदीप्तः सर्वाश्चेष्टाः प्रपद्यते || ५२ ||
सर्वेष्वेतेषु शान्तेषु ज्योतिःषूक्तेषु कर्मणे |
पुमान्किंज्योतिरेवायं तमस्यन्धेऽभिधीयताम् || ५३ ||
सर्वचेष्टानिरोधोऽस्य पुंसः प्राप्तस्तदाऽसति |
यथोक्तज्योतिषि ततो न स्युश्चेष्टा यथोदिताः || ५४ ||
स्मृतिस्वप्नसमाधाने पुरुषस्य समीक्ष्यते |
चेष्टाऽतः पूर्ववत्तस्य ज्योतिस्तत्रानुमीयते || ५५ ||
बोद्धुः कर्तुश्च पुंसोऽस्य प्रवृत्तिर्येह काचन |
यथोक्तज्योतिर्विरहे नासौ दृष्टा कदाचन || ५६ ||
भान्वाद्युद्दीपिताक्षः सन्प्रमात्रादिः प्रसिध्यति |
ततः कर्त्रादिसंसिद्धिः प्रमाकर्मफ़लं ततः || ५७ ||
कूटस्थानित्ययोर्भासोर्मध्यवर्ती पुमानयम् |
वाङ्भनःकायकर्माणि सर्वदैव प्रपद्यते || ५८ ||
ध्वान्तादिविषयान्तोऽर्थो जडत्वान्नाऽऽत्मसिद्धिकृत् |
आत्मज्योतिरभावेऽतो नाभावमपि विन्दति || ५९ ||
आगमापायिज्योतिर्भिर्धर्माधर्मनिबन्धना |
संगतिः पुरुषस्यास्य निर्हेतुः प्रत्यगात्मना || ६० ||
कुम्भस्य वियता यद्वन्निर्हेतुः संगतिः सदा || |
विनश्वरी सहेतुश्च जलक्षीरादिसंगतिः || ६१ ||
यथोहासंहतान्येव भान्वादीनि प्रकुर्वते |
अनुग्राह्येण पुंसेह सर्वदाऽनुग्रहं मुहुः || ६२ ||
अकारकात्मकान्येव पुंसः कारकरूपिणः |
नाकृत्वा तानि कुर्वन्ति प्रकाशं गतिवद्यतः || ६३ ||
व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः |
व्यङ्ग्येष्वतिशयो दृष्टस्तिष्ठतो नु गतिर्यथा || ६४ ||
आत्मज्योतिस्तथैवेदं सदानस्तमितोदितम् |
भान्वादिष्वपि सर्वेषु तदेव प्राग्विवक्षितम् || ६५ ||
पुंस्प्रवृत्तिरियं लिङ्गं यथोक्तज्योतिषो भवेत् |
सर्वत्राव्यभिचारित्वात्तथा स्वप्नादिभूग्निषु || ६६ ||
जाग्रत्काले नारस्यास्य भान्वादिज्योतिषा यदा |
चक्षुराद्यनुगृह्येत स्फ़ुटा व्यवहृतिस्तदा || ६७ ||
विभिन्नासंहतज्योतिरनुग्रहपुरः सरः |
पुंव्यापारः सदक्षेत्थप्रमाणप्रमितः स्फ़ुटः || ६८ ||
लिङ्गलिङ्ग्यभिसंबन्धो यस्मादेवं मितस्ततः || |
सर्वज्योतिरभावेऽपि तादृगेवानुमीयते || ६९ ||
ज्योतिर्जागरिते यद्वद्रवीन्द्वादि समीक्ष्यते |
नरव्यापारलिङ्गेन धूमाग्निवदसंशयम् || ७० ||
लिङ्गात्सामान्यतो ज्ञाते विशेषेणाप्यनीक्षिते |
भान्वादिवदतो राजा भूयः पप्रच्छ तं गुरुम् || ७१ ||
शान्तेषु सर्वज्योतिःषु पूर्वोक्तेष्वस्य देहिनः |
क्रिज्योतिरिति मे ब्रूहि पुंव्यापारानुभूतितः || ७२ ||
सर्वज्योतिरुपरतौ भूरिव्यापारकारणम् |
स्वयंज्योतिष्कमपि तं राजा पप्रच्छ मोहतः || ७३ ||
यत्प्रसादादविद्यादि सिध्यतीव दिवानिशम् |
तमप्यपह्नुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् || ७४ ||
स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं निरात्मिका |
अविचारितसंसिद्धिरविद्या लिङ्गते कथम् || ७५ ||
निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा |
पूर्णस्यानात्मना योगो वास्तवो नोपपद्यते || ७६ ||
सर्वज्योतिरुपरमे किंज्योतिरिति चोदिते |
आत्मैवास्येति जनकं याज्ञवल्क्योऽप्युवाच ह || ७७ ||
आत्मप्रत्यय आत्मैको द्वीतीयः पुनरात्मनः |
अनात्मप्रत्ययोऽतोऽहं स्वत एवास्मि केवलः || ७८ ||
न सामान्यं विशेषं वा प्रत्यग्धीरवगाहते |
तद्यायथात्म्यात्प्रतीचोऽतः सम्यग्दृष्ट्या न वीक्ष्यते || ७९ ||
नाविद्याघस्मरैकात्म्यसम्यग्दृष्ट्या समीक्ष्यते |
आत्माविद्या तदुत्थो वा बाध्यत्वाद्रज्जुसर्पवत् || ८० ||
आध्यात्मिकस्य नेत्रादेर्बाह्यज्योतिरसंगतौ |
तद्दूरेण प्रकाशोऽयं न मनस्युपजायते || ८१ ||
भान्वाद्यनुग्रहाभावे तस्मादेष पुमानिह |
प्राप्तोऽद्रष्टा तथाऽश्रोता स्मृतिस्वप्नादिभूमिषु || ८२ ||
मनसैवेक्षते यस्मात्सर्वानिन्द्रियगोचरान् |
तदभावे पुमानेष किंज्योतिरिति कथ्यताम् || ८३ ||
आत्मैवास्य तदा ज्योतिर्भवतीत्यभ्यधादृषिः |
आत्मनैव तदा चेष्टां ज्योतिषा संप्रपद्यते || ८४ ||
प्रत्यक्षाद्युपलब्धौ यो बुद्धौ संस्कार आहितः |
कर्मणोद्भावितः सोऽयं स्मृतिरूपेण जायते || ८५ ||
आत्मा स्वाभाससचिवो धियमिच्छादिरूपिणीम् |
अनुगृह्णाति कर्मोत्थां प्रत्यगज्ञानकारणात् || ८६ ||
यथा प्रकाशयत्येकः कृत्स्रं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति तथा स्मृतिः || ८७ ||
नानासंस्कारसंसर्गिप्रत्यगज्ञानमेव तत् |
बुद्ध्यादिस्मृतिरूपेण प्रथते कर्मणो वशात || ८८ ||
भान्वादिवदतो बुद्धिं स्वाभासैकसहायवान् |
अनुगृह्णाति कूटस्थः स्वात्माविद्यानुरोधतः || ८९ ||
अनुग्राह्याभिसंबन्ध एकजातिसमन्वयात् |
आदित्यादेरिहावाप्तिरात्मनोऽज्ञनवर्त्मना || ९० ||
चिदाभाविद्ययैवाऽऽत्मा कूटस्थोऽप्येति साक्षिताम् |
आगमापायिरूपेषु स्थितोऽनेकेषु चैकलः || ९१ ||
दृश्यार्थवदभिन्नोऽयं द्रष्टृदर्शनसाक्ष्यपि |
द्रष्टृदर्शनभेदेऽपि न भेदोऽस्य मनागपि || ९२ ||
कारणान्वयवद्बुद्धेश्चिदाभासोऽपि सर्वदा |
चिदाभासातिरेकेण बुद्धेः परिणतिर्वृथा || ९३ ||
विषयः प्रत्यगात्मा च स्वाभासेन विशेद्धियम् |
स्वाभासवत्स्वयं साक्षाद्वियत्कुम्भादिगं यथा || ९४ ||
योऽप्यविद्यादिसंबन्धः सोऽप्यविद्याप्रकल्पितः |
वास्तवस्त्वभिसंबन्धो नोपपत्त्याऽऽत्मनो यतः || ९५ ||
यथा ज्ञानप्रकाशाभ्यां संप्लुतावेव नान्यथा |
कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु || ९६ ||
चिद्बाह्याकृतिसंबन्धे कर्मणेऽलं भवेन्मतिः |
तयोर्भिन्नाश्रयत्वे तु दुःख्यस्मीति न सिध्यति || ९७ ||
कौटस्थ्याद्विक्रियाभावान्निश्चित्कत्वाद्विकारिणः |
आत्मनः स्यादिदं विश्वमन्धकारप्रनृत्तवत् || ९८ ||
घटाद्याभासवत्तस्मान्मोहादेरभ्युपेयताम् |
चिदाभासोऽपि सर्वत्र न वेद्मीत्युनुभूतितः || ९९ ||
एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत्र विवक्षितः |
भान्वनुग्रहवत्पुंस आसनादिप्रसिद्धये || १०० ||
आत्मेति प्राणपिण्डादितदंशसमुदायतः |
तज्जात्याकृतिसंबन्धगुणकर्मविलक्षणः || १०१ ||
तत्सतत्त्वं तदात्मत्वादज्ञानाद्यवभासयत् |
ज्योतिरेकात्मकं नित्यमसाधारणमानगम् || १०२ ||
तदन्यस्य जडत्वाच्च नान्यप्रत्यक्षमिष्यते |
तथाऽनतिशयत्वात्स्यान्न पुमन्तरगोचरः || १०३ ||
शब्दादिगुणहीनत्वात्प्रत्यक्त्वासंहतत्वतः |
दृष्टिमात्रस्वभावाच्च नाऽऽत्मा दर्शनमर्हति || १०४ ||
देशान्तराद्यसंबन्धान्मोहाद्याव्यवधानतः |
न च मोहादिवत्प्रत्यक्तथा दर्शनमर्हति || १०५ ||
नाऽऽदित्यादिसजातीयमात्मज्योतिरितीष्यताम् |
तन्मानानवगम्यत्वादादित्यादेश्च तद्गहात् || १०६ ||
अनुग्राह्यसजातीयं यच्च ज्योतिरिहेष्यते |
तच्चक्षुरादिकरणग्राह्यं दृष्टं घटादिवत् || १०७ ||
न चाप्रमेयमिति तच्छशशृङ्गादिवन्मतम् |
तदनन्यमिति व्याप्तेः प्रत्यकत्वाद्दिनकृद्यथा || १०८ ||
प्रत्यक्षमानगम्यत्वं विषाणस्यावधारितम् |
स्वभावस्तमृते शृङ्गं स्वभावमतिवर्तते || १०९ ||
मानपादोपजीवित्वं स्वभावोऽनात्मवस्तुनः |
मात्रादिसिद्धिदस्यैष स्वतःसिद्धेर्न सर्वदा || ११० ||
अस्तं यातेषु सर्वेषु ज्योतिःषूक्तेषु वासनाः |
ज्योतिः प्रत्यक्स्वयं दृष्टमासनाद्याः प्रकाशयेत् || १११ ||
एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु यः |
यातेष्वस्तं दृशैवाऽऽस्ते भासयंश्चित्तचेष्टितम् || ११२ ||
आत्मप्रत्ययमामेयः सर्वेषामपि देहेनाम् |
यतोऽतोऽनात्मयोगोऽस्य न मानादवसीयते || ११३ ||
न चेदात्मेतिधीमानात्प्रतीचोन्योऽर्थ ईक्ष्यते |
प्रमान्तराविरोधेन य आत्मेत्युपपद्यते || ११४ ||
आत्मा ब्रह्मेति वाक्येभ्यस्तथाचेदंल प्रतीयते |
प्रत्यक्षाद्यानवष्टब्धमैकात्म्यं बाधवर्जितम् || ११५ ||
ननु देहाद्यभिन्नत्वादात्मनो मुक्तता कुतः |
प्रत्यक्षेण विरुद्धत्वादैकात्म्यं चापि न श्रुतेः || ११६ ||
तथा हि क्षितितोयाग्निमरुतां योगजं मतम् |
प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत् || ११७ ||
अहं मनुष्य इत्येवं सामानाधिकरण्यतः |
प्रत्यक्षबुद्धिर्देहेऽस्मिञ्जायते कृष्णसर्पवत् || ११८ ||
न चाहंबुद्धिगम्योऽर्थो दृष्टो देहातिरेकतः |
सर्पादेरिव कार्ष्ण्यादिर्देहधर्मस्ततश्चितिः || ११९ ||
ननु युक्ता पराग्भूते प्रमातुर्व्यतिरेकतः |
सर्पादौ धर्मसंबन्धप्रमा नाऽऽत्मन्यभेदतः || १२० ||
जडस्वभावतश्चापि कार्ष्ण्यादेर्धर्मतेष्यते |
स्वसंविदितमात्रत्वान्न त्वेवंरूपता चितेः || १२१ ||
यथैकबुद्धिनिर्ग्राह्यं द्रव्येणेह विशेषणम् |
नैवं चित्काययोः सिद्धिश्चिच्छक्त्यविषयत्वतः || १२२ ||
नैवं येनैव मानेन सत्ता संविद ईक्ष्यते |
तेनैव धर्मता तस्याः कार्ष्ण्यादेरिव मीयते || १२३ ||
ननु देह इदंबुद्धिर्घटादाविव जायते |
प्रत्यग्बुद्धिस्त्वहंभागे नानयोर्धर्मधर्मिता || १२४ ||
यथैव पारिहार्यादि हेमैकद्रव्यनिष्ठितम् |
अलब्धात्मकमन्यत्र लब्धात्मकमिवेक्ष्यते || १२५ ||
तथैव वस्तुस्वाभाव्याच्चिच्छक्तिर्भूतनिष्ठिता |
अहमित्यादिबुद्धीनां व्यवहाराय कल्पते || १२६ ||
चैतन्यं देहधर्मश्चेन्मृतावविकलस्य तत् |
कस्मान्न गम्यते साक्षाज्जीवद्देहगतं यथा || १२७ ||
नैष दोषश्चतुर्णां हि भूतानां संहतिस्तनुः |
ततो वायावपक्रान्ते चैतन्यमपि नश्यति || १२८ ||
स्वप्नदेहादिसंबन्धिप्रत्यभिज्ञाबलान्ननु |
व्यतिरेकश्चितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः || १२९ ||
देहान्तरविनिर्माणं जाग्रच्चैतन्यवद्ध्रुवम् |
करोति भूतसंधातः स्वप्ने बालयुवादिवत् || १३० ||
न चात्र प्रत्यभिज्ञाऽस्ति मिथ्यापरिणतेस्तव |
नैव बाल्यादिवद्यस्मात् स्वप्ने देहः प्रतीयते || १३१ ||
जातिस्मरणदृष्टान्तादात्मा नित्यो मतो यदि |
व्रणं पूर्वकृतं दृष्ट्वा देहः किं नोच्यते ध्रुवः || १३२ ||
प्रत्यभिज्ञानतस्तत्र ध्रौव्यं चेदात्मनो मतम् |
स्वप्नात्मप्रत्यभिज्ञेयं मृषार्था साऽपि पूर्ववत् || १३३ ||
सशल्यदेहशायीनि भूतान्येव तथाविधम् |
देहान्तरं करिष्यन्ति प्रत्यभिज्ञा यदीष्यते || १३४ ||
तान्येवैतानि भूतानीत्येवं यद्वत्प्रजायते |
प्रत्यभिज्ञा स एवाहमिति यद्वद्भवेन्न किम् || १३५ ||
यच्चैतदात्मज्योतिष्ट्वं व्यतिरिक्ततयोदितम् |
आदित्यादिलयेनेह भौतिकं त्वेव तद्भवेत् || १३६ ||
उपकारि सजातीयमुपकार्यस्य वस्तुनः |
जगत्यस्मिन्यतो दृष्टमादित्यश्चक्षुषोर्यथा || १३७ ||
शब्दादिभिर्हि घ्राणादेर्नोपकारः समीक्ष्यते |
विजातीयैरतो ज्योतिर्भूतजातीयमिष्यताम् || १३८ ||
भौतिकस्यैव कुम्भादेर्भौतिकैरेव वीक्ष्यते |
उपकारो जगत्यस्मिन्नादित्याद्यैर्यथा तथा || १३९ ||
देहादेर्यदि नामेदं ज्योतिरर्थान्तरं मतम् |
तथाऽपि नासजातीयं व्यञ्जकत्वात्प्रदीपवत् || १४० ||
ननु देहासजातीयमन्तस्थातीन्द्रियत्वतः |
यद्यद्देहसजातीयं ज्योतिर्दृष्टं तदिन्द्रियैः || १४१ ||
मैवं नैकान्तिको हेतुश्चक्षुरादीन्द्रियैः स्फ़ुटम् |
अन्तस्थानि यतोऽक्षाणि प्रत्यक्षाणि न चाऽऽत्मवत् || १४२ ||
आदित्यादिसजातीयमात्मज्योतिरतीन्द्रियम् |
अन्तस्थातीन्द्रियत्वाभ्यां चक्षुरादीन्द्रियं यथा || १४३ ||
विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता |
इत्यादिदोषदुष्टत्वान्न च नोऽनुमितिः प्रमा || १४४ ||
अनुमानबलेनैव देहादिव्यतिरेकतः |
प्रत्यगात्मा स्वयंज्योतिः साध्यते तच्च नानुमा || १४५ ||
प्रत्यक्षैकप्रमाणेन देहे चिद्धर्मकेऽञ्जसा |
गृह्यमाणेऽनुमानेन न तच्छक्यं प्रबाधितुम् || १४६ ||
दर्शनादिक्रियां कुर्वन्सर्वदाऽव्यभिचारतः |
प्रत्यक्षेणैव दृष्टोऽयं देहो नातस्ततोऽपरः || १४७ ||
दर्शनादिक्रियाकारी देहश्चेदभ्युपेयते |
कस्मादविकलस्यैव दृष्ट्यादिर्न तथेक्ष्यते || १४८ ||
नैष दोषो भवेदत्र प्रत्यक्षप्रमितत्वतः |
न हि दृष्टं समुल्लङ्घ्य ततोऽन्यद्वलवन्मतम् || १४९ ||
भास्वराभास्वरत्वं च प्रत्यक्षेणैव वीक्ष्यते |
खद्योतस्यानुमानेन न हेत्वन्तरकल्पनम् || १५० ||
हेत्वन्तरेऽनुमेये च किंचित्सामान्यगन्धतः |
सर्वं सर्वस्य लिङ्गं स्यात्तच्चानिष्टं प्रसज्यते || १५१ ||
न च नास्ति पदार्थानां लोकेऽसाधारणः कचित् |
स्वभावोऽग्न्यादिकानां हि नोष्णत्वाद्यन्वहेतुतः || १५२ ||
प्राणिधर्माद्यपेक्षं चेदुष्णत्वादि हविर्भुजः |
नैवं तत्रापि दोषस्य प्रसक्तेरनिवृत्तितः || १५३ ||
तदप्यस्त्विति चेन्मैवं धर्मादेरप्रसिद्धितः |
धर्माभ्युपगमे दोषो ह्यनवस्था प्रसज्यते || १५४ ||
न चानवस्थया सिद्धिरभिप्रेतस्य वस्तुनः |
तदलं क्षितितोयाग्निमरुतां परिणामजे |
चेतोवत्यक्षसंवेद्ये कष्टकल्पनयाऽनया || १५५ ||
सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः |
यदभ्युपगमादेव तत्सिद्धिर्वार्यते कुतः || १५६ ||
प्रत्यक्षेण विरुद्धत्वं न तावदुपपद्यते |
विषयाभावतस्तस्य प्रामाण्यं दुर्लभं यतः || १५७ ||
सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् |
अज्ञातार्थाधिगमनं त्वदुक्ते तन्न युज्यते || १५८ ||
प्राक्प्रमाणसमुत्पत्तेर्देहादेर्विषयस्य ते |
प्रमाणहेतोः केन स्यादज्ञातत्वमितीर्यताम् || १५९ ||
स्वतः सिद्धोऽथवाऽसिद्धो देहादिस्ते भवन्भवेत् |
प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते || १६० ||
प्रमाणान्यन्तरेणापि देहादिश्चेत्प्रसिध्यति |
वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम् || १६१ ||
स्वतोऽसिद्धेऽप्रमेये च नासतो व्यञ्जिका प्रमा |
नाभिव्यनक्ति सविता खरशृङ्गं स्फ़ुरन्नपि || १६२ ||
प्रमाणव्यतिरेकेण नाप्यसत्त्वं प्रसिध्यति |
सत्त्ववन्नापि चाभेदे मानमेयौ प्रसिध्यतः || १६३ ||
यदि मानातिरिक्तार्थोऽमितः संभाव्यते तदा |
तं बोधयद्भवेन्मानं न तु तत्कुर्वदिष्यते || १६४ ||
अबुद्धबोधनं मुक्त्वा नान्यत्कार्यं क्वचिद्यतः |
सत्त्वं वा यदि वाऽसत्त्वं नातो मेये प्रमाणतः || १६५ ||
मानव्यापारतः पूर्वं सिद्धामेवावबोधयत् |
शुक्तिकां मानतां याति, नासिद्धं रजतादिकम् || १६६ ||
शुक्तौ रजतविज्ञानाच्छुक्तिवन्नामितं यतः |
रजतं विद्यते किंचिद्विज्ञातं चाऽऽत्मवस्तुवत् || १६७ ||
नातिरेकान्वयाभ्यां यद्वस्तु संभाव्यते कथम् |
तत्प्रति स्यात्प्रमाणत्वं शुक्तिकारजते यथा || १६८ ||
किं मानसंगतेरर्थे जातेयमवबुद्धता |
किंवा प्रागपि संबन्धाद्बुद्धोऽर्थोऽभून्न मानतः || १६९ ||
बोधात्मकत्वं च मितेः किमासीन्मेयसंगतेः |
प्राग्वा मेयाभिसंबन्धान्मितेर्बोधात्मता भवेत् || १७० ||
नार्थानधिगतत्वं च प्रमाणेभ्यः प्रसिध्यति |
रूपानधिगतत्वं नो न श्रोत्रादेः प्रमाणतः || १७१ ||
मानव्यापारतश्चेत्स्यान्मेयानधिगातिस्तदा |
तद्व्यापारात्पुरा मेयः स्यात्स्वतोधिगतात्मकः || १७२ ||
यत एवमतोऽवश्यं प्रमाणव्यापृतेः पुरा |
मेयोऽनधिगतः सिद्धो ह्यभ्युपेयोऽवबुद्धवत् || १७३ ||
न चानाहितसन्मानस्वतश्चिन्मात्रविग्रहात् |
प्रत्वगैकात्म्यतोऽन्यत्र यथोक्तां धुरमुद्वहेत् || १७४ ||
न ह्यज्ञाते यथा ज्ञाते विशेषणविशेष्यता |
ततश्च नैतत्संसिध्येदज्ञानादि प्रमाणतः || १७५ ||
प्रमाणाच्चानधिगतौ तन्निवृत्तिः कुतो भवेत् |
न दाहज्वरनुत्त्यर्थमग्निना स्याद्भिषक्क्रिया || १७६ ||
साक्ष्यमातृप्रमारूपं मानभूमौ यथेक्ष्यते |
नाज्ञातेऽनुभवादेषां कश्चिदन्यस्तथेक्ष्यते || १७७ ||
प्रमाणव्यापृतेरूर्ध्वं ज्ञाताज्ञातटूयं मिथः |
संधत्तेऽनुभवेनैव न तदन्येन केनचित् || १७८ ||
यदि नाम न मानानि व्याप्रियन्ते विनिश्चितेः |
प्राक्तथाऽप्यपलापोऽस्या नानुभूतेर्घटादिवत् || १७९ ||
एवं सिद्धेऽप्यनुभवे स्वमहिम्ना पुरा मितेः |
प्रमाणोत्पत्तिरन्वेष्यै प्रत्यग्ध्वान्तापनुत्तये || १८० ||
अवबुद्धस्वभावोऽपि सहतेऽनवबुद्धताम् |
वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं विना || १८१ ||
प्रमाणफ़लकारूढं स्वतमो हन्ति नान्यथा |
वस्तु मेयाभिसंबद्धं मानं तद्वत्तमोपनुत् || १८२ ||
प्रत्यक्षमानसिद्ध्यर्थं तस्मात्प्रत्यक्षवादिना |
प्राङ्भानादभ्युपेयोऽर्थो थोऽज्ञातत्वादिसिद्धिकृत् || १८३ ||
वागादिव्यापृतेः कर्ता शब्दादिगुणलाञ्छितः |
प्रत्यक्षो गम्यते मात्रा प्रतीचोऽत्यन्तभेदतः || १८४ ||
श्रोत्रादिव्यापृतो माता दुःखादिगुणवान्पराङ् |
कर्तेवानुभवेनैव प्रतीचा गम्यतेऽञ्जसा || १८५ ||
अनन्यानुभवः प्रत्यङ्न प्रमात्रादिगोचरः |
यतोऽपहतपाप्मादि युक्तं स्यात्तद्विशेषणम् || १८६ ||
लोकायतस्य बोद्धस्य कणभोज्याक्षपादयोः |
प्रत्यक्षेणैव मानेन विमुखीकरणं कृतम् || १८७ ||
प्रमाणफ़लयोर्भेदस्तथा मानप्रमेययोः |
स्वतःकूटस्थचित्सिद्धिरैकात्म्यं चानुभूतितः || १८८ ||
प्रत्यक्षं मानमेवेदमिति यस्मात्प्रसिध्यति |
प्रत्यक्षदृक्स्वयंज्योतिस्तदात्मेत्यभ्युपेयताम् || १८९ ||
मेयादींस्तभावं च संशयानृतनिश्चयान् |
विविच्य योऽनुगृह्णाति शब्ददींश्च जडान्पृथक् || १९० ||
देहेन्द्रियमनोबुद्धीः सुखादींश्च घटादिवत् |
तमेकमन्तरात्मानमप्रत्यक्षं प्रपश्य भोः || १९१ ||
द्रष्टृदर्शनदृश्यांश्च यः स्वप्ने प्रसमीक्षते |
तदभावं सुषुप्ते च स आत्मेत्यभ्युपेयताम् || १९२ ||
चक्षुरादीन्द्रियाणां च न च स्वप्नेऽस्ति संभवः |
सुषुप्ते चानुभूतिस्तु तयोरव्यभिचारिणी || १९३ ||
प्रमाणं मेयविषयं तत्फ़लं मातृसंश्रयम् |
यत्साक्षिकं द्वयं सिध्येत्स आत्मेत्यभ्युपेयताम् || १९४ ||
मानस्य हि फ़लं यत्र न तन्मानस्य गोचरः |
तस्य मेयैकनिष्ठत्वात्फ़लं तु स्यात्प्रमातरि || १९५ ||
प्रत्यक्षं वर्तते यत्र तत्फ़लं तत्र नेक्ष्यते |
तत्फ़लं वर्तते यत्र मानं तत्र न वर्तते || १९६ ||
एवं सति प्रमामातृफ़लमेयात्मनां तव |
कुतः प्रत्यक्षतासिद्धिर्यदि नाऽऽत्माऽभ्युपेयते || १९७ ||
व्यभिचारिषु सर्वेषु प्रत्यगात्मैकसाक्षिषु |
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान् || १९८ ||
एवं प्रत्यक्षतस्तावद्देहादिव्यतिरेकतः |
तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः || १९९ ||
यच्चैतत्कृष्णसर्पादिदृष्टान्ताद्भवतोदितम् | अहं मनुष्य इत्यादि तत्र प्रतिविधीयते || २०० ||
चैतन्यं कायधर्मश्चेन्मनुष्योऽसाविति प्रमा |
असाधारणतो न स्यादहं वेद्मीतिवत्तदा || २०१ ||
समवेतं हि यद्यत्र चैतन्यं स्याच्छरीरके |
तस्यैव तद्भवेत्साक्षान्नान्यदेहाश्रितस्य तत् || २०२ ||
करणव्यापृतिं चर्ते मनुष्योऽस्मीति धीर्भवेत् |
पूर्ववन्न तु तत्तादृग्देहाद्भिन्ना ततश्चितिः || २०३ ||
न चाहंबुद्धिनिर्ग्राह्यमिदंधीग्राह्यगोचरः ||
विरोधान्न हि शीतत्वमुष्णस्याग्नेर्विशेषणम् || २०४ ||
कायस्यापि न चैतन्यमेवमेव विशेषणम् |
विरोधिना जडत्वेन व्याप्तेः किमु परस्य तत् || २०५ ||
विशेष्यमपि नाऽऽप्नोति धर्मान्तरविशेषितम् |
विशेष्यमात्रनिष्ठत्वादन्यत्र स्यात्कथं नु तत् || २०६ ||
विशेषणविशेष्यत्वे संगतिश्चेद्भवेत्तयोः |
एकप्रत्ययगम्यत्वं स्यात्तदा कृष्णसर्पवत् || २०७ ||
आविद्वदङ्गनावालं देहादौ घटवन्मतिः |
पृथक्त्वेन भवन्तीयं कथं स्याच्चिद्विशेषिता || २०८ ||
मातारमपि नाऽऽप्नोति यत्प्रमेयैकनिष्ठितम् |
प्रत्यक्षं तस्य का शक्तिः स्वार्थायां चिति वर्तितुम् || २०९ ||
असाधारणरूपोत्थाज्ञानेनैव प्रमीयते |
यथा घटस्तथैवाऽऽत्मा नानत्मप्रत्ययप्रमः || २१० ||
स्वार्थं सन्न परार्थस्य स्वातन्त्र्यात्स्याद्विशेषणम् |
न च चैतन्यमित्किंचिच्चैतन्याल्लभ्यते पृथक् || २११ ||
ग्रहीत्रेव हि चैतन्यमात्मनोऽनात्मनस्तथा |
ग्रहीतुर्ग्राह्यता लोके न न्यायेनोपपद्यते || २१२ ||
प्रत्यक्त्या विभिन्नस्य चैतन्यस्य विशेषणम् |
पराकत्वान्नापि कायः स्याच्छीततेव विभावसोः || २१३ ||
पारिहार्यादिगं हेम्नि प्रमाणं मेयनिष्ठितम् |
कथमात्मचितौ तत्स्यात्तद्विरुगद्धार्थसिद्धये || २१४ ||
भूतेभ्यश्च चिदुत्पत्तिर्न प्रत्यक्षप्रमाणिका |
भूतान्वयस्य चासत्त्वान्नापि लिङ्गात्प्रसिद्ध्यति || २१५ ||
मृतोऽस्मीत्यपि संवित्तिश्चैतन्यापगमे कुतः |
जाड्यात्स्यान्नापि कायस्य चिदभावश्चितेः कुतः || २१६ ||
नापि स्वप्नानुभूतेश्च मिथ्यात्वं स्वप्नवन्मतम् |
बोधानुभववत्तस्या बाधको नेक्ष्यते यतः || २१७ ||
वायोरपि समुत्क्रान्तिः प्रत्यक्षान्नावसीयते |
चितेस्तद्भावभावित्वाद्वायुरेवास्तु चेतनः || २१८ ||
चैतन्यं भूतकार्यं चेत्कायवत्तिष्ठतां चितिः |
चितिवन्नश्यतां यद्वा कायोऽयं हेतुनाशतः || २१९ ||
जाग्रच्छरीरवच्चेत्स्यात्स्वप्नकायोऽपि भूततः ||
सत्यभूतैकहेतुत्वान्मिथ्यात्वंं तस्य किंकृतम् || २२० ||
सत्यो वा यदि वा मिथ्यां स्वप्नदेहोऽभ्युपेयते |
चितेरव्यभिचारित्वात्तथाऽपीष्टं प्रसिध्यति || २२१ ||
तस्मान्नृहस्तिदेहादौ जाग्रत्स्वप्नादिभूमिषु |
भिन्नः शरीरतः सिद्धः प्रमाता प्रत्यभिज्ञया || २२२ ||
देशकालवयोजातिरूपशक्त्यादिभेदतः |
देहे न प्रत्यभिज्ञा स्याज्जाते स्मर्तरि युज्यते || २२३ ||
अनुग्राह्यसजातीयं न च प्रत्यक्षमानिनः |
ज्योतिः साधयितुं युक्तमनुमानद्विषः सतः || २२४ ||
सजातीयगिरा चात्र भवता किं विवक्षितम् |
सामान्यमथवा व्यक्तिर्यदि सामान्यमुच्यते || २२५ ||
सजाति नास्ति सामान्यमनवस्था तथा सति |
निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः || २२६ ||
भौतिकत्वेन चेज्ज्योतिर्देहानुग्राहकं मतम् |
देहेऽपि तस्य सद्भावान्नापेक्ष स्यात्तदा रवौ || २२७ ||
विशेषश्चेदपेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते |
नानुग्राह्यसजातित्वं तस्यानुग्राहकत्वतः || २२८ ||
देहात्स्याद्भिन्नजातीयं वस्तु देहावभासि यत् |
विवादगोचरापन्नं भास्वरत्वाद्रवीन्दुवत् || २२९ ||
नानुग्राह्यसजातीयं नाप्यनुग्राहकं तथा |
घटो घटं रविर्वेन्दुं नानुगृह्णाति कुत्रचित् || २३० ||
सजातीयासजातीयैर्देहोपकृतिरिष्यते |
क्ष्माबग्निवायुभिः साक्षान्नातो नियम इष्यते || २३१ ||
विजातीयोपकारश्चेद्भवता नाभ्युपेयते |
चतुर्भूतात्मको देह इत्येतत्कथमुच्यते || २३२ ||
अभावोऽप्युपकुरुते लोकेऽस्मिन्भाववद्यतः ||
नातोऽनुग्राहकत्वादिनियमोऽयं समञ्जसः || २३३ ||
पार्थिवैः पार्थिवस्याग्नेरुपकारो यथेन्धनैः |
वैद्युतस्य तथैवाद्भिरुपकारः समीक्ष्यते || २३४ ||
अद्भिः काष्ठैश्चोपकारः पावकस्यैव वीक्ष्यते |
अग्न्यम्बुभिश्च शमनं तथाऽग्नेरेव दृश्यते || २३५ ||
सजातीयासजातीयनियमोऽतो न युज्यते |
उपकारापकारत्वे पूर्वोक्तेनैव वर्त्मना || २३६ ||
यच्चाप्यक्षैरनैकान्त्यं हेतोरभिहितं पुरा |
तच्चाप्यसत्त्वयाऽभाणि धर्मित्वेन परिग्रहात् || २३७ ||
सेन्द्रियस्यास्य देहस्य पुरुषोक्त्या परिग्रहात् |
न ह्येकदेशः साध्यस्य दृष्टान्तत्वाय कल्पते || २३८ ||
लिङ्गस्य मात्वसंसिद्धौ दूषणं दूषणं भवेत् |
विशेषेऽनुगमाभाव इत्यादि यदुदीरितम् || २३९ ||
सामान्येतररूपत्वात्साध्यस्याग्न्यादिरूपिणः |
अपि दोषद्वयं न स्यादेकरूपे हि शङ्क्यते || २४० ||
न चेन्द्रियाणि ते सन्ति प्रत्यक्षैकप्रमाणिनः |
अनुमानादृते तेषां संसिद्धिर्नेष्यते यतः || २४१ ||
ग्राहकग्रहणग्राह्यभावाभावविभागवित् |
स्वार्थमन्यानपेक्षं सच्चैतन्यं नाक्षमानगम् || २४२ ||
न च तद्भावभावित्वं व्यतिरेकाप्रसिद्धितः |
देहाभावे ह्यभावोऽस्याश्चितेः स्यात्किंप्रमाणकः || २४३ ||
अनुमानाप्रमाणत्वं न प्रत्यक्षेण साध्यते |
लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता || २४४ ||
त्वदशेषप्रवृत्तीनां निरोधश्च प्रसज्यते |
लिङ्गस्येहाप्रमाणत्वे निश्चेष्टं स्याज्जगत्तथा || २४५ ||
वागाभिव्याहृतिश्चेयमपि ते न प्रसिध्यति ||
नैवाऽऽत्मप्रतिपत्त्यर्थं भारत्युच्चार्यते त्वाया || २४६ ||
विवादगोचरापन्ना प्रमाणमनुमेष्यताम् |
अनुमानत्वतो लिङ्गाद्दूषणानुमितिर्यथा || २४७ ||
खद्योतादिप्रकाशस्य यच्चानित्यत्वमुच्यते ||
पक्षादिव्यवधानत्वात्तच्चास्माकं न तान्प्तति || २४८ ||
भावाभावग्रहो नापि सिध्येत्प्रत्यक्षमानतः |
विद्यमानार्थसंबन्धात्प्रत्यक्षस्येह सर्वतः || २४९ ||
अथाभावोऽपि तद्गाह्य इति चेदभिधीयते |
प्रत्यक्षाभावसंसिद्धौ किं प्रमाणमितीर्यताम् || २५० ||
प्रमातृमानाभावोऽपि भवता प्रतिपाद्यते |
यद्भावेऽपि न यन्मानं तदभावेऽपि तत्कथम् || २५१ ||
व्यावर्तते स्वभावश्चेदित्येतदतिदुर्घटम् |
स्वभावो वस्तुनस्तत्त्वं तत्त्वात्तत्त्वं न हीयते || २५२ ||
धर्मादेः फ़लदातृत्वं स्वभावोऽवश्यमेव तत् |
अभ्युपेयस्त्वयाऽपीह यथा तदपि मे शृणु || २५३ ||
क्रियातः स्तुतिनिन्दादेः सुखदुःखादिलक्षणम् |
धर्माधर्मफ़लं साक्षात्प्रत्यक्षेणानुभूयते || २५४ ||
आगमैकप्रमाणत्वात्कथं धर्माद्युदाहृतिः |
अथाभ्युपगमाद्युक्तं वेदाभ्युपगतिस्तथा || २५५ ||
मानान्तराभ्युपगमाद्भवतश्च तथा सति |
स्वसिद्धान्तविरोधोऽयं बलादायात्यनीप्सितः || २५६ ||
दग्धृत्वादिस्वभावोऽग्नेः शक्तिश्चेद्भवतोच्यते ||
प्रत्यक्षात्तदसंसिद्धेर्विरोधस्तेऽनुमाश्रितेः || २५७ ||
मदभ्युपगमो यद्वद्भवतोऽपि तथा यदि || ||
सर्वमानाभ्युपगमान्न किंचिन्नोऽस्ति दुःस्थितम् || २५८ ||
त्वदभ्युपगमार्थाय यत्नोऽयं क्रियते मया |
अभ्युपेतो मदुक्तश्चेत्सिद्धं नः स्यात्प्रयोजनम् || २५९ ||
अनवस्थेति योऽप्युक्तः सोऽपि दोषो निराकृतः |
सर्वमानाभ्युपगमान्नानवस्था ततो बलात् || २६० ||
देहादिव्यतिरिक्तोऽत आत्मा सिद्धो यथोदितः |
आदित्याद्यसजातीयः पूर्वाक्तादनुमानतः || २६१ ||
दर्शनादिक्रियावांश्चेद्देह एवाभ्युपेयते |
दृष्टस्यैव स्मृतौ न स्यात्स्वप्ने चार्थस्य दर्शनम् || २६२ ||
बाह्यादित्यादिविरहे करणव्यापृतिं विना ||
जाग्रद्वद्वीक्षते स्वप्ने दृष्टपूर्वं यतो नरः || २६३ ||
सामग्र्या स यया पूर्वमद्राक्षीच्छिखरं गिरेः |
तया विनैव स्वप्ने तदात्मा पूर्ववदीक्षते || २६४ ||
उत्खातनयनश्चायमनुत्खाताक्षवद्धटम् |
स्वप्ने समीक्षते नात आत्मनोऽन्यः प्रपश्यति || २६५ ||
ततश्चैतद्भवेत्सिद्धं यः स्वप्ने कुम्यमीक्षते |
विचक्षुः प्रागपि घटं स एवैक्षिष्ट चक्षुषा || २६६ ||
मृतौ चाविकलस्यैव दर्शनादेरसंभवात् |
न स्याद्देहस्य तच्चापि देहो द्रष्टा भवेद्यदि || २६७ ||
नेक्षितृत्वेऽक्षबुद्ध्यादेः प्रत्यभिज्ञोपपद्यते |
न भिन्नद्रष्टृकं यस्मात्प्रतिसंधानमर्हति || २६८ ||
यमद्राक्षं पुरा कुम्भं तमेवाद्य स्पृशाम्यहम् |
इत्येतत्प्रतिसंधानं न भिन्नद्रष्टृकं भवेत् || २६९ ||
प्रतिसंधानकृत्तर्हि मनः संस्कारसंश्रयात् ||
नैवं तस्यापि मनसो विषयत्वेन दर्शनात् || २७० ||
शब्दादिखचितं साक्षात्स्मृतिस्वप्नगतं मनः |
कुम्भवद्वीक्ष्यते यस्मान्नात आत्मा मनोऽपि नः || २७१ ||
भावाभावौ प्रमात्रादेस्तद्विलक्षणरूपभृत् |
प्रत्यक्समीक्षते नित्यं नातो द्रष्टृ भवेन्मनः || २७२ ||
योग्यत्वं चास्य देहस्य प्रत्यक्षैकप्रमाणकम् |
प्रत्यक्षाप्रमितं कस्माद्भोक्तृत्वं तस्य कल्प्यते || २७३ ||
अयंरूपेण भोग्योऽर्थो ह्यहंरूपेण भोजकः |
विरुद्धरूपौ प्रत्यक्षाद्नम्येते भोज्यभोजकौ || २७४ ||
इत्यलं शुष्कतर्कोत्थवाङ्भात्राक्षेपदूषणैः |
पुंसां पुमर्थसिद्ध्यर्थं प्रक्रान्तमभिधीयते || २७५ ||
आत्मैवास्येत्युपश्रुत्य पूर्वात्तरविरुद्धताम् |
आशङ्क्य जनकोऽप्राक्षीदात्माऽयं कतमो न्विति || २७६ ||
देहादिसंहतावस्यामात्मेति ह्यभिधाधियौ |
सुप्रसिद्धे जगत्यस्मिन्नायोषिद्वालपण्डितम् || २७७ ||
पंव्यापारस्य संबन्धो देहादिव्यतिरेकिण ||
ज्योतिषाऽनात्मना पूर्वं लिङ्गेन प्रतिपादितः || २७८ ||
आत्मैवास्येति वचनात्पूर्वोत्तरविरोधतः |
संजातसंशयो राजा याज्ञबल्क्यमपृच्छत || २७९ ||
अर्थान्तरं चेद्देहादेरात्मज्योतिर्विवक्षितम् |
पूर्वोत्तरविरोधोऽयं तदा नैवेह ढौकते || २८० ||
आत्मशब्दश्च लोकेऽस्मिन्प्रसिद्धोऽनेकवस्तुषु |
साक्षिबुद्धिशरीरान्तेष्वात्मबुद्धिसमन्वयात् || २८१ ||
डतच्प्रत्ययस्तस्माद्बह्वर्थस्यात्र संभवात् |
कतमो भवताऽऽत्मेति ज्योतिष्ट्वेन विवक्षितः || २८२ ||
इति पृष्टोऽनुमानेनाविरुद्धं प्रत्यपीपदत् |
आत्मज्योतिः सुविस्पष्टं राजानं योऽयमित्यतः || २८३ ||
भान्वादिज्योतिषा तावद्व्यवहर्तुरनुग्रहः |
कुष्णसारादिदेशेषु स्वान्तस्यानुग्रहस्ततः || २८४ ||
मनःप्रधानः संघात आत्मचैतन्यबिम्बितः |
अभिव्यक्तस्मृतिः सोऽथ बाह्यां चेष्टां प्रपद्यते || २८५ ||
पिण्डस्तवदिहाऽऽत्मैको द्वितीयो लिङ्गसंज्ञितः |
चिद्विम्बितावधिश्चान्यश्चतुर्थो नेति नेति यः || २८६ ||
बाह्यान्तर्ज्योतिषोर्मध्ये देहो बुद्ध्यादिसंहतः |
वर्तते वाङ्भनःकायक्रियाकारी सुखादिमान् || २८७ ||
भान्वादिज्योतिषा सोऽयं सम्यक्संदीपितेक्षणः |
तद्दूरेद्धमनाः स्मृत्वा बाह्यांचेष्टां प्रपद्यते || २८८ ||
धर्माधर्मसमुत्थोऽस्थ बाह्यज्योतिरनुग्रहः |
हेत्वन्तरानपेक्षस्तु प्रत्यग्ज्योतिरनुग्रहः || २८९ ||
देहैकदेश एवास्य देवतानुग्रहस्ततः |
कृत्स्नाध्यात्माधिदैवादावात्मज्योतिरनुग्रहः || २९० ||
न तत्र सूर्यो भातीति तथाचाऽऽर्थर्वणे वचः |
यथा प्रकाशयत्येक इति चाप्यैश्वरी स्मृतिः || २९१ ||
अस्थास्नुत्वाच्च धर्मादेः प्रयोज्यं साधिदैवतम् ||
अध्यात्ममधिभूतं च तेनास्थास्न्वात्मसाक्षिकम् || २९२ ||
बाह्यज्योतिरभावेऽतो वाङ्भानःकायहेतुके |
स्वप्नादिव्यवहारेऽस्मिञ्ज्योतिरात्मैव नापरम् || २९३ ||
देहेन्द्रियमनोबुद्धिव्यतिरेकप्रसिद्धये |
योऽयमित्युच्यते प्रत्यग्ज्योतिषो भानुवद्वचः || २९४ ||
स्वयंप्रमाणकस्तावत्साक्ष्यन्तोऽर्थो व्यवस्थितः |
भावाभावौ प्रमात्रादेस्तत्प्रसादात्प्रसिध्यतः || २९५ ||
तदाभासानुविद्धेन प्रमात्राऽहंवपुर्भुता |
प्रमाणादेः प्रसिद्धिः स्यान्मेयस्यापि प्रमाणतः || २९६ ||
प्रमाणव्यापृतिफ़लप्रसिद्धिश्च प्रमातरि |
अवगत्यवसाना स्यात्प्रमातुः प्रत्यगात्मनि || २९७ ||
यतोऽवगतिरेवात्र प्रमात्रादिविशेषणा |
साक्षात्प्रमाफ़लं न्याय्यं प्रत्यगात्मैकसाक्षिकम् || २९८ ||
प्रत्यक्चिदाकृतिर्बुद्धौ मेयार्थाकृतिवत्स्थिता |
बुद्धिः कारणसंस्थैव कृत्स्नव्यवहृतिक्षमा || २९९ ||
यः पृष्टः स पराग्वृत्तिप्रमामेयातिलङ्घितः |
प्रत्यक्षेणैव मानेन त्वयमित्यभिधीयते || ३०० ||
पराञ्चीति च मन्त्रोक्तिः साक्षादात्मेति च श्रुतिः |
पराङ्भानाप्रमेयत्वमात्मनः प्रत्यबूबुधत् || ३०१ ||
कुम्भाकारेण कुम्भार्थो यथा प्रत्यक्ष ईक्ष्यते |
विज्ञानेन तथा प्रत्यङ्ङात्माकारेण गृह्यते || ३०२ ||
घटासामान्यरूपोत्थप्रत्यक्षैकप्रमाणकः |
घटार्थोऽव्यभिचारित्वात्तयोर्मानप्रमेययोः || ३०३ ||
आत्मासाधारणात्मोत्थभास्वचैतन्यरूपिणा |
प्रत्यक्षेणेक्ष्यते नित्यमात्मनाऽऽत्मा त्वकारकः || ३०४ ||
अनात्माकारमानेषु ह्यन्योन्यव्यभिचारिषु |
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान् || ३०५ ||
यत एवमतः प्रत्यक्प्रत्ययेनोपदिश्यते |
तदन्यधीगृहीतौ स्याद्यतोऽनात्मत्वमात्मनः || ३०६ ||
अपास्तान्यव्यपेक्षं चेदात्मदृष्ट्या समीक्षितम् |
जगदात्मैव कृत्स्नं स्यान्न ह्यज्ञातोऽवशिष्यते || ३०७ ||
अयमित्यभिधायोग्यबहोरर्थस्य संनिधिः |
विज्ञानमय इत्युक्तिस्तदवच्छित्तये येतः || ३०८ ||
विज्ञानमय इत्यस्माद्व्यपदेशान्निवर्तते |
ज्योतिरात्मा जडाद्देहात्तस्याचैतन्यरूपतः || ३०९ ||
विज्ञानमित्यनेनात्र बुद्धिरेवाभिधीयते |
बुद्ध्युपाध्यविविक्तश्च विज्ञानमय उच्यते || ३१० ||
बुद्धिविज्ञानसंपृक्तो यस्मादेष प्रमीयते |
राहुवच्चन्द्रसंपृक्तः प्रत्यग्ज्ञानमयस्ततः || ३११ ||
द्रष्टृत्वाद्यभिसंबन्धोऽकारकस्यापि सर्वदा |
बुद्धियोगकृतोऽतोऽयं विज्ञानमय उच्यते || ३१२ ||
आत्मानात्मावबोधाय यतो धीरेव कारणम् |
सर्वार्थकरणं साऽतो दीपो ध्वान्ते यथा तथा || ३१३ ||
विज्ञानालोकसंपृक्तं मेयं वस्त्वखिलं यतः |
विजानाति मयट्तस्मात्प्रायार्थोऽत्रावसीयते || ३१४ ||
यावाल्ल्युडर्थस्तेनायं तदविद्यैकहेतुतः |
अविशिष्टो मतो यस्मात्तदाभासैकवर्त्मना || ३१५ ||
विज्ञानमय इत्येवं तस्मादात्माऽभिधीयते |
सर्वधीवृत्तिसाक्षित्वात्तादात्म्याच्चाप्यनात्मनः || ३१६ ||
सर्वार्थग्रहणं तस्मात्पुरोवस्थितदीपवत् |
प्रधानं करणं बुद्धिर्द्वारमात्रं ततोऽपरम् || ३१७ ||
व्याचख्युर्मयटं ये तु विकारार्थे महाधियः ||
स्वव्याख्यानविरोधः स्यात्तेषां चानर्थसंगतिः || ३१८ ||
आत्मनश्चापि निःशेषविकारप्रतिषेधतः |
न जायत इति स्पष्टं श्रुतिमन्त्रोक्तिसंश्रयात् || ३१९ ||
अनिर्मोक्षप्रसक्तिश्च विकारश्चेत्परात्मनः |
मयण्नातो विकारे स्यात्प्रायार्थस्त्वत्र युज्यते || ३२० ||
यदि वाऽज्ञानतस्तस्य विकारो जगदिष्यते |
रज्ज्वाः सर्पादिको यद्वन्न तथा दोष इष्यते || ३२१ ||
विज्ञानमय इत्यत्र वाक्ये प्रायार्थतेष्यते |
पृथिव्यादिमयोऽप्यात्मा यस्मादूर्ध्वं प्रवक्ष्यते || ३२२ ||
संदिह्यमानः सर्वत्र पदार्थोऽन्यत्र निश्चितात् ||
प्रयोगात्सुविनिश्चेयो न्यायाद्वाऽत्यन्तनिश्चितात् || ३२३ ||
देहादिवेन्द्रियेभ्योऽपि व्युत्थापनचिकीर्षया |
प्राणेष्विति श्रुतिर्वक्ति प्राणाः पञ्चदशोदिताः || ३२४ ||
तेभ्योनिर्धारणार्थाय सप्तमीयं प्रयुज्यते ||
प्राणेषु योऽर्थोऽनुगतः स आत्मेत्यवधार्यताम् || ३२५ ||
प्राणेष्वात्मीयरूपेषु प्रत्यकत्वेनावभाति यः |
स एवाऽऽत्मेति विज्ञेयस्तेषु सर्वेष्वनात्मसु || ३२६ ||
मतं प्राणसजातीया धीरेवाऽऽत्मेति चेन्न तत् |
यतो धीव्यतिरेकार्थं हृदीति श्रुतिरभ्यधात् || ३२७ ||
हृच्छब्देन च धीरेव तात्स्थ्यादत्राभिधीयते |
स्वार्थस्तस्यां य आभाति स आत्मा बुद्धिवृत्तिदृक् || ३२८ ||
हृदीत्याधारनिर्देशाद्धीस्था आत्मेति शङ्क्यते |
वृत्तयोऽतो निवृत्त्यर्थमन्तिरित्युपदिश्यते || ३२९ ||
देवताविषयप्राणबुद्धितद्वृत्तितः परः |
प्रत्यक्तया यः प्रथते ज्योतिरात्मा स ईक्ष्यताम् || ३३० ||
ग्राहकग्रहणग्राह्यरूपोऽनात्मा प्रवाहवान् |
बुद्ध्यादिर्विषयान्तोऽर्थो यत्साक्षिक इवेक्ष्यते || ३३१ ||
भूत्वाऽभवंस्तथाऽभूत्वा भवंश्चेहातथात्मना |
अज्ञातोऽलुप्तदृष्टिर्यः स आत्मा ज्योतिरुच्यते || ३३२ ||
आगमापायितामिद्धिर्बुद्ध्यादेर्यत्समाश्रयात् ||
साक्षादात्मेति तं पश्य प्रत्यग्दृष्ट्यैकमात्मनि || ३३३ ||
परागर्थानुसारिण्यो यतो धीवृत्तयस्ततः |
विशेषणादन्तरिति व्यावर्त्यन्ते पराक्त्वतः || ३३४ ||
कारणं तर्हि बुद्धध्यादेरात्मेत्यत्र प्रसज्यते |
कार्यस्यान्तर्यतो दृष्टं सर्वत्रैव च कारणम् || ३३५ ||
जाड्यं चाऽऽत्मन इच्छन्ति कणभुङ्भतजीविनः |
तेषां विप्रतिषेधार्थं ज्योतिरित्यभिधीयते || ३३६ ||
योऽयमित्यादिना यद्वा यथोक्तस्याऽऽत्मवस्तुनः |
प्रकृतज्योतिःसंवन्धो ज्योतिरित्यभिधीयते || ३३७ ||
उपादानं हि बुद्ध्यादेरात्माविद्येति भण्यते |
सकृद्विभातं चिन्मात्रं ज्योतिरित्युपदिश्यते || ३३८ ||
वस्तुवृत्तेन प्रध्वस्तनिः शेषाज्ञानमात्मनः |
ज्योती रूपमिदं भास्वत्प्रत्यङ्भात्रसतत्त्वकम् || ३३९ ||
ज्योतिः संविच्चितिः प्रत्यङ्ङात्मेति व्यपदिश्यते |
स्वार्थं यत्प्रथते नित्यं जाग्रत्स्वरप्नसुषुप्तिषु || ३४० ||
बुद्ध्यादिषु पारर्थेषउ ह्यागमापायिवस्तुषु |
स्वयं रूपेण यो भाति स्थास्रुः स्वार्थः स भण्यते || ३४१ ||
ज्योतिरित्यस्य बुद्ध्यादेरागमापायसिद्धिदः |
स्वयंमातृक एवायमात्मत्वादेव कारणात् || ३४२ ||
अनेनैव यथोक्तेन ज्योतिषा सकलं जगत् |
षड्भावविक्रियामेति निर्विकारेण भास्वता || ३४३ ||
अचेतनोऽपि बुद्ध्यादिश्चेतनावानिवेक्ष्यते ||
देहेन्द्रियमनोबुद्धिसंघातो वायुभिः सह || ३४४ ||
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति स्मृतेर्वचः || ३४५ ||
आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः |
परीक्षणाय प्रक्षिप्तः कुर्यादात्माल तथैव च || ३४६ ||
बुद्ध्यादिदेहपर्यन्तं प्रत्यगज्ञानहेतुकम् |
जडस्वभावकं नित्यमवभासयति स्वयम् || ३४७ ||
बुद्ध्यादिष्वपि सूक्ष्मेषु यत्सूक्ष्मतममुच्यते |
बुद्ध्यादिकारणं नित्यमात्माविद्येति भण्यते || ३४८ ||
अपि कूटस्थवपुषः प्रतीचः सङ्गकारकम् |
तत्त्वमस्यादिवाक्योत्थज्ञानबाध्यं च यद्विदुः || ३४९ ||
यन्निमित्तं च साक्षित्वं कारणत्वं तथाऽऽत्मनः |
सर्वकार्यविनाशेऽपि यद्बीजमवशिष्यते || ३५० ||
तदात्मज्योतिषेद्धं सन्नित्यमेवावतिष्ठते |
उत्पत्तिस्थितिभङ्गानां न वेद्मीति च साक्षितः || ३५१ ||
कूटस्थ एव साक्ष्यत्र स्वमोहाभासहेतुतः |
अविचारितसंसिद्धि तमोऽनुभवसंश्रयात् || ३५२ ||
निःसाक्षिके न वेद्मीति न कथंचित्प्रसिध्यति |
तथा कूटस्थसंवित्के नितरां नैतदिष्यते || ३५३ ||
ऐश्वर्यं कारणत्वं च साक्षित्वमपि चाऽऽत्मनः |
सदेशितव्यकार्यार्थसाक्ष्यार्थेनास्य संगतेः || ३५४ ||
आत्माज्ञानमतः प्रत्यक्चैतन्याभासवत्सदा |
आत्मनः कारणत्वादेः प्रयोदजकमिहेष्यते || ३५५ ||
चैतन्याभासवत्प्रत्यङ्भोहान्तात्प्रत्यगात्मनः |
बुद्ध्यादेर्विषयान्तस्य सिद्धिः स्यात्साक्षिणस्ततः || ३५६ ||
स्वकारणाभिसंबन्धाच्चैतन्याभासता धियः |
जायतेऽतोऽभिमानोऽस्यां जायते महतामपि || ३५७ ||
कारणानन्तरत्वाच्च तथा स्वच्छस्वभावतः |
चैतन्याभासवत्येषा धीः पूर्वमभिजायते || ३५८ ||
तस्मादात्माभिमानो हि बुद्धौ जनिमतां सदा |
जायते सर्वभूतानामपि सर्वविदामिह || ३५९ ||
चिदाभासोऽथ मनसि बुद्ध्यानन्तर्यकारणात् |
मनःसंबन्धतश्चैवमिन्द्रियष्वभिजायते || ३६० ||
मनःकरणसंबन्धाद्देहेऽप्यस्योपजायते |
एवमाभासयत्यात्मा कृत्स्नं कार्यं सकारणम् || ३६१ ||
सौक्ष्म्यस्य तारतम्येन स्थितस्य विषयावधि |
आत्माभिमानधीः पुंसां जायते नियता ततः, || ३६२ ||
नित्योऽनित्यानामिति च येन सूर्यस्तथा परः |
नतत्र सूर्यो भातीतिमन्त्राम्नायो ह्यनेकशः || ३६३ ||
आत्मन्येवं प्रबुद्धेऽस्मिञ्ज्योतिषि ध्वान्तनाशतः |
सर्वस्यैवाऽऽत्मयाथात्म्यादात्मा पुरुष उच्यते || ३६४ ||
आत्माज्ञानसमुच्छित्तौ तज्जस्य न हि वस्तुनः |
प्रत्यग्रूपात्पृथग्रूपं संभाव्यं केनचित्कचित् || ३६५ ||
स्रगज्ञानसमुच्छितौ न तज्जस्यान्यतः स्रजः |
रूपं संभाव्यतेऽह्यादेरेवमात्मस्वरूपतः || ३६६ ||
न कार्ये कारणे वाऽपि तदभावेऽथवाऽन्यतः |
प्रत्यङ्भात्रैकयाथात्म्याद्रूपं संभाव्यतेऽण्वपि || ३६७ ||
अव्यावृत्ताननुगतप्रत्यङ्भात्रावशेषतः |
पूर्णत्वात्पुरुषो ज्योतिरात्मैवैकोऽभिधीयते || ३६८ ||
सद्भावेऽपि च भान्वादेः पारार्थ्याद्देहवन्न तत् |
स्वार्थस्य ज्योतिषोऽभावे भावत्वायापि च क्षमम् || ३६९ ||
देहादेर्व्यापृतिश्चेत्स्याज्जडादित्यादिहेतुतः |
भवेन्निःसाक्षिकैवेयमन्धकारप्रनृत्तवत् || ३७० ||
स्वार्थात्मज्योतिषैवातो भावाभावात्मतां जगत् |
लभते तमृते यस्मान्नेयात्संभावनामपि || ३७१ ||
यदेतद्धृदयमिति तथाचाऽऽगमशासनम् |
प्राणिव्यवहृतिः सर्वा प्रत्यगात्माभिमानतः || ३७२ ||
सर्वाभिमानहेतुं च चिदाभासं पुराऽब्रवम् |
सम्यङ्भारकतदृष्टान्तदर्शनेनाऽऽत्मवस्तुनः || ३७३ ||
यद्यप्येमिदं वस्तु यथोक्तमहिमं परम् | तथाऽपि तज्जागरिते शक्यं दर्शयितुंन तु || ३७४ ||
आत्मबुद्धिमनश्चक्षुर्विषयालोकसंकरात् |
जाग्रद्भूमौ न तच्छक्यं ज्योतिर्दर्शयितुं ततः || ३७५ ||
स्वप्ने बुद्ध्याद्युपरतौ वासनामात्रशेषतः |
ज्योतिर्दर्शयितुं शक्यं स समान इतीर्यते || ३७६ ||
कछं चैवंस्वभावस्य तदज्ञानजभूमिषु |
व्यवहारः प्रतीचोऽस्य स समानाद्यतो वचः || ३७७ ||
ज्योतिर्भ्यो देहतो लिङ्गाद्बुद्ध्यन्ताच्चातिरेकतः |
योऽञ्जसा दर्शितस्तस्य विशुद्ध्यै वोत्तरं वचः || ३७८ ||
स्वयंज्योतिः शरीरादेर्बुद्ध्यन्तादनुमानतः |
निष्कृष्याभिहितो योऽत्र स समानः स्वमोहतः || ३७९ ||
समान एकः सन्नात्मा स्वात्माविद्यातदुद्भवैः |
अज्ञानमिथ्याविज्ञातप्रत्यक्त्वादात्मवस्तुनः || ३८० ||
केनैक इत्यपेक्षायां हृदयेनेति भण्यते |
सधीरिति श्रुतेरत्र हृदीति प्रकृतत्वतः || ३८१ ||
अविचारितसंसिद्धि यत्तु बुद्ध्यादिकारणम् |
कूटस्थात्मैकचैतन्यबिम्बितं सत्स्वदोषतः || ३८२ ||
स्वात्माविद्यावधिः सोऽयं परः कारणमुच्यते |
साक्षी चेता जगद्बीजमन्तर्यामीति च श्रुतौ || ३८३ ||
बुद्ध्यादिकार्यसंस्थस्य कूटरथासङ्गरूपिणः |
सर्वं स्यात्कारणत्वादि तदाभासैकवर्त्मना || ३८४ ||
चैतन्याभासवपुषा कूटस्थैकत्वमिष्यते |
कारणस्य स्वकार्यैश्च तदबोधसमन्वयात् || ३८५ ||
प्रतीचोऽनवशेषेण कार्यकारणसंगतिः |
तयोस्तु सावशेषेण प्रतीचा संगतिस्त्वियम् || ३८६ ||
नाऽऽत्मत्वाद्व्यतिरेकोऽस्य कार्यकारणभूमितः |
न सामान्यं विशेषो वा कार्त्स्न्यादात्मा ततो भवेत् || ३८७ ||
अनात्मनस्तु या सिद्धिः सा सर्वाऽव्यतिरेकतः |
जाड्यात्सापेक्षतः साऽतो मृषासिद्धिरुदाहृता || ३८८ ||
किं पुनः स्यात्समानत्वमात्मबुद्ध्यादिवस्तुनोः |
विवेकतोऽननुभवो वराहोरगवत्तयोः || ३८९ ||
यत्तत्तयोः समानत्वं रज्जुसर्पादिवन्मतम् |
आत्माविद्यैव संबन्धस्तस्मादात्मन इष्यते || ३९० ||
अकारकस्वभावस्य परमार्थात्मवस्तुनः |
अविद्याकल्पितैव स्यात्संगतिः खेऽसितादिवत् || ३९१ ||
कूटस्थात्मचिदाभेदऽस्य प्रत्यग्ध्वान्ते हि तद्भवैः |
विषयान्तैर्भवेद्भान्तिः सामानाधिकरण्यतः || ३९२ ||
विकारिणः प्रकाशस्य नीलरक्तादिसंगतेः |
नीलादिविक्रिया युक्ता परिणामस्य न त्वसौ || ३९३ ||
परिणामो हि मोहादेश्चिदाभासः सदेष्यते |
परिणामान्तरप्राप्तिस्तस्यापीति न युज्यते || ३९४ ||
सुखिदुःखित्वसाक्षित्वं दुःस्थितं स्यात्तथा सति |
सुखाद्यनुगमात्तस्य व्यतिरेकः सुदुर्लभः || ३९५ ||
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः |
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः || ३९६ ||
परिणाम्यात्मनोऽप्येवं कूटस्थावगतेरिव |
न युक्तः परिणामोऽयं लौकिकस्यापि नेष्यते || ३९७ ||
धीस्वान्तेन्द्रियसंघाते चिदाभासैकवर्त्मना |
सर्वात्मकत्वं संयात आत्माऽविद्यावशादतः || ३९८ ||
समानः कारणात्मा वा यत्र सर्वोपसंहृतिः |
कारणात्मा हि संवर्त्य कार्यात्मत्वं प्रपद्यते || ३९९ ||
अपेक्षाज्ञानमात्रैकहेतूत्थानत्वकारणात् |
न कार्ये कारणे वाऽतो वस्तुतत्त्वं समीक्ष्यते || ४०० ||
अन्वयव्यतिरेकाभ्यां नातो वाक्यार्थबोधनम् |
वस्तुतत्त्वावसायोऽतो वाक्यादेव प्रमाणतः || ४०१ ||
अतः सर्वविकल्पानामविद्यामात्रहेतुतः |
विषयत्वं समापेदेऽविकल्पोऽपि स्वतः परः || ४०२ ||
समान एव सल्लोकौ प्राप्तप्राप्तव्यलक्षणौ |
अनुक्रमेणाविद्यावान्सदा संचरतीश्वरः || ४०३ ||
देहेन्द्रियाद्युपादानत्यागसंतानलक्षणः |
प्रबन्धशतसंपातैः संचरत्येष न स्वतः || ४०४ ||
कार्यैकनीडमेवास्य चिदाभासैकहेतुतः |
संसारित्वं यतो नातः स्वतः संसारिताऽऽत्मनः || ४०५ ||
अकार्यकरणोऽप्यात्मा बुद्धिप्राणादिहेतुगः |
अविद्यया चिदाभासः संसारीवावभासते || ४०६ ||
असंभवः स्वतो यस्मात्तदबोधाच्च संभवः |
क्रियाकारकरूपस्य तस्माच्छ्रुत्याऽभिधीयते || ४०७ ||
क्रियाकारकरूपस्य मिथ्यात्वं प्रत्यगात्मनि |
ध्यायतीत्यादिवाक्येन प्रत्यक्कौटस्थ्यवित्तये || ४०८ ||
ध्यायतीव स कौटस्थ्यात्तथा लेलायतीव च |
ध्यानादिकारिसाक्षित्वान्नाऽऽत्मा ध्यानादिकार्यवान् || ४०९ ||
निःशेषबुद्धिवृत्तीनां ध्यानं स्यादुपलक्षणम् |
लेलायनं क्रियाणां च सर्वासामुपलक्षणम् || ४१० ||
ध्याता ध्यानं तथा ध्येयं त्रयं स्वात्मैकसाक्षिकम् |
करणं कर्म कर्ता च नातो ध्यात्रादिसाक्षिणि || ४११ ||
बोद्धुः कर्तुश्च संबन्धो ज्ञानेन क्रियया यथा |
कूटस्थसाक्षिसंबन्धो बोद्घृकर्त्रोस्तथैव च || ४१२ ||
सर्वस्य प्रत्यगात्मत्वात्कूटस्थैकचिदात्मनः |
अतोऽस्यानभिसंबन्धः सर्वप्रत्यक्त्वहेतुतः || ४१३ ||
एकनीडत्वहेतूत्था साक्षिणः साक्ष्यसंगतिः |
न तु मोहोन्थचिद्बिम्बहेतुवृत्तव्यपेक्षया || ४१४ ||
कूटस्थात्मैकहेतूत्थचिद्विम्बो मोहगस्तु यः |
स्वोपादानानुरोधित्वात्केनचिन्नास्य संगतिः || ४१५ ||
चिदाभासाश्रयाज्ञानात्कार्यसंगतिहेतुतः |
स्वाभासान्तः परोऽप्यात्मा ध्यायतीवेति वीक्ष्यते || ४१६ ||
प्रत्यङ्भोहैकमात्रोत्थं ध्यानलेलायनादिकम् |
तन्मिथ्याप्रतिपत्त्यर्थमिवोति व्यपदिश्यते || ४१७ ||
अभ्रयानं यथाऽज्ञानाच्छशभृत्यध्यवस्यति |
क्रियाकारकवद्बुद्धिं तथा तत्साक्षिणीक्षते || ४१८ ||
धर्मधर्म्यभिसंबन्धान्यथा मोहैकसंश्रयात् |
अस्पृशन्नपि नीलं खमिति संभावयेत्तथा || ४१९ ||
आत्मप्रत्ययगम्येऽर्थे निष्क्रियेऽकारकेऽफ़ले |
क्रियाकारकवद्वस्तु संभावयति तज्जडः || ४२० ||
तस्मात्संभावनामात्रः संसारः प्रत्यगात्मनि |
उक्तेऽर्थे संशयश्चेत्स्यात्प्रत्यग्दृष्ट्या समीक्ष्यताम् || ४२१ ||
आत्ममात्रावसायित्वान्नानात्मार्थस्पृगीक्ष्यते |
आत्मधीरात्मसंबन्धो नातोऽनात्मन ईक्ष्यते || ४२२ ||
ससमानोक्तिसंबन्धमन्यथाऽन्ये प्रकुर्वते |
धीमनश्चक्षुरादीनि भिन्नरूपाणि सर्वथा || ४२३ ||
नानाज्योतींषि सिद्धानि संहतानि मिथस्तथा |
विलक्षणानामपि सतां सामान्यं संहतात्मनाम् || ४२४ ||
सालक्ष्ण्येऽपि च सति बुद्धेरेव विलक्षणः |
भोक्तृत्वं नाम धर्मः स्याच्चक्षुषो दर्शनं यथा || ४२५ ||
बुद्ध्यादिव्यतिरेकोऽयं नैवं सत्युपपद्यते |
प्रतीच उपपन्नस्तु स समान इतीर्यते || ४२६ ||
समानः सन्नुभौ लोकौ स्वप्नबुद्धान्तसंज्ञितौ |
जन्मेदं च परं चैव संसरत्येष न स्वतः || ४२७ ||
बुद्ध्यादिव्यतिरिक्तोऽयं न चेदात्मा भवेत्तदा |
भूतमात्राविशेषत्वादुभयोरपि लोकयोः || ४२८ ||
उभयत्रापि युगपद्भोगः स्यान्न तु दृश्यते |
तद्भावभावतस्तस्मादन्यज्ज्योतिरितीक्ष्यताम् || ४२९ ||
पर्यायेण समानः सल्लोकौ यस्माद्व्रजत्ययम् |
आत्मा बुद्ध्यादितस्तस्माद्व्यतिरिक्तोऽवसीयताम् || ४३० ||
देवताभोगशङ्का च विद्यते नेह काचन |
उत्क्रान्तिस्वप्नकालेषु ताः प्रयान्ति यथागतम् || ४३१ ||
ईश्वराणां न च न्याव्यो भोगः प्रत्यवरस्तथा |
देवताभ्योऽन्यदेवातो ज्योतिरात्मेति गम्यताम् || ४३२ ||
विभुत्वाद्देवतानां च भोगः स्यादैककालिकः |
न चासावस्ति तेनान्यदात्मज्योतिः प्रतीयताम् || ४३३ ||
स्वार्थचिन्मात्रभोक्तुश्च प्रात्यक्ष्यात्तद्विरोधिनः |
न भोक्तृत्वं विना मानादाशङ्का निष्प्रमाणिका || ४३४ ||
अभिव्यञ्जकधर्मा वा परिस्पन्दात्मकास्तथा |
नाऽऽत्मनोऽस्य स्वतः सन्ति तत्साक्षित्वात्तु ते मृषा || ४३५ ||
बुद्धिस्थश्चलतीवाऽऽत्मा ध्यायतीव च कल्प्यते |
नौगतस्य यथा वृक्षास्तद्वत्संसारविभ्रमः || ४३६ ||
तटस्थनरवन्नावो नौस्थो नैवेक्षते गतिम् |
नौगत्येकप्रयुक्तत्वान्नाव्येकाग्रेक्षणोऽपि सन् || ४३७ ||
यथैवं धिषणैकत्व ध्यानलेलायने धियः |
साक्षी स्वात्मातिरेकेण न पश्येन्नौस्थवत्पृथक् || ४३८ ||
तटस्थनरवद्यस्माद्ध्यानकम्पादिधर्मिकाम् |
धियं साक्षीक्षते तस्मात्प्रत्यग्ध्यानादिवर्जितः || ४३९ ||
नौप्रयुक्तातिरेकेण न नौस्थस्य गतिस्थिती |
यतोऽस्तो न जानाति नावो नौस्थस्तटस्थवत् || ४४० ||
नौसतत्त्वापरिज्ञानाद्विपरीतप्रकल्पना |
नौः स्थिता, तीरजा वृक्षा द्रुतं यान्तीति निश्चितिः || ४४१ ||
चैतन्याभासपर्यन्तं साक्षिणः परमात्मनः |
बुद्ध्याद्यव्यतिरेके हि न स्याद्धीवृत्तिसाक्षिता || ४४२ ||
निःशेषधीविकाराणां यस्मात्साक्षित्वमात्मनः |
वैलक्षण्यमतः सिद्धं विकारिभ्योऽस्य साक्षिणः || ४४३ ||
साक्षितत्त्वापरिज्ञानात्तद्विरुद्धार्थकल्पनम् |
साक्षिसाक्ष्यादिमिथ्याधीस्तत्त्वज्ञानान्निवर्तते || ४४४ ||
कुतः पुनरिदं ज्ञानं धीसमानाश्रयत्वतः |
लोकसंचरणाद्यस्य तत्साक्षित्वान्न तु स्वतः || ४४५ ||
स हीतिहेतुनिर्देश उक्तसिद्ध्यर्थमिष्यते |
स आत्मा यः स्वयंज्योतिरनुमानेन दर्शितः || ४४६ ||
प्रत्यङ्ङविद्यया यां यामवस्थामभिमन्यते |
तत्तन्नामाप्युपादत्ते स्वप्नो भूत्वेत्यतो वचः || ४४७ ||
बुद्धिजागरणे यद्वज्जागर्मीत्यभिमन्यते |
बुद्धिस्वापेऽपि तत्साक्ष्यात्स्वप्नो भूत्वेति मोहधीः || ४४८ ||
इमं लोकमिदं जन्म स्वप्नो भूत्वाऽतिवर्तते |
स्वाप्नान्भोगांस्ततो भुङ्के जाग्रद्भावनयाऽञ्जितः || ४४९ ||
धर्मादिकारणोद्भूतवासनाराशिसाक्षिता |
आत्मनोऽकारकस्यैव भोग इत्यभिधीयते || ४५० ||
जाग्रल्लोकं यतो हित्वा स्वप्नलोकं प्रपद्यते |
तस्मादसङ्गोऽकर्ता च स्वयंज्योतिरितीक्ष्यताम् || ४५१ ||
आत्माविद्यैव मृत्युः स्यान्नित्यस्यापि मृतेस्ततः |
मृत्युर्वै तम इत्याह श्रुतिरप्यात्मनिह्नवात् || ४५२ ||
स्वतोमृतस्य मरणं नाविद्यातो यतोऽन्यतः |
अविद्यामात्मनो मृत्युं तस्मादाहुर्विपश्चितः || ४५३ ||
प्राणोत्क्रान्तिनिषेधोक्तिर्यत आत्मावबोधतः |
सम्यग्ज्ञानस्य बाध्योऽर्थस्तस्मान्मृत्युरितीर्यते || ४५४ ||
रूप्यते यैरसौ मृत्युः कार्याणि करणानि च |
तानि रूपाणि भण्यन्ते मृत्योस्तस्य परात्मनः || ४५५ ||
विषमस्थं यतः सर्वं प्राणव्यापत्तिकारणम् |
तुषाग्रामात्रमपि हि मृत्युः सर्वमिदं ततः || ४५६ ||
मौढ्यं जाड्यमविद्या स्यान्नित्यबुद्धात्मवस्तुनः |
अनात्मनि च तदृष्टं तेन मृत्युरिदं जगत् || ४५७ ||
न हि प्रमाणतो मृत्युः शक्यो दर्शयितुं ततः |
रूपाणि मृत्योस्तेन स्युः कार्याणि करणानि च || ४५८ ||
अतिक्रामति तान्यात्मा जाग्रत्स्थानाश्रयाण्यतः |
क्रियाफ़लाश्रयाण्येष तस्माच्छुद्धो ध्रुवश्च सः || ४५९ ||
अस्ति शुद्धो ध्रुवश्चाऽऽत्मा स चैक इति यत्स्थितम् |
अस्यैवार्थस्य दार्ढ्यार्थं पूर्वपक्ष उदीर्यते || ४६० ||
ननु धीव्यतिरेकेण धीसाक्षी नाधिगम्यते |
धिया समान इत्येवं यः प्रागात्मोपपादितः || ४६१ ||
तत्सद्भावे न नो मानं प्रत्यक्षानुमयोर्यतः |
किंचिदप्यस्ति तत्सिद्धिरतः स्यान्निष्प्रमाणिका || ४६२ ||
पूर्वधीव्यतिरेकेण तत्कालीना परा यथा |
न धीः प्रत्यक्षगम्यैवं नाऽऽत्मा प्रत्याक्षगोचरः || ४६३ ||
न चानुमानतस्तस्य सद्भावोऽप्यवधार्यते |
सति धर्मिणि धर्माणां चिन्तेयमुपपद्यते || ४६४ ||
व्यङ्ग्यव्यञ्जकयोर्यत्तु सादृश्यभ्रमकारणात् |
तद्विवेकापरिज्ञानाद्युक्तं तच्चाभ्युपेयते || ४६५ ||
व्यङ्ग्यव्यञ्जकयोर्भेदस्तत्संबन्धात्पुरा यतः |
प्रमान्तरोपलब्धोऽतः काममस्तु तयोर्भिदा || ४६६ ||
सादृश्यतस्त्वभिन्नोऽयमिति भ्रान्तिरियं मता |
तद्भेदस्योपलब्धत्वात्तद्योगात्प्रक्प्रमाणतः || ४६७ ||
धीरेव चित्स्वरूपेयं प्रथते ग्राहकात्मना |
तथा विषयरूपेण सैवैका प्रथते द्विधा || ४६८ ||
नातो धीव्यतिरेकेण प्रत्यगात्मोपलभ्यते |
प्रत्यक्षतोऽनुमानाद्वा यो धीसक्षीति भण्यते || ४६९ ||
यश्च पूर्वमुपन्यस्तो दृष्टान्तो भेदसिद्धये |
व्यङ्ग्यव्यञ्जकवद्भेदः साक्षिसाक्ष्यार्थयोरिति || ४७० ||
त्वदभ्युपगमादेव तदभ्युपगतं मया |
परमार्थेन तत्रापि नैव भेदोऽस्ति कश्चन || ४७१ ||
अवभासात्मकः कुम्भः क्षणमात्रस्थितिर्यतः |
अन्योऽन्यश्च प्रबन्धेन यतस्तवापि जायते || ४७२ ||
विज्ञानमात्रमथवा वस्तु स्यात्पारमार्थिकम् |
क्षणभङ्गि घटाभासं क्लृप्तानेकविशेषणम् || ४७३ ||
एवं च सति दृष्टान्तो भवतो नोपपद्यते |
सर्वस्य ज्ञानमात्रत्वात्तदन्यासंभवत्वतः || ४७४ ||
तस्यैव ज्ञानमात्रस्य ग्राहग्राहकलक्षणम् |
मलं प्रकल्प्य तत्स्वास्थ्यं शुद्धि व्याचक्षतेऽपरे || ४७५ ||
अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितबुद्धिभिः |
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते || ४७६ ||
तस्यापि शुद्धरूपस्य शान्तिमन्ये प्रचक्षते |
मलवत्संवृतं रूपं यस्मात्तस्यापि कल्पितम् || ४७७ ||
आत्माद्यर्थे च संवादाभावाद्वाक्यस्य नेष्यते |
प्रत्यक्षवत्प्रमाणत्वं नापि प्रत्यक्षतो गतिः || ४७८ ||
अनुमानविरोधाच्च न नित्यात्मादिसंभवः |
प्रमान्तरविरोधेन न प्रमेहास्ति काचन || ४७९ ||
प्रत्यक्षस्यार्थसंवादादनुमित्यविरोधतः |
सौगतं दर्शनं पथ्यं दोषवत्त्वन्यदर्शनम् || ४८० ||
कल्पनेतरतः सर्वं सम्यङ्भिथ्येति मानतः |
सर्वशून्यस्य मोक्षत्वादनावृत्तिश्च सेत्स्यति || ४८१ ||
ग्राह्यग्राहकयोर्भेदो ननु भेदानुभूतितः |
भेदस्यैवं च मिथ्यात्वं प्रत्यक्षेणं विरुध्यते || ४८२ ||
ग्राह्यादिभेदवद्रूपं प्रत्यक्षं लिङ्गसंमतम् |
एकस्योभयरूपत्वं पण्डितैः सुनिराकृतम् || ४८३ ||
ज्ञानाभेदात्तु तत्सिद्धिस्तदध्यासात्तथा परम् |
प्रथते भेदवज्ज्ञानं न क्वचिद्वस्तुसंश्रयात् || ४८४ ||
ग्राह्यग्राहकमित्येवं नैव तत्प्रथते यतः |
नीलपीतादिविज्ञानं नीलमित्येव तद्यतः || ४८५ ||
अतस्मिंस्तद्ग्रहात्सर्वं मिथ्या स्यात्सविकल्पकम् |
असंपृक्तस्य सम्यक्त्वं स्वरूपेणावभासते || ४८६ ||
ननु निज्ञानमात्रेऽस्मिन्सम्यङ्भिथ्यात्वधीगतिः |
निर्विकल्पे कथं ते स्याद्वद भेदोऽत्र किंकृतः || ४८७ ||
ज्ञानरूपं यथा शुद्धं क्षणं चैवावभासते |
विकल्पकं तथैव स्याद्विभागस्तेन दुष्करः || ४८८ ||
इदं मिथ्येति चैतस्मान्मिथ्यात्वस्य कथं ग्रहः |
विकल्पश्चेन्न मिथ्यात्वान्न चान्या गतिरस्ति वः || ४८९ ||
मिथ्यामिथ्याविकल्पो हि स्थायित्वे वस्तुनो भवेत् |
क्षणवादे विनष्टानां कस्य किं केन गृह्यते || ४९० ||
मैवं बाधात्तु मिथ्यात्वसिद्धिः स्यान्मृगतोयवत् |
बाह्यस्याप्यग्रहो बाधान्न तु स्थिरतया मतः || ४९१ ||
ननु ध्वस्तस्य मिथ्यात्वसिद्धिः कथमिहेष्यते |
नैवं दृष्टत्वतः सिद्धेर्दृष्टे नानुपपन्नता || ४९२ ||
बाह्यवादेऽपि मिथ्यात्वं ज्ञानबाधेन जायते |
स्थिरस्यैव हि मिथ्यात्वं न चेदं राजशासनम् || ४९३ ||
इत्यादिकल्पनाः प्रत्यगैकात्म्याज्ञानहेतुजाः |
विभीषिका इमाः सर्वा वेदवर्त्मानुगामिनाम् || ४९४ ||
विभीषिकानिषेधार्थमत्र प्रतिविधीयते |
बाह्यार्थवादिदोषोक्तिस्तत्र तावदिहोच्यते || ४९५ ||
स्वात्मावभास्यः कुम्भादिर्दीपादिश्चापि नान्यतः |
इत्यादेर्न्यायबाह्यत्वं यथा तदभिधीयते || ४९६ ||
स्वात्मावभास्यो बाह्योऽर्थ इत्येतदसमञ्जसम् |
नानन्यव्यञ्जकत्वं स्याद्यस्मात्कुम्भादिवस्तुनः || ४९७ ||
तमस्यवस्थितः कुम्भः स्वात्मना नावभासते |
तदन्यदीपयोगे तु नियमेनावभासते || ४९८ ||
संश्लिष्टयोरपि तयोरन्यत्वमिति निश्चयः |
संयोगे च वियोगे च विशेषस्य समीक्षणात् || ४९९ ||
अन्यत्वमेव विज्ञेयमालोकघटयोस्ततः |
रज्जुकुम्भादिवन्नैक्यं विशेषस्य समीक्षणात् || ५०० ||
ननु दीपः स्वमात्मानं स्वात्मनैवावभासयन् |
दृष्टो दीपप्रकाशार्थं न हि दीपान्तराहृतिः || ५०१ ||
नावभास्यत्वतुल्यत्वाद्दीपस्यापि घटादिभिः |
घटवन्नाऽऽत्मनाऽऽत्मानं प्रकाशयति दीपकः || ५०२ ||
घटप्रदीपयोस्तावद्व्यङ्ग्यव्यञ्जकसंगतिः |
तदन्यात्मैकनिर्ग्राह्या प्रत्यक्षेणानुभूयते || ५०३ ||
व्यतिरिक्तात्मविज्ञानव्यङ्ग्यत्वं घटवन्न सः |
दीपो व्यभिचरत्यत्र तच्चाप्यनुभवाश्रयात् || ५०४ ||
एवं च सति दीपादेर्भिन्नजातीयचेतन -
व्यङ्ग्यत्वं घटवत्तावदवश्यंभावि गम्यताम् || ५०५ ||
ननु कुम्भादिवैधर्म्यं प्रदीपस्य समीक्ष्यते |
नाऽऽत्माभिव्यक्तये दीपो ह्यन्यमापेक्षते स्वतः || ५०६ ||
व्यनक्ति नाऽऽत्मनाऽऽत्मानं प्रदीपो घटवत्सदा |
स्वतो वा परतो वाऽस्य विशेषाभावहेतुतः |
विशेषेऽसत्यसाध्वेतद्भवतोदाहृतं वचः || ५०७ ||
दीपस्य घटवद्यस्माद्भिन्नविज्ञानगम्यता |
घटाद्यर्थाविशिष्टैव यत्त्वेतदभिधीयते || ५०८ ||
दीपोऽयमात्मनाऽऽत्मानं व्यनक्तीति न तच्छुभम् |
प्रागूर्ध्वं तदभिव्यक्तेर्विशेषस्यासमीक्षणात् || ५०९ ||
प्रदीपासंनिधौ यद्वत्कुम्भस्य प्रसमीक्ष्यते |
संनिधौ च विशेषो न प्रदीपे तद्वदीक्ष्यते || ५१० ||
आत्मत्वान्न हि दीपस्य कुम्भदेरिव संनिधिः |
असंनिधिर्वा न्याय्योऽयं भेदेऽसौ द्रव्ययोर्यतः || ५११ ||
एकाग्निव्यक्तेर्न यथा दाह्यदग्धृत्वसंगतिः |
द्वयोरपि समानत्वाद्व्याङ्ग्यव्यञ्जकता तथा || ५१२ ||
यत एवमतोऽसाधु भवतैतदुदाहृतम् |
अभिव्यनक्ति दीपोऽयमात्मनाऽऽत्मानमस्ववत् || ५१३ ||
विज्ञानमपि तद्भिन्नजातिचिद्ग्राह्यमिष्यताम् |
व्यञ्जकत्वाविशेषत्वाद्रविचन्द्रप्रदीपवत् || ५१४ ||
सचेत्यते यथा दीपो विज्ञानमपि तत्तथा |
संशयो निश्चयश्चायमित्येतच्चानुभूतितः || ५१५ ||
चिद्व्यङ्ग्यत्वे च बोधस्य साक्षादवधृते सति |
किं ग्राह्यज्ञानगम्यत्वं किंवा ग्राहकगम्यता || ५१६ ||
तत्र संदिह्यमानेऽर्थे यथालोकं विनिश्चितिः |
लोके सिद्धा च दीपादेर्भिन्नग्राहकगम्यता || ५१७ ||
ग्राहकग्रहणग्राह्यभावाभावविभागवित् |
ग्रहणादेश्च यो भिन्नः स आत्मेत्यवगम्यताम् || ५१८ ||
ननु ज्ञानादिगम्यत्वे ज्ञानाद्यन्तरसंश्रयात् |
अनवस्थेति दुर्वारा नैष दोषः कुतो यतः || ५१९ ||
स्वतो हि ग्राहकादीनां ग्राहकत्वादिसिद्धितः ||
ग्राहकाद्यन्तरापेक्षा नैव स्यादविशेषतः || ५२० ||
स्वमहिम्नैव चेन्न स्याह्राहकादि ततोऽन्यतः |
न स्यादतिशयाभावाद्ग्राहकाद्यन्तरादपि || ५२१ ||
ननु ज्ञानस्य तद्भिन्नग्राहकग्रहणे सति |
करणान्तरव्यपेक्षायामनवस्था प्रसज्यते || ५२२ ||
नियमाभावतो नासावनवस्था प्रसज्यते |
ग्राह्यग्राहकसंबन्धे नियमो न हि वीक्ष्यते || ५२३ ||
ग्राह्यग्राहकसंभिन्नं दीपवत्करणान्तरम् |
यथा सर्वत्र नैवं स्याद्ग्राह्यग्राहकसंगतौ || ५२४ ||
घटस्य दर्शनं तावत्प्रदीपादिपुरःसरम् ||
प्रदीपवीक्षणे नैव प्रदीपान्तरमार्गणम् || ५२५ ||
तस्मान्नैवानवस्थेह कथंचिदपि शङ्क्यते |
करणद्वारिका नापि ग्राहकद्वारिका तथा || ५२६ ||
ग्राहकाद्यतिरेकेण तद्विरुद्धात्मवस्तुनः ||
सद्भावं प्रागवोचाम प्रत्यक्षैकप्रमाणतः || ५२७ ||
प्रत्यक्षादनुमानाच्च तथा चैवाऽऽगमादपि |
ग्राहकाद्यतिरिक्तश्चित्सिद्धस्तत्साक्ष्यतः परः || ५२८ ||
लोकायतविचारेऽपि प्रत्यक्षैकप्रमाणतः |
स्वतोऽलुप्तदृशोऽस्तित्वं प्राक्साक्षात्प्रतिपादितम् || ५२९ ||
अन्तरेणापि मानानि प्रमातृत्वादिसाक्षितः |
कूटस्थदृष्टेरस्तित्वं प्रागपि प्रतिपादितम् || ५३० ||
बाह्यार्थवादिनि ध्वस्ते तद्वद्विज्ञानवाद्यथ |
ननु नास्त्येव बाह्योऽर्थ इति प्रत्यवतिष्ठते || ५३१ ||
ननु नास्त्येव बाह्योऽर्थो घटदीपादिलक्षणः |
विज्ञानव्यतिरेकेण तस्या मानासमीक्षणात् || ५३२ ||
यद्धि यद्व्यतिरेकेण वस्तु नेहोपलभ्यते |
तावदेवास्तु तद्वस्तु स्वप्नभूमिगवस्तुवत् || ५३३ ||
स्वप्नविज्ञाननिर्ग्राह्यं स्वप्नज्ञानातिरेकतः |
नास्ति वस्तु यथा तद्बज्जाग्रद्बाह्यार्थवस्त्वपि || ५३४ ||
जाग्रत्कुम्भादिकं वस्तु जाग्रज्ज्ञानातिरेकतः |
न सत्यं ग्राह्यतः स्वप्नज्ञानग्राह्यघटादिवत् || ५३५ ||
एवं च सति विज्ञानव्यतिरेकेण कुम्भवत् |
अपि प्रतीचोऽसत्त्वं स्याज्ज्योतिषः स्थास्रुरूपिणः || ५३६ ||
बाह्यार्थेऽपहृते चैवं प्रदीपादेरसंभवात् ||
दृष्टान्तो भवतः कः स्यात् कामितार्थप्रसिद्धये || ५३७ ||
वस्त्वन्तराभ्युपगमाज्ज्ञानतो ज्ञानवत्त्वया |
दृष्टान्तोऽस्त्येव नो भूयान्न चेन्न भवतोऽप्यसौ || ५३८ ||
धीमानाज्ज्ञानमेवेदमभ्युपेत्य ततोऽपरम् |
जाग्रत्स्वप्नादिकं वस्तु तन्मिथ्येति निषिध्यते || ५३९ ||
भावो वा यदि वाऽभावो ज्ञानवन्माननिश्चितः |
नास्तीति ब्रुवतो लज्जा धार्ष्ट्यादेव न जायते || ५४० ||
अपि ज्ञानातिरेकेण बाह्योऽर्थोऽभ्युपगम्यते |
दीपकुम्भादिको बुद्धैर्ब्यवहारप्रसिद्धये || ५४१ ||
सर्वस्य ज्ञानमात्रत्वान्ननु नाभ्युपगम्यते |
मया ज्ञानातिरेकेण तन्मानासंभवादिह || ५४२ ||
ज्ञानं घटो दीप इति शब्दार्थज्ञानभित्तये |
अवश्यमभ्युपेयोऽत्र भेदो मानप्रमेययोः || ५४३ ||
प्रमाणं भवता वाच्यं भेदाभेदत्वसिद्धये |
नाऽऽवयोर्निष्प्रमाणोक्तं यतः संगच्छते सुधीः || ५४४ ||
मामेयसंगतिफ़लभित्त्यभ्युपगमस्त्वया |
कार्य ऐक्ये यतोऽमीषां व्यवहारो न सिध्यति || ५४५ ||
उपादित्सन्ति मानानि ह्यज्ञातार्थोपलब्धये |
अतोऽभ्युपेयोऽज्ञातोऽर्थः प्रमाणत्वप्रसिद्धये || ५४६ ||
न च प्रमाणतः सिद्धिरज्ञातत्वस्य शक्यते |
अन्योन्याश्रयतादोषः सत्येवं प्रसजेद्यतः || ५४७ ||
प्रमाणाच्च न तत्सिद्धिस्तस्य मानविरोधतः |
मानैश्चेदविरोधः स्यात्कुतोऽज्ञातत्वनिह्नुतिः || ५४८ ||
न स्वरूपेऽथवा स्वांशे मानमेयत्वसंभवः |
सर्वदाऽतिशयाभावाद्बोधाच्चाव्यतिरेकतः || ५४९ ||
प्रमाणं यदि विज्ञानं मेया नीलादिरूपता |
मिथस्तयोरपेक्षा का यत उक्तं प्रसिध्यति || ५५० ||
आकारतद्वतोर्भेदो यदि नामाभ्युपेयते ||
अस्तु कामं प्रमामेयसंगतिर्गम्यते कुतः || ५५१ ||
कार्यांशाद्यभिसंबन्धान्मानमेयत्वसंगतिः |
अन्यैव तु विभिन्नात्मा वस्तुनोर्मानमेययोः || ५५२ ||
मानांशो यस्य मेयः स्यान्मेयांशो वा भवेत्प्रमा |
संबन्धाभावतस्तस्य मानमेयौ न सिध्यतः || ५५३ ||
मानमेयत्वयो रूपं यस्मान्नैवेह गम्यते |
मानमेयत्वसंसिद्धिर्नातस्तत्रोपपद्यते || ५५४ ||
एकस्मिन्नपि चेन्मानमेयत्वादिप्रकल्पना |
साध्यानां साधनैकत्वादसाध्यासाधनात्मना || ५५५ ||
फ़लाना साधनानांं चं भेदाभावे प्रसज्यते |
शास्रोपदेशानर्थक्यं तत्कर्तुश्चापि मूढता || ५५६ ||
विज्ञानव्यतिरेकेण प्रतिवाद्यादिवस्तुनः |
त्वदभ्युपगतेर्भदः स्यात्प्रमाणप्रमेययोः || ५५७ ||
न ज्ञानमात्रमेवेदं भवताऽप्यभ्युपेयते |
प्रतिवाद्यादिकं वस्तु तस्य दूष्यत्वकारणात् || ५५८ ||
प्रतिवाद्यादिदूष्यस्य न स्वांशांशित्वसंगतौ |
निराकर्तुमभिप्रायः सुमूढस्यापि जायते || ५५९ ||
भिन्नग्राहकसंवेद्यं घटदीपादि सद्ध्रुवम् |
जाग्रद्भूमिष्वतस्तस्य जाग्रत्स्थप्रतिवादिवत् || ५६० ||
संतत्यन्तरवद्यद्वा विज्ञानान्तरवत्तथा |
इत्येवमादि सौलभ्यं दृष्टान्तानामिहेष्यते || ५६१ ||
विज्ञानव्यतिरेकेण नातो विज्ञानवादिना |
कूटस्थदृष्टिरात्मैको निषेद्धुं शक्यते परः || ५६२ ||
ननु स्वप्ने न वस्त्वस्ति विज्ञानव्यतिरेकतः |
न जाग्रद्वस्तुवत्तत्स्याज्ज्ञानमात्रस्वरूपतः || ५६३ ||
विभागं लभते ज्ञानाज्ज्ञानवत्स्वप्नवस्तु चेत् |
स्वमहिम्नैव तत्सिद्धेः कथं नास्तीति भण्यते || ५६४ ||
ज्ञानस्यैवार्थरूपं तद्बोधवच्चेत्प्रकल्प्यते |
परमार्थसतोऽसत्त्वं किंमानमिति भण्यताम् || ५६५ ||
विज्ञानव्यतिरेकेण नीलादिविषयो यदि |
भावो वा स्यादभावो वा सोऽस्त्येवेति विनिश्चितिः || ५६६ ||
स्वप्नादौ भवतैवायं जाग्रद्वदनुभूयते |
घटादिज्ञानविषयः स कथं नेष्यते त्वया || ५६७ ||
यद्वस्त्वनुभवप्राप्तं तच्चेन्नास्तीति भण्यते |
ज्ञानेऽपि स्यादनाश्वासस्तस्यानुभवसिद्धितः || ५६८ ||
ज्ञानादतिशयो यद्वन्नास्तीतीह तथैव सन् |
घटोऽन्यो ह्यनुभूतेः सन्नास्तीति कथमुच्यते || ५६९ ||
तदन्यकालासंदृष्टेरिति चेदसदुच्यते |
क्षणान्तरे क्षणादृष्टेरसत्त्वं वः प्रसज्यते || ५७० ||
हेमन्तेऽनुपलब्धत्वाद्गीष्मधर्मापनिहनुतिः |
प्रतिज्ञातुमशक्या स्यात्तथा शून्यत्वमापतेत् || ५७१ ||
देशकालादिगावस्थाभेदेनैवाखिलं यतः |
वस्तु सिद्धं जगत्यस्मिंस्तदपहनूयते कथम् || ५७२ ||
विज्ञानव्यतिरेकेण घटो नास्तीति जल्पतः |
नास्त्यर्थोऽपि कथं जीवेदस्त्यर्थविरहादिह || ५७३ ||
अस्त्यर्थवत्स्वमात्रेण नाभावोऽस्ति विना सता |
यथाऽस्ति तव विज्ञानमेवं कुम्भाद्यपीष्यताम् || ५७४ ||
अस्त्यर्थव्यतिरेके हि न किंचिदपि सिध्यति || ५७५ ||
अस्त्यर्थव्यतिरेकेण विज्ञानादि यदीष्यते |
अब्राह्मणादिवत्तत्स्यादसदेवेति निश्चितिः || ५७६ ||
प्रतिक्षणविनाशीनि द्रव्याणीत्यवगम्यताम् |
तेषामन्ते विनाशित्वात्प्रदीपादिविनाशिवत् || ५७७ ||
वैधर्म्येण च दृष्टान्तः प्रतिज्ञातार्थसिद्धये |
प्रतिसंख्यानिरोधोऽत्र सर्वं सुस्थं भवेत्ततः || ५७८ ||
अनुमानप्रयोगेऽस्मिन्प्रतिज्ञार्थः सुदुर्लभः |
आवृत्तिवीप्सासद्भावात्क्षणिकोक्तेः प्रमाणतः || ५७९ ||
अनेकव्यापृतिमती ह्यावृत्तिर्जगतीक्ष्यते |
एकस्मिन्देवदत्तादौ सा च बौद्धस्य नेष्यते || ५८० ||
निर्व्यापाराः सर्वभावाः क्षणिकाश्चेति निश्चितेः |
गतः प्रत्यागतश्चेति साऽऽवृत्तिः स्यात्सुदुर्लभा || ५८१ ||
नानार्थवाचिनां लोक आश्रयाश्रयिणामिह |
व्याप्तिः क्रियागुणाभ्यां या सा वीप्सेत्यभिधीयते || ५८२ ||
युगपत्साऽपि बौद्धस्य न कथंचन युज्यते ||
कर्तृक्रियादिसादृश्यात्साऽन्यत्वेऽपीति चेन्मतम् || ५८३ ||
भूयोऽपि भुञ्जते गेहे ब्राह्मणा इति दर्शनात् |
एतच्चानुपपन्नं स्यादुपचारपरिग्रहात् || ५८४ ||
मुख्यस्यासंभवे यस्मादुपचारो न युज्यते |
अभ्युपेतार्थहानं च तदभ्युपगमे सति || ५८५ ||
क्षणिकाः सर्वसंस्कारा इत्याद्यभ्युपगम्यते |
क्षणिकाः सर्वसंस्कारा इत्यादिवचनैरियम् |
वीप्सा व्याहन्यतेऽतश्च क्षणिकोक्तिर्न युज्यते || ५८६ ||
अथापि क्षणिकानीति मत्वर्थोऽत्र विवक्ष्यते |
सिद्धसाध्यत्वमेवं स्यादिष्टैव क्षणसंगतिः || ५८७ ||
स्थिरस्य वस्तुनोऽवश्यं निमेषक्षणलक्षणैः |
कालभागैर्भवेद्योग इति नः सिद्धसाध्यता || ५८८ ||
क्षणिकार्थस्तिरोभाव इति चेदभिधीयते |
अभ्युपेतार्थहानिः स्यात्तथाऽपीष्टं न सिध्यति || ५८९ ||
व्यक्तधर्मनिवृत्तिर्या कारणात्मतयेष्यते |
स्थिरस्य धर्मिणः सेह तिरोभावगिरोच्यते || ५९० ||
यद्युत्पन्नानि नश्यन्ति स्यात्तदा सिद्धसाध्यता |
यस्मादादिमतां नाशः सर्वैरेवाभ्युपेयते || ५९१ ||
यतो जनिमताऽवश्यं विनंष्टव्यं तदन्ततः |
तथाऽभ्युपगतार्थस्य हानिः स्याद्वो न संशयः || ५९२ ||
अथोत्पत्तिक्षणे नाशो भवताऽभ्युपगम्यते |
सर्गनाशौ तदैकस्मिन्काले प्रसजतो ध्रुवम् || ५९३ ||
ततश्च कार्यानुत्पत्तिर्यदि वा सर्वदाऽस्तिता |
तद्विरोधाविरोधाभ्यां ध्रुवं प्राप्नोत्यनीप्सिकतम् || ५९४ ||
विरुद्धयोश्च क्रिययोरिष्टत्वादेककर्तरि |
एककाले विरुद्धत्वात्सर्वलोको विरुध्यते || ५९५ ||
अथाज्ञातानि नश्यन्ति जायमानानि वेति चेत् |
तथाऽप्यसन्प्रतिज्ञार्थो न ह्यभावस्य नाशिता || ५९६ ||
काऽतिशीतिरजातस्य विनाशागमने सति ||
प्रतिज्ञापदयोश्चात्र विरोधः स्यात्परस्परम् || ५९७ ||
नश्यत्युत्पद्यमानोऽर्थ इत्येतन्मुग्धभाषितम् |
सर्वलोकविरुद्धत्वात् मानैश्चापि विरुध्यते || ५९८ ||
अथोत्पन्नस्य नाशोऽयं द्वितीये स्यात्क्षणे यदि |
प्रत्यभिज्ञामृते नायं प्रतिज्ञार्थः प्रसिध्यति || ५९९ ||
य एव जायते कर्ता स एवायं विनश्यति |
क्षणद्वये यथा स्थायी तद्वदस्तु क्षणान्तरे || ६०० ||
मतमुत्पद्यते नासौ नापि साक्षाद्विनश्यति ||
आदिमध्यान्तहेतूत्थविकल्परहितोऽपि वा || ६०१ ||
हेतुप्रतिज्ञयोः स्पष्टो विरोधः स्यात्तथा सति || ६०२ ||
मतमन्ते विनाशश्चेत्कोऽयमन्तस्त्वयोच्यते |
क्षणस्यान्तर्बहिर्वेति न तथाऽप्युपपद्यते || ६०३ ||
क्षणान्तश्चेद्भवेन्नाशः क्षणिकत्वं बिहन्यते |
क्षणान्तरेऽपि नाशोऽयं पूर्वाभावान्न युज्यते || ६०४ ||
उत्तरक्षण्मबिध्बस्तौ न हि पूर्वो नियुज्यते |
तस्मोत्तरत्रासद्भाबाद्भौव्यं च स्यात्तथा सति || ६०५ ||
आदिमध्यान्तभागत्वे निरंशत्वं च दुर्घटम् |
क्षणस्य संततौ चापि सिद्धसाध्यत्वमुच्यते || ६०६ ||
असतश्च समुत्पत्तावन्ते च क्षयसंगतेः |
द्विर्विनाशप्रसक्तिः स्यात्क्षणिकत्वं च हीयते || ६०७ ||
न चेदुत्पत्तिरसतो न विनाशः सतस्तथा |
कूटस्थवादसक्तिः स्यात् मिथ्यासंगतितस्तयोः || ६०८ ||
अन्त्यो नाशो महांश्चेत्स्यान्नाशः सातिशयो यतः |
विशेपाभावतो नैवं तस्यानतिशयत्वतः || ६०९ ||
मत्वर्थानुपपत्तेश्च क्षणिकत्वाद्यसंभवः |
द्रव्यतन्नाशयोर्यस्मान्नैवेहास्त्येककालता || ६१० ||
न च नाशस्य कालोऽस्ति क्षणमध्ये तथा बहिः |
क्षणान्तरं बहिर्यस्मात्क्षणमध्ये ध्रुवत्वतः || ६११ ||
धन्यासीदिति दृष्टश्चेन्न लक्षणविरोधतः |
लक्षणे वर्तमानस्य कालस्य श्रवणं यतः || ६१२ ||
त्रिकाललक्षणार्थं चेदस्तीति यदि भण्यते |
तादर्थ्ये कारणाभावान्नैतदप्युपपद्यते || ६१३ ||
प्रत्यक्षेण विरोधाच्च न क्षणस्य विनाशिता |
प्रत्यक्षानुमयोर्नापि विरुद्धाव्यभिचारिता || ६१४ ||
सिद्धसाध्यत्वमथवा नङ्क्ष्यतीति मतं यदि |
क्षणिकत्वस्य हानिः स्यात् किं नश्छिन्नं तथा सति || ६१५ ||
अर्थक्रियादिलिङ्गेन विरोधित्वाच्च नेष्यते |
क्षणिकाः सर्वभावाः स्युरिति यत्प्राक्समीरितम् || ६१६ ||
शाल्याद्युदूहनादि स्यादुत्पित्सोर्वा जनिस्तथा |
अर्थक्रिया न मानं वस्तेन चैव विरोधतः || ६१७ ||
क्षणिकत्वं न भावानां कथंचिदपि युज्यते |
नष्टेन नश्यता वाऽपि न शाल्याद्याहृतिक्रिया || ६१८ ||
संत्योत्पद्यमानैश्चेत्फ़लहेकत्वात्मभिर्भवेत् |
भावैरर्थक्रिया सर्वा यथा दीपादिभिस्तथा || ६१९ ||
उत्पित्स्वजातं सज्जातमनष्टं वाऽभ्युपेयते |
निनङ्क्षु नश्यन्नष्टं च प्रत्यभिज्ञामृते कथम् || ६२० ||
प्रबन्धेनार्चिषो धर्मा धर्मिण्यग्नौ व्यवस्थिते |
अर्थक्रियां वर्तमानाः कुर्युर्ग्रामाद्यवाप्तिवत् || ६२१ ||
दीपादिवदसंभाव्या भवतोऽर्थक्रिया यतः |
क्षणिकत्वे न सा युक्ता तद्धेतुविरहात्सदा || ६२२ ||
नानुत्पन्नस्य हेतुत्वमुदकाद्याहृतौ भवेत् |
उत्पित्सूत्पद्यमानाभ्यामसत्त्वात्तद्वदेव न || ६२३ ||
कूर्मलोमादिवत्तद्वन्नापि तत्स्याद्विनश्यता |
म्रियमाणो न शक्नोति पुत्रं जनयितुं क्वचित् || ६२४ ||
हेतुत्वं लभते नापि तथैवावस्थितः कचित् |
आ कार्यावसितेः स्थाने सिद्धान्तस्ते विनश्यति || ६२५ ||
विनाशक्रियया व्याप्तमुत्पन्नं चेद्विनश्यति |
फ़लहेतुप्रबन्धेनेत्येवं सुस्थमिदं भवेत् || ६२६ ||
संतानानुपपत्तेश्च नैवमप्युपपद्यते |
संतनोतीति संतानः कर्ता चेदभिधीयते || ६२७ ||
तस्य चैकत्वनाशित्वात्संतानो नोपपद्यते |
नाप्यपादानतः मध्येन्न वाऽधिकरणाश्रयत् || ६२८ ||
न चान्यस्मिन् विभक्त्यर्थे यथोक्तेनैव हेतुना ||
संतानो यदि धात्वर्थो भावश्चेदभिधीयते || ६२९ ||
भवितारमपेक्ष्यैव भावः सिध्येन्न सोऽन्यथा |
न चासौ लभ्यते तादृग्भविता हि विनश्वरः || ६३० ||
नित्यं भवितृतन्त्रत्वात्संतानस्याप्यनित्यता |
धातूपसर्गयोरर्थस्त्वत्पक्षे न च लभ्यते || ६३१ ||
नैकीभावो न विस्तारः क्षणिकत्वेऽस्ति युक्तिमान् |
अतीतानागतानां च मिथः कालासमागमात् || ६३२ ||
वर्तमानस्य चैकत्वात्संतानो नोपपद्यते |
संतानिभ्यश्च संतानोऽभिन्नो भिन्नोऽथवा द्विधा || ६३३ ||
अभेदेऽनित्यतासक्तिः स्थास्नुर्भेदे प्रसज्यते ||
कार्यकारणभावश्च न च वः स्यादभीप्सितः || ६३४ ||
भिन्नाभिन्नत्वपक्षोऽपि विरोधान्न च युज्यते |
स्वसिद्धान्तस्य च ध्वस्तिर्न च संगच्छते जनः || ६३५ ||
संतानिनां स्वसंतानाद्भिन्नाभिन्नत्वकल्पने |
वाच्या दोषा यथायोगं संतानार्थानुरोधतः || ६३६ ||
अवाच्यमिति पक्षश्चेन्मैवं तस्याप्यसंभवात् |
अन्यानन्योभयात्मत्वकल्पने ह्यसदेव तत् || ६३७ ||
अवाच्यं यद्यनन्यत्वे ह्यन्यत्वे वाच्यमेव तत् |
अथावाच्यं तदन्यत्व इतरत्रास्तु वाच्यता || ६३८ ||
अन्यानन्यत्वयोश्चात्र वाच्यावाच्यत्वयोस्तथा |
परस्परविरोधित्वान्न स्यादेकत्र संगतिः || ६३९ ||
वाच्यं वा यदि वाऽवाच्यं कस्मादित्यभिधीयताम् |
परबुद्धौ समारोप्यमवश्यं वस्तु चेद्भवेत् || ६४० ||
न चावाच्यं भवत्पक्षे किंचिद्वस्त्वभ्युपेयते |
वक्त्यभावं भवान्यत्र तत्र वस्तुनि का कथा || ६४१ ||
तद्रूपं चेदवाच्यत्वं भवताऽभ्युपगम्यते |
नैवं साधारणत्वात् स्यत् पुद्गलादेरपीष्यते || ६४२ ||
अतोऽसाधारणं वाच्यं रूपं संतानवस्तुनः |
अथावाच्यत्वमेवास्य रूपमित्यभिधीयते || ६४३ ||
उक्तं तर्हि त्वया रूपं संततेर्घटरूपवत् |
यदसाधारणं यस्य रूपं तत्तस्य भण्यते || ६४४ ||
ततश्चावाच्यमिति ते प्राप्ता स्वोक्तिविरुद्धता |
तथा संतानविच्छिन्नकल्पनाऽपि न युज्यते || ६४५ ||
संतानस्याव्यवच्चित्तौ सर्वदैव प्रसज्यते |
सभागसंततिः सा हि नाविच्छेदमृते यतः || ६४६ ||
अनित्यत्वप्रसङ्गाच्च न सती संततिर्भवेत् |
इत्युक्तेन प्रकारेण संतानासंभवो ध्रुवः || ६४७ ||
फ़लहेतुनिषेधाच्चन युक्तं सर्वथा वचः |
संतत्या जायमानैस्तैरिति यदव्यहृतं पुरा || ६४८ ||
यच्च दीपप्रकाशादिक्रियावदिति चोदितम् |
साध्यार्थेन समानत्वात्तदप्युक्तमशोभनम् || ६४९ ||
अर्थक्रिया यथा नास्ति रथादेरुक्तहेतुतः |
दीपादेरपि नैवासावस्ति तेनैव हेतुना || ६५० ||
क्षणिकत्वां यथा नास्ति रथादेर्येन हेतुना |
दीपादेरपि तेनैव क्षणिकत्वाद्यसंभवः स || ६५१ ||
एककालौ मतौ यच्च नाशोत्पादौ तुलान्तवत् |
अहेतुफ़लतासक्तेर्न चैतदुपपद्यते || ६५२ ||
जनकव्यापृतेः पश्चाज्जान्यो निष्पद्यतेऽङ्कुरः |
कार्यकारणताभेदस्तयोः स्याद्भिन्नकालतः || ६५३ ||
न चेत्कारकभेदोऽत्र कालभेदोऽथवेक्ष्यते |
कुतो हेतुफ़लत्वं स्यात्सव्येतरविषाणवत् || ६५४ ||
न च हेतुफ़लत्वं स्यादेककालीनयोस्तयोः |
वैनाशिकेन सत्त्वेन त्वयाऽभ्युपगमात्तयोः || ६५५ ||
न विकारो न चाऽऽरभ्यं बौद्ध कार्यमसंभवात् |
विकारे सांख्यसिद्धान्त आरम्भेऽत्यन्तभिन्नता || ६५६ ||
सत्त्वाद्विनिष्ठितार्थश्च सत्स्रोतोन्तरनिष्ठितः |
घटस्तम्भादिवन्नापि मृद्वत्परिणमेत्स्वयम् || ६५७ ||
नापि चाऽऽरभते कार्यं पुरतः कुम्भकारवत् |
असत्त्वान्न द्वयं तेऽस्ति साख्यकारणादपक्षवत् || ६५८ ||
इत्यादिदूषणान्यत्र वक्तव्यानि सहस्रशः |
न च प्रमाणसद्भावः सर्वस्य ज्ञानमात्रतः || ६५९ ||
शून्यत्वमपि नैव स्यादेतस्मादेव कारणात् |
अहंप्रत्ययगम्यत्वमेकत्वादात्मनो न च || ६६० ||
अंशाशित्वेऽपि नैव स्यात्पूर्वोक्तादेव कारणात् |
क्षणभङ्गे च भावानां प्रत्यभिज्ञाद्यसंभवः || ६६१ ||
पूर्वदृष्टे पुनः सोऽयमिति बुद्धिर्न युज्यते || ६६२ |
भेदः स एवायमिति कालरूपादिभेदतः |
यदि नाम तथाऽप्यैक्यं तयोरनुभवाश्रयात् || ६६३ ||
सादृश्यात्प्रत्यभिज्ञानं कृत्तकेशनखादिवत् |
इति चेन्नैतदेवं स्यात्सादृश्यासंभवात्तव || ६६४ ||
सादृश्यासंभवश्चापि सर्वस्य क्षणिकत्वतः |
नाप्यनेकार्थदर्श्यस्ति सादृश्यं स्याद्यतस्तव || ६६५ ||
सादृश्यान्न च केशादौ स एवायमितीक्षणम् |
केशादिजातेरेकत्वाद्धीरियं तन्निबन्धना || ६६६ ||
न हि लूनोत्थितेष्वेषु विना जातिसमाश्रयम् |
त एवामी इति मतिः कस्याचिद्व्यक्तिहेतुजा || ६६७ ||
अभ्रान्तस्य हि केशादौ यदा सदृशधीस्तदा |
पूर्ववालैरिमे वालाः सदृशा इति जायते || ६६८ ||
त एवामी इति मतिर्जायते न तु कस्यचित् |
एकजातिनिमित्ताऽतः प्रत्यभिज्ञेयमिष्यते || ६६९ ||
प्रत्यक्षं च तदेवेदमित्येतद्वस्तुकर्मकम् |
उल्लिखज्जायते साक्षादतीतेऽहन्यधर्मकम् || ६७० ||
इदमेव तदेवेदमित्येषोऽनुभवो दृढः |
प्रत्यक्षो बाध्यते नायमनुमानेन केनचित् || ६७१ ||
प्रत्यक्षेण विरोधे हि लिङ्गमाभासतां व्रजेत् |
यतोऽतो नानुमानेन प्रत्यक्षस्यास्ति बाधनम् || ६७२ ||
विज्ञातपूर्वकुम्भस्य पुनः कुम्भान्तरेक्षणे |
सादृश्यप्रत्ययो युक्तो न त्वसौ क्षणिकात्मसु || ६७३ ||
पूर्वं दृष्ट्वाऽपि चेत्तिष्ठेद्यावदागामिदर्शनम् |
सादृश्यधीप्रसिद्ध्यर्थमित्यभ्युपगमेऽपि च || ६७४ ||
सिद्धा सादृश्यधीरेवं क्षणिकत्वं तु नस्यति |
स्वरूपमात्रसंबोधि नाऽऽत्मनोऽपि क्षयोदयौ || ६७५ ||
ज्ञानं प्रत्यभिजानाति ध्वंसित्वान्नापि तापरम् |
सादृश्यक्षणिकत्वे द्वे त्वदिष्टे न प्रसिध्यतः || ६७६ ||
न च स्मृतिस्तदेवेदमित्येवमनुभूतितः |
वस्तूल्लेखी ह्यनुभवो नीलरक्तोत्पलादिवत् || ६७७ ||
नीलोत्पलानुभववत्तदेवेदमितीक्षणम् |
अपूर्वार्थपरिच्छेदात्स्मृतिर्नातो भवेदियम् || ६७८ ||
मिथोविभिन्नरूपत्वात्सादृश्यं चेह दुर्घटम् |
तदेवेदमिति मतौ वियन्नकुलयोरिव || ६७९ ||
असाधारणरूपेण विभिन्नानां परस्परम् |
क्षणानां क्षणिकानां वः सादृश्यं केन हेतुना || ६८० ||
तेनेदं सदृशं वस्तु त्विति चापि न युक्तिमान् |
व्यपदेशः पदार्थानां क्षणिकत्वात्स्वभावतः || ६८१ ||
इदं दृष्टमदोऽद्राक्षणिति दैवोपपद्यते |
व्यपदेशः स्वभावेन व्यपदेष्टुर्विनष्टतः || ६८२ ||
व्यपदेशक्षणाभावात्पूर्वदृष्टैव संक्षयात् |
उत्तरानभिसंबन्धाद्व्यपदेष्टुः कुतो भवेत् || ६८३ ||
व्यपदेशो विना योगमतीतानागतार्थयोः |
तत्स्थास्नुत्वाभ्युपगतौ क्षणिकत्वं विनश्यति || ६८४ ||
जात्यन्धवन्न चादृष्ट्वा कश्चिद्व्यपदिशेदिह |
सादृश्यधिषणां चेह न कश्चित्कर्तुमर्हति || ६८५ ||
प्रमाणविरहात्सिद्धा सेयमन्धपरंपरा |
रक्ताम्वराणां सिद्धान्तस्तथाऽभ्युपगमात्स्वयम् || ६८६ ||
निरोधकाले चित्तस्य वासकत्वं न युज्यते |
क्षणिकत्वादसंबन्धात्संतानान्तरबुद्धिवत् || ६८७ ||
अकृताभ्यागमो दोषः कृतनाशश्च ते भवेत् |
तस्माद्यः कर्मणां कर्ता स भुङ्के कर्मणः फ़लम् || ६८८ ||
यस्मिन्नेव तु विज्ञान आहिता कर्मवासना |
फ़लं तत्रैव संताने कार्पासे रक्तता यथा || ६८९ ||
इत्यस्मिन्नपि सिद्धान्ते प्रसङ्गो न निवर्तते |
संतानिव्यतिरेकेण यस्मान्नैव स विद्यते || ६९० ||
संतानिनस्तु संस्कारा विद्यन्ते परमार्थतः |
मिथश्चासंगतेस्तेषामतो दोषान्न मुच्यते || ६९१ ||
मानाभावान्न चेदिष्टा संततिर्येह कल्पिता |
दोषोक्तिमात्रतस्तर्हि न पक्षः सिद्धिमश्नुते || ६९२ ||
कार्पासबीजसंस्थैव योक्ता रक्तादिवासना |
स्वाकारकार्यकृत्सैव न कार्यं कार्यकृन्मतम् || ६९३ ||
मिथः क्षणानां संबन्धः शृङ्गलाकटकादिवत् |
सादृश्यव्यपदेशादि सर्वं सुस्थं भवेत्ततः || ६९४ ||
इत्येवं चेन्न तद्युक्तं क्षणिकत्वस्य हानितः |
क्षणत्रयस्य संव्याप्तेः शृङ्गलाकटकादिवत् || ६९५ ||
मम तवेत्यवच्छेदव्यवहारश्च त्रुट्याति |
संबन्धाभावतस्तेषां क्षणानामपरस्परम् || ६९६ ||
ज्ञानस्य च विशुद्धस्य स्वसंविन्मात्ररूपिणः |
अन्यस्य तादृशोऽभावात्कुतो दुःखादिसप्लुतिः || ६९७ ||
न चानेकस्वभावांशवत्त्वं ज्ञानस्य संमतम् |
स्वच्छैकरूपतस्तस्य दाडिमादिफ़लं यथा || ६९८ ||
प्रमेयत्वानुभूतेश्च न विज्ञानांशता तथा |
अनित्यदुःखशून्यादेः पृथुबुध्नादिरूपवत् || ६९९ ||
ज्ञानमात्रमिदं सर्वं न ज्ञेयं विद्यते पृथक् |
स्वप्नादिज्ञानदृष्टान्तात्प्रत्ययत्वादिहेतुतः || ७०० ||
प्रतिज्ञाहेतुदृष्टान्तभेदस्तावत्परस्परम् |
ज्ञानमात्रस्वभावत्वाद्भवता नाभ्युपेयते || ७०१ ||
पक्षश्चायं प्रमाणेन प्रत्यक्षेण विरुध्यते |
शरीराद्देशभेदेन भासन्तेऽर्था घटादयः || ७०२ ||
अभ्रान्तं चेन्द्रियज्ञानं तेषु चैवोपजायते |
भिन्नाभिन्नविकल्पार्हं त्वत्प्रत्यक्षं च नेष्यते || ७०३ ||
दूरे स्थितं प्रपश्यामि यन्न दृष्टमिदं तथा |
एवंप्रकारं प्रत्यक्षं स्वसंवेद्यं न बाध्यते || ७०४ ||
दुःखाद्यात्मकमेवेदं विज्ञानं चेत्त्वयोच्यते |
तद्वियोगाद्विशुद्धं तदिति वः कल्पना कथम् || ७०५ ||
यतः संयोनिनिर्मुक्तौ वस्तु शुद्धमिहेष्यते |
स्वरूपस्य तु निर्मुक्तौ किमन्यदवशिष्यते || ७०६ ||
स्वाभाविकगुणध्वस्तौ रागाद्यागन्तुकात्मता |
दृष्टा पुष्पेष्विति वचो यच्चापि समुदाहृतम् || ७०७ ||
सम्यङ्निरस्तं तत्पूर्वं वियोगाच्चापि लिङ्गतः |
संयोगपूर्वता तस्य लिङ्गयते मेषयोरिव || ७०८ ||
द्रव्यान्तराच्छादनाद्वा सहजस्याप्यनीक्षणम् |
तद्द्रव्यसंक्षये यस्मात्पूर्ववत्सहजेक्षणम् || ७०९ ||
ग्राह्यग्राहकरूपेण यच्चापि मलकल्पनम् |
अन्यसंसर्ग्यभावात्तत्तुषकण्डनवद्वृथा || ७१० ||
फ़लाश्रयस्व चाभावान्निर्वाणादि स्वलक्षणम् |
फ़लं च घटते नेह युक्तिभिः शाक्यपुङ्गवे || ७११ ||
शल्यविद्धस्य तच्छल्यनिष्कर्षोत्थं सुखं फ़लम् |
शल्यविद्धमृतौ कस्य फ़लं स्यादिति कथ्यताम् || ७१२ ||
न संयोगो वियोगो वा यस्य केनचिदिष्यते |
विनाशतः स्वतस्तस्य कीदृशी फ़लसंगतिः || ७१३ ||
भवत्पक्षेऽपि तुल्यं चेन्नाविद्यामात्रहेतुतः |
कारकादिविभागस्य वस्तु पूर्णं स्वतो यतः || ७१४ ||
पुरुषार्थात्मकं वस्तु कूटस्थं तत्स्वतो यतः |
अविद्यया तथाभूतं तद्ध्वस्तौ किमपेक्षते || ७१५ ||
अनुमानेन तादृक्षं वस्तु प्राकप्रतिपादितम् |
न चानुमाने दोषोऽपि तत्र कश्चिद्विभाव्यते || ७१६ ||
सहोपलम्भसंस्कारात्पुनर्धीर्यैकदर्शनात् |
साऽनुमा संभवस्तत्र व्यभिचारस्य चेन्न हि || ७१७ ||
ननु चाव्यभिचार्येव संबन्धो गमको भवेत् |
सहोपलम्भमात्रेण न यतः पितृसूनुवत् || ७१८ ||
अस्त्वेवं शङ्क्यते नो चेद्व्यभिचारः स्वगोचरे |
प्रार्थ्यते व्यभिचारो हि जाताशङ्के न गोचरे || ७१९ ||
सहोपलम्भमात्रेण सा तु सर्वत्र जायते |
धियो नो विषये शङ्का व्यभिचारानुसारिणी || ७२० ||
तदाशङ्कानिवृत्त्यर्थमतः कार्यं प्रयत्नतः |
साध्याभावेन तद्धेतोरभावपरिमार्गणम् || ७२१ ||
साध्याभावे कथं हेतोरभाव इति कथ्यताम् |
ज्ञानलक्षणसंप्राप्तावथवाऽप्यविशेषतः || ७२२ ||
यदि मालक्षणाप्तस्य साध्याभावादि भण्यते |
तदा भ्राष्ट्राद्यदूरस्थे साध्याभावादि सज्जते || ७२३ ||
प्रत्यक्षगोचरे साध्यभावश्चेत्प्रतिपाद्यते |
प्रत्यक्षेणैव सिद्धत्वादनुमैवं वृथा भवेत् || ७२४ ||
अधित्यकादौ देशे तु ह्युपलब्धेरसंभवात् |
मा भूदग्न्याद्यभावेऽपि कदाचिद्धूमसंभवः || ७२५ ||
यद्येवमन्वयोऽप्यत्र नैव प्राप्नोति तत्कथम् |
अन्यत्र यदि नाम स्याद्धूमभावेऽग्निभावता || ७२६ ||
दर्शनादस्तु सा कामं दर्शनाधीनसिद्धितः |
अधित्यकादौ देशे तु यावत्साक्षान्न दर्शनाम् || ७२७ ||
तावन्नावसितुं शक्यं भवितव्यमिहाग्निना |
इति धूमोपलम्भत्वाद्धाष्ट्रधूमोपलम्भवत् || ७२८ ||
इदं तावद्वदत्वत्र लिङ्गलक्षणतत्त्ववित् |
धूमादिलिङ्गेनेहार्थो भवता कोऽनुमीयते || ७२९ ||
नाग्निस्तस्य प्रसिद्धत्वान्नापि देशः प्रसिद्धितः |
न च संबन्धमात्रं स्याद्यथोक्तादेव कारणात् || ७३० ||
तस्मान्नैवानुमा नाम मानं युक्तिमदिष्यते |
मेयाभावादिति प्राप्तावत्र प्रतिविधीयते || ७३१ ||
सहोपलब्धिसंस्कारवशाद्धूमादिदर्शनात् |
अग्न्यादौ विप्रकृष्टेऽर्थे निश्तिता जायते मतिः || ७३२ ||
लिङ्गात्तावदिदं ज्ञानं जातं बाधकवर्जितम् |
उत्पन्नत्वात्तदुत्पन्नं नानुत्पन्नं कथंचन || ७३३ ||
जातं किमविनाभावसंबन्धेनेदमीदृशम् |
किंवा नेति परीक्षेयं जातत्वात्स्यादपार्थिका || ७३४ ||
सर्वथा फ़लवज्ज्ञानं जातत्वान्न तदन्यथा |
तस्मात्प्रत्यक्षवत्किंचिद्व्यभिचारकृदञ्जसा || ७३५ ||
यावन्नेक्षामहे तावन्नाप्रमाणमितीर्यते |
तदपह्नवमानस्य तवात्यन्तमसंभवात् || ७३६ ||
अत्राऽऽह यदि विज्ञानजन्ममात्रात्प्रसिध्यति |
प्रतिज्ञामात्रतः सिद्धेर्वृथा स्याद्धेतुकीर्तनम् || ७३७ ||
बाढमेवं भवेदेतदाशङ्काकारणं न चेत् |
किंचित्तत्रोपलभ्येत ह्यनवद्यं भवेद्वचः || ७३८ ||
पुरुषादिनिमित्तस्तु जायते यत्र संशयः |
अन्वयव्यतिरेकाभ्यां हेतोः स्यात्तत्र निश्चयः || ७३९ ||
उत्पन्न एव ज्ञानेऽतस्तत्संदेहनिवृत्तये |
अन्वयव्यतिरेकौ स्तो न ताभ्यामनुमेयधीः || ७४० ||
संदेहनिर्णयादन्यत्स्वभावादि यदुच्यते |
तस्यानुमित्यनङ्गत्वात्प्राप्तं तत्तुषकण्डनम् || ७४१ ||
अविनाभावसिद्ध्यर्थं नन्विदं वर्ण्यते त्रयम् |
त्रिष्वेव त्वविनाभावाद्भद्रं तैरपि कीर्तितम् || ७४२ ||
स्वभावादविनाभावे स्यादौष्ण्यस्याग्निलिङ्गता |
स्वभावोऽथाविनाभावात्कार्ये प्राप्ता स्वभावता || ७४३ ||
औष्ण्यस्वभावो दृष्टोऽग्निस्तस्यान्यत्राऽपि दर्शनात् |
क्षितितोयाग्निमरुतां दृष्टा स्पर्शस्वभावता || ७४४ ||
मतं चेदस्वभावोऽसौ यो नैकार्थप्रवृत्तिमान् |
धवादावपि तद्वृत्तेर्वृक्षात्मा शिंशपा न हि || ७४५ ||
शिंशपा वृक्ष एवेति ह्यविनाभावकारणात् |
क्षणिकत्वं न भावानां स्वभावः स्यात्तथा सति || ७४६ ||
तस्यानेकार्थशायित्वादहेतुत्वं प्रसज्यते || ७४७ |
क्षणिकत्वं यदैकस्य तदाऽसाधारणात्मता |
हेतोः साधारणात्मत्वं यदाऽनेकस्य तन्मतम् || ७४८ ||
अग्नेर्धूमाच्च धूमस्य कार्यत्वस्य समीक्षणात् |
अनैकान्तिकता हेतोः कार्यत्वस्येह सज्जते || ७४९ ||
यदि नाम सदा स्पर्शो वाय्वादावपि वर्तते || ७५० ||
नैतावता भवेल्लोके गौरस्पर्शस्वभाविका |
भुवो हि स्पर्शवत्त्वस्य लोकेऽस्मिन्सुप्रसिद्धितः || ७५१ ||
किंचाप्यव्यभिचारेण स्वभावत्वं विवक्षतः |
स्वभावान्नैव संसिध्येद्वस्तुनोऽव्यभिचारिता || ७५२ ||
त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना |
प्रत्यज्ञायि प्रतिज्ञेयं हीयेतासौ न संशयः || ७५३ ||
तथैवाव्यभिचारेण स्वभावत्वं विवक्षतः |
पुरैवाव्यभिचारस्य संसिद्धेः किं ततोऽपरम् |
स्वभावहेतुना साध्यं वदं यत्ते विवक्षितम् || ७५४ ||
अग्नेश्चाव्यभिचारित्वात्कार्यस्यापि स्वभावता |
धूमस्याऽऽप्नोति भेदो वा द्वयोर्हेत्वोर्निवर्तते || ७५५ ||
कार्यत्वेऽपि च धूमादेर्न सोंऽशोऽनुमितौ मतः |
व्यभिचाराच्छराच्छृङ्गाच्छरस्योत्पत्तिरीक्ष्यते || ७५६ ||
कार्यत्वान्नैव धूमादिरेति निश्चयहेतुताम् |
व्यभिचारहेत्वसद्भावादग्नेर्हेतुत्वमेत्यसौ || ७५७ ||
अनेककारणं कार्यं यस्माद्दृष्टं शरादिकम् |
तस्मादव्यभिचारेण कार्यमप्येति हेतुताम् || ७५८ ||
अपेक्षाऽप्यत्र लिङ्गोक्तेः कार्यादौ नैव जायते |
अकार्यश्चास्वभावश्च नालिङ्गं कृत्तिकोदयः || ७५९ ||
कृत्तिकात्वादिति ह्युक्तेर्नैव कार्यस्वभावयोः |
अपेक्षा जायते किंतु ह्यन्वयेतरमात्रतः || ७६० ||
अकार्यत्वास्वभावत्वादविनाभावमात्रतः |
उदयः कार्तिको लिङ्गं प्रत्यासत्तेर्भवेद्ध्रुवम् || ७६१ ||
रौहिणस्योदयस्यातो न स्वभावाद्यपेक्षते |
यतोऽतो न स्वभावादेर्हेतुत्वमुपपद्यते || ७६२ ||
नाऽऽत्मनि स्यात्स्वशब्दोऽत्र विरुद्धा स्वात्मनि क्रिया |
कार्यस्यापि स्वभावत्वं भवेदात्मीयवाचके || ७६३ ||
किमात्मैव स्वशब्देन किं वेहाऽऽत्मीय उच्यते |
स्वभाव आत्मनो भाव इति चेद्भवतो मतम् || ७६४ ||
स्व एवाऽऽत्मा स्वभावश्चेत्तदाऽन्यस्य ह्यसंभवात् |
व्यतिरिक्तस्य मेयस्य स्यादात्मैवाऽऽत्मनोऽनुमा |
तथाच पक्षहेत्वादेरनन्यत्वं प्रसज्यते || ७६५ ||
अथ स्वस्य स्वभावश्चेदात्मीयोऽर्थो विवक्षितः |
आत्मीयः शिखिनो धूमस्तस्यापि स्यात्स्वभावता || ७६६ ||
संवित्तिभावयोर्भेदो यथैवं तदभावयोः |
न भेदोऽनुपलब्धिर्वो नातो लिङ्गं कथंचन || ७६७ ||
एवं लौकिकतादात्म्यतदुत्पत्ती प्रतीरितम् |
अथ स्वप्रक्रियाक्लृप्तं स्वभावादि परीक्ष्यते || ७६८ ||
अन्यापोहनपक्षेऽपि शब्दव्यावृत्तिभेदतः |
न हेतोः स्यात्स्वभावत्वं क्रियात्वं च न विद्यते || ७६९ ||
वृक्षोऽयं शिंशपेत्यत्र त्वतृक्षार्थविविक्तकम् |
वृक्षव्यक्तिषु सर्वत्र रूपमस्ति किलेदृशम् |
अशिंशपाविविक्तं च तद्वदेवाभिधीयते || ७७० ||
तत्रावृक्षविविक्तेऽर्थे संकेतो वृक्षसंज्ञया |
अशिंशपाविविक्ते च संकेतः शिंशपेति च || ७७१ ||
वृक्षोऽयं शिंशपेयं च भवेद्व्यवहृतिस्ततः ||
शब्दार्थारोपणेनैव सविकल्पधियो जनिः || ७७२ ||
शब्दार्थापोहयोर्लिङ्गे ज्ञेया गमकगम्यता |
स्वभावकार्ये लिङ्गे स्तः स्वाभाव्यादि च लिङ्ग्यते || ७७३ ||
न तत्र तावद्विज्ञानं तद्ग्राह्येऽस्तीह वस्तुनि ||
स्वभावो वाऽथवा कार्यं विकल्पोऽयं मतो यतः || ७७४ ||
न वस्तुस्पृग्विकल्पत्वाच्छब्दालम्बनमात्रतः |
शब्दाः सन्तः कथं तेऽर्था ह्यर्हन्ति भवितुं क्वचित् || ७७५ ||
स्वभावकार्यतासिद्धिरनुमानसमाश्रयात् |
ताभ्यां चाप्यनुमासिद्धिरेवमन्योन्यसंश्रयः || ७७६ ||
अशिंशपानिवृत्तिर्हि न स्वभावो भवेद्यतः |
अवृक्षापोहरूपस्य तयोरत्यन्तभेदतः || ७७७ ||
अप्यधूमनिवृत्तिश्चानग्निव्यावृत्तिरूपिणः |
न कार्यं स्यात्स्वभावो वा तयोरत्यन्तभेदतः |
तद्व्यक्तेरग्निकार्यत्वान्न सा कार्यं भवेदतः || ७७८ ||
अथान्यापोहवद्वस्तु गम्यं गमकमेव च |
वक्तव्यं तत्र किं मानमदृष्टौ न त्रिरूपता || ७७९ ||
अशिंशपानिवृत्त्यात्मरूपं वस्त्वे चेन्मतम् |
अवृक्षापोहरूपं च तयोर्गमकगम्यता || ७८० ||
अशिंशपानिवृत्यात्म स्वभावाद्गमकं भवेत् |
अवृक्षात्मनिवृत्त्यात्म गम्यं च स्यात्तदेव तु || ७८१ ||
स्वपक्षसिद्धयेऽप्येवं क्लिश्यतोऽपि न सिध्यति ||
पक्षोऽयं बुद्धभक्तस्य यथा तदभिधीयते || ७८२ ||
अशिंशपानिवृत्तिर्वः कुतोऽज्ञायि प्रमाणतः || ७८३ |
प्रत्यक्षेण न तावत्सा तस्य सद्वस्तुमानतः |
लिङ्गान्तरस्य चाभावान्नापि लिङ्गात्प्रसिध्यति || ७८४ ||
उपलप्स्यामहे शब्दादेवैनामिति चेन्मतम् |
अनादिमद्व्यवहृतेः संबन्धस्य च सिद्धितःस || ७८५ ||
किंमानपूर्वकोऽस्यार्थसंबन्ध इति नोच्यते |
सिध्यत्येवं भवत्पक्षो दोषोऽपि स्यादनीप्सितः || ७८६ ||
एवं यतोऽभ्युपगतौ लिङ्गं स्याच्छब्द एव तु |
न स्वभावोऽथवा कार्यं प्रतिज्ञा च मृषा भवेत् || ७८७ ||
त्रिष्वेव त्वविनाभावादिति योक्ता प्रयत्नतः |
प्रतिज्ञार्थस्य संत्यागो न युक्तः शाक्यभिक्षुभिः || ७८८ ||
ननु चाशिंशपाद्यर्थविविक्तोऽर्थः प्रतीयते |
शब्दादेव तु तज्ज्ञानादवृक्षार्थमतिर्भवेत् || ७८९ ||
अशिंशपानिवृत्तिर्या काऽसाविह भवन्मता |
नाभावोऽसौ यतोऽभावो मतो वोऽनुपलब्धितः || ७९० ||
शिंशपानुपलब्धिश्चेदन्यव्यावृत्तिरूपतः |
ततोऽभावात्तथा सिद्धोऽवृक्षाभावोऽपि सर्वदा || ७९१ ||
उपलब्ध्यभावतो नैवं यथा तदभिधीयते |
कोऽभावानुपलब्ध्योर्वो भेदः स्यादिति कथ्यताम् || ७९२ ||
ननूपलब्ध्यभावो योऽनुपलब्धिः स उच्यते |
भावाभावस्त्वभावोऽपि प्रसिद्धं जगति द्वयम् || ७९३ ||
सत्यमेवं तथाऽप्यत्र प्रष्टव्यमवशिष्टते |
किंचोपलब्ध्यभावेन सा सिद्धा किं ततोऽन्यतः || ७९४ ||
घटाभावं घटो यद्वद्धटाभावत्वकारणात् |
मिनोति नाऽऽत्मनोऽभावमुपलब्धिस्तथैव च || ७९५ ||
माभावस्याप्यभावेऽस्मिन्संसिद्धेरनुभूतितः |
सैवातोऽनुपलब्ध्युक्त्या भवद्भिरुपवर्ण्यते || ७९६ ||
भावाभावोऽपि किंचातः शृण्वतो यद्भविष्यति || ७९७ ||
उपलब्ध्या विनाऽभावाद्यद्यभावः प्रसिध्यति |
तदोपलब्ध्यभावोऽसौ यो भावो भवतोच्यते || ७९८ ||
यदि तद्व्यतिरेकेण तदा वक्तव्यमेव ते ||
किंभूतं ते तदा चित्तमभावप्रसमीक्षणे || ७९९ ||
उपलब्ध्यभावं मुक्त्वेह नान्यादृक्चित्तमीक्ष्यते |
किंचोपलब्धितः सर्वसिद्धिमाप्नोति नान्यथा || ८०० ||
न तादात्म्यतदुत्पत्ती मिथोऽयोगादपोहयोः |
न स्वलक्षणयोस्तद्वन्नाप्यपोहवतोस्तयोः || ८०१ ||
नासत्सद्व्यतिरेकेण नासता च सदन्वितम् ||
सति नासदभावोऽपि ह्युक्तं तादात्म्यमागमात् || ८०२ ||
यथाऽसत्सति संवित्तौ सदप्येवं प्रतीयताम् |
तदेतदिति च स्पष्टं श्रुतिरैकात्म्यमब्रवीत् || ८०३ ||
न च भेदमनाश्रित्य स्वभावादि प्रसिध्यति ||
योगस्य भेदनिष्ठत्वान्न च भेदः पुरोक्तितः || ८०४ ||
स्रजि सर्पादिकः क्लृप्तो नाभिन्नो भिन्न एव वा |
यथोक्तन्यायमार्गेण स्वभावादि ततः कुतः || ८०५ ||
एवमागमतः सिद्ध ऐकात्म्येऽनुभवाश्रयात् ||
नान्यसिद्धान्तसंसिद्धिर्लभ्युते सर्वतार्किकैः || ८०६ ||
स्वोक्त्यैवाह्नुतेः कृत्स्नवस्तुनोऽतो न यत्यते |
निराचिकीर्षया शून्यवादिनोऽविषयत्वतः || ८०७ ||
न मृत्यवः स्वभावोऽस्य कार्याणि करणानि च ||
कुतस्तदिति चेदाह स वा इति परा श्रुतिः || ८०८ ||
स्वप्नो भूत्वा यथाऽत्येति मृत्यो रूपाण्यसङ्गतः |
आत्मैकस्मिन्नपि तनौ म्रियमाणस्तथैव सः || ८०९ ||
शरीरमिति वाक्येन जायमानविशेषणम् |
क्रियते न स्वतस्तस्य जन्माद्यैः संगतिर्यतः || ८१० ||
मोहाल्लिङ्गात्मनोत्क्रान्तः श्रुतकर्मानुरूपतः |
मिथ्याभिमानतो देहं यदाऽऽत्मेत्यभिमन्यते || ८११ ||
देहं संपद्यमानोऽजस्तदाऽऽत्मा जायते खवत् ||
घटादिजन्मना तद्वत्तन्नाशे म्रियतेऽमरः || ८१२ ||
संपद्यमान एवाऽऽत्मा जायते म्रियते यतः ||
न तत्पूर्वं तदूर्ध्वं वा तेन वा अवधारणम् || ८१३ ||
पाप्मेति देहसंबन्धहेतुमात्रमिहोच्यते |
आ विरिञ्चात्तथाऽऽस्थाणोः सर्वं कर्मात उच्यते || ८१४ ||
ब्रह्मादीनां शरीराणि श्वसूकरशरीरवत् |
यतो जिहासितान्येव तस्माद्धर्मेऽपि पाप्मगीः || ८१५ ||
दुःखाभावः सदेहस्य नैवास्तीति श्रुतेर्वचः |
तस्माद्दैवोऽप्यनर्थः स्याद्देहो नाशाच्च सर्वदा || ८१६ ||
कर्म नाऽऽरभते यावद्दुःखादिफ़लमात्मनः |
असत्समं भवेत्तावत्तदपूर्वात्मना स्थितम् || ८१७ ||
शरीरं पाप्मनां कार्यं धर्माधर्मात्मनामिदम् |
तस्मिन्नात्माभिमानो यः सा संपत्तिरविद्यया || ८१८ ||
देहकर्मक्ष्ये देहपातश्चास्य यदा तदा ||
पाप्मनः कर्मकार्याणि विजहात्यमृतोऽव्ययः || ८१९ ||
जहाति मृत्यो रूपाणि मृतिस्वप्नादिभूमिषु |
न तु मृत्युमृते ज्ञानाज्जहात्यात्मा निजं तमः || ८२० ||
पाप्मादिप्रकृतादानत्यागाभ्यामनिशं यथा |
धिया समानः सन्नात्मा संसरत्या विमोक्षतः || ८२१ ||
परलोकेहलोकौ च तथैवायमविद्यया |
मृतिजन्मप्रबन्धेन संसरत्या विमोक्षतः || ८२२ ||
यत एवमतः सिद्धा देहादिभ्योऽन्यताऽऽत्मनः |
तत्संयोगवियोगाभ्यां स्रग्वस्राभरणादिवत् || ८२३ ||
न हि च्छिन्नेन कर्णेन तद्वानस्मीति मन्यते |
यथैवमवशिष्टेन तद्विशेषणहेतुतः || ८२४ ||
आभिमानिक एवास्य येन येन विशेष्यते |
आत्माऽविशेषणोऽतः स्यात्स्रगाभरणवस्रवत् || ८२५ ||
ननु न स्तोऽस्य लोकौ द्वौ यावात्मा संचरत्ययम् |
मृत्युजन्मप्रबन्धेन जाग्रत्स्वप्नाख्यलोकवत् || ८२६ ||
स्वप्नजागरितौ लोकौ यथा प्रत्यक्षमानतः |
परलोकेहलोकौ तु न तथा मानगोचरौ || ८२७ ||
प्रात्यक्ष्यादस्य लोकस्य नास्त्याशङ्काऽस्ति तां प्रति |
परलोकेऽपि नाऽऽशङ्का तत्सिद्धेरागमात्सदा || ८२८ ||
प्रत्यक्संवित्प्रमाणत्वं परलोकेहलोकयोः |
स्वप्नवन्नान्यमानत्वमित्यस्तित्वं विवक्षितम् || ८२९ ||
इत्याशङ्क्योत्तरो ग्रन्थस्तस्य वा इति भण्यते |
इत्येष तावत्संबन्धस्तथाऽन्योऽप्यभिधीयते || ८३० ||
आत्मा ज्योतिरिति ह्येकः समान इति चापरः |
पाप्मनो विजहातीति पदार्थाः सूत्रितास्रयः || ८३१ ||
स्वप्नेन निर्णयो वाच्य एतेषामित्यतोऽधुना |
तस्येति वर्ण्यतेऽथेदं विधिना येन तच्छृणु || ८३२ ||
अयं चाप्यभिसंबन्धस्तथा चान्याऽपि वर्ण्यते |
स्वयंज्योतिर्य आत्मोक्तस्तस्याविद्याक्रियोद्भवाः || ८३३ ||
कर्मोपभोगसिद्ध्यर्थं वर्ण्यन्ते भूमयोऽधुना |
इदं जन्म परं चैव स्वप्नस्तन्मध्यगस्तथा || ८३४ ||
भावि यज्जन्म यच्चेदं प्रत्यक्षमनुभूयते |
एते एव विभोः स्थाने द्वे एवेत्यवधारणात् || ८३५ ||
ननु स्वप्नोऽपि लोकोऽस्य कथं स्यादवधारणम् |
द्वे एवेति, न संध्यत्वात्स्वप्नस्य स्थानयोर्द्वयोः || ८३६ ||
संध्यं तृतीयमित्युक्तिः पूरणप्रत्ययश्रुतेः |
न स्थानान्तरनिद्दनुत्यै यत्तूक्तमवधारणम् || ८३७ ||
तदयोगव्यवच्छित्त्यै नान्ययोगव्यपेक्षया |
तस्मिन्संध्य इतीदं च तथा सति समञ्जसम् || ८३८ ||
स्वप्नेहलोकयस्तावत्सत्त्वं प्रत्यक्षगोचरम् |
परलोकस्य सद्भावे किं प्रमाणमितीर्यताम् || ८३९ ||
अस्मिन्नेव तु स स्वप्ने स्थाने तिष्ठन्प्रपश्यति ||
इमं लोकं परं चाऽऽत्मा कर्मज्ञानादिसंस्कृतः || ८४० ||
भूतजन्मनि यद्भुक्तं कर्म तद्भावनाञ्जितः |
पौर्वदैहिकमेवातो वयस्याद्येऽभिवीक्षते || ८४१ ||
मध्ये वयसि कार्कश्यात्कारणानामिहाऽऽर्जिताः |
प्रायेण वीक्षते स्वप्ने वासनाः कर्मणो वशात् || ८४२ ||
वियासुः परलोकं तु कर्माविद्यादिसंवृतः |
भाविनो जन्मनो रूपं स्वप्ने प्रायेण पश्यति || ८४३ ||
भुक्तत्वादविवक्षेह व्यतिक्रान्तस्य जन्मनः |
परलोकेहलोकौ तु गृह्येते संध्यसिद्धये || ८४४ ||
सुखेन दर्शनं तावदैहिकस्येह जन्मनः ||
यथा तु परलोकस्य तथाऽथेत्यभिधीयते || ८४५ ||
स्वप्नस्थानं समाश्रित्य परलोकं प्रपश्यति |
विधिना केन किंचाऽऽत्मा समाश्रित्य प्रपश्यति || ८४६ ||
अथैतदुच्यते स्पष्टं तद्यथाबत्प्रतीयताम् |
येनाऽऽक्रामत्युमुं लोकं सोऽस्याऽऽक्रम इहोच्यते || ८४७ ||
यादृक्साधनमस्येह परलोकाप्तये चितम् ||
आक्रमः स यथा यस्य सोऽयमात्मा यथाक्रमः || ८४८ ||
यथाक्रमो यथोपायो विद्याकर्मादिलक्षणः |
परलोकोन्मुखीभूतं तमाश्रित्याऽऽक्रमं स्वकम् || ८४९ ||
स्थानं निर्माय संध्याख्यं विपाकानुभयानयम् |
अधर्मधर्मयोरात्मा दुःखानन्दान्प्रपश्यति || ८५० ||
पाप्मनोऽधर्मकार्याणि तथाऽऽनन्दांश्च धर्मजान् |
आगमादन्यतः साक्षान्न तु पापादिदर्शनम् || ८५१ ||
धर्माधर्मप्रयुक्तो वा देवतानुग्रहात्तथा |
आनन्दान्पाप्मनश्चित्रान्स्वप्न आत्मा प्रपश्यति || ८५२ ||
इह जन्मन्यसंभाव्यं स्वप्ने यस्मात्प्रपश्यति ||
परलोकाश्रयं तादृक्तस्मात्स्वप्नसमीक्षणम् || ८५३ ||
संध्यस्वप्नविधिस्तावदेवं समुपवर्णितः ||
परलोकप्रसिद्ध्यर्थं तस्य वा इति वाक्यतः || ८५४ ||
यदुक्तं विरहेऽशेषसूर्यादिज्योतिषामयम् |
पुमान्व्यवहरत्यात्मज्योतिषैवेति लिङ्गतः || ८५५ ||
भान्वादिसर्वज्योतिर्भ्यो विविक्तोऽयं पुमानिति |
क सिद्ध इति वक्तव्य यथोक्तार्थप्रसिद्धये || ८५६ ||
स्वयंज्योतिःप्रसिद्धिर्वा पूर्वमुक्ताऽनुमानतः |
साक्षादव्यवधानेन तत्प्रसिद्धिरथोच्यते || ८५७ ||
स स्वयंज्योतिरात्मैव बाह्यज्योतिर्विवर्जितः |
यथा भवति साक्षाच्च तथेदमभिधीयते || ८५८ ||
यत्र यस्यामवस्थायां स्वपितीत्यभिधीयते |
पुरुषोऽजं स्वमात्मानं तदाऽपीतो भवत्ययम् || ८५९ ||
जाग्रत्कर्मक्षयादात्मा बाह्यदेहाभिमानतः |
व्युत्थाय स्वप्रधानः सन्स्वप्नमायां समीक्षते || ८६० ||
प्रवृत्तं फ़लदानाय यदिदं जन्म वर्तते |
अस्येति लोकशब्देन तदेतदभिधीयते || ८६१ ||
जुहोत्यादिक्रियाद्वारा यस्मात्सर्वमवत्ययम् |
सर्वावानिति तेनायमात्मा देहान्त उच्यते || ८६२ ||
कृत्स्नं जगदुपादाय क्रियैकैकस्य सिध्यति |
जुहोत्यादिर्जगद्धेतुः सर्वावानुच्यते ततः || ८६३ ||
अद्यात्मादिविभागेन सर्वा वाऽस्याऽऽत्मनो यतः |
भूतभौतिकमात्राः स्युः सर्वावानुच्यते ततः || ८६४ ||
सर्वावतोऽस्य देहस्य स्वप्नभोगप्रसिद्धये |
आदाय वासनामात्रां स्वप्नमायां तनोत्ययम् || ८६५ ||
अध्यात्मादिविभागेन मात्रा जागरिते यथा |
भोगेनेहापचीयन्ते प्रचीयन्ते च कर्मभिः || ८६६ ||
स्वप्नभूमावपि तथा कर्मणोत्थापिता इमाः |
क्षयवृद्धिप्रबन्धेन मात्राः स्युर्वासनात्मिकाः || ८६७ ||
धिया धियेति च तथा प्रागेतदुपपादितम् |
ह्रासवृद्धिप्रबन्धेन यथेदं वर्तते जगत् || ८६८ ||
स्वयमेव विहत्येति देवता प्रतिषेधकृत् |
विशेषणं स्वय मिति देहपाते ऽस्यभण्यते || ८२९ ||
स्वात्मापसर्पणाद्देहं निःसंबोधं करोति यः |
सुषुप्सुः कर्मणां ध्वस्तौ विहत्येत्युच्यते ततः || ८७० ||
भान्वाद्यनुग्रहाद्बोध आत्मनश्चक्षुरादिषु |
देहस्य व्यवहारार्थं देहव्यवहृतिस्तथा || ८७१ ||
आत्मकर्मप्रयुक्तैव धर्मादिफ़लभुक्तये |
कर्मणः फ़लभोगान्ते देहो यस्मात्पतत्ययम् || ८७२ ||
निर्मायेति स्वयं तद्वदात्मकर्मव्यपेक्षया |
स्वप्नप्रपञ्चनिष्पत्तिर्यस्मात्तस्माद्विशेषणम् || ८७३ ||
अपास्ताशेषकरणदैवतस्यापि चाऽऽत्सनः |
क्रियाकारकसिद्ध्यर्थं भावनैवास्य कारणम् || ८७४ ||
निर्मातव्योऽथ भोक्तव्यो यो लोकोऽभूदिहाऽऽत्मनः ||
तेन तेन स्वरूपेण भावना व्यवतिष्ठते || ८७५ ||
अपेतकारकत्वोऽपि कर्मोत्थापितभावनः |
भावनाकारकेक्षित्वादात्मैकः कारकायते || ८७६ ||
जाग्रतो यदुपात्तं प्राग्भावनालक्षणं स्वयम् |
भास्वद्धीसंश्रयं ज्ञानं भाःशब्देन तदुच्यते || ८७७ ||
बुद्ध्यादिकरणोत्थाया व्यावृत्त्यर्थं विशेषणम् |
स्वेनेति भासः प्रत्यक्चिदभिव्यक्तिकृतोऽभिधा || ८७८ ||
स्वशब्दाविह विज्ञेयावात्मीयात्मार्थवाचिनौ |
भाज्योतिरनुरोधेन सामर्थ्यादेव कारणात् || ८७९ ||
परार्था भावना यस्मात्स्वार्थं ज्योतिश्चिदात्मनः |
उक्तार्थवाचिनौ तस्मात्स्वशब्दौ समुदाहृतौ || ८८० ||
स्वयंज्योतिरिति प्रोक्तो निष्क्रियोऽकारकोऽफ़लः |
यः स एव स्वयंज्योतिर्ज्योतिःशब्देन भण्यते || ८८१ ||
निःशेषलोकधीवृत्तिसाक्षिणैवाविकारिणः |
प्रतीच ईदृशी वृत्तिः स्वपीतीत्यभीधीयते || ८८२ ||
पीताध्यात्मादिकज्योतिर्जाग्रच्छब्दादिवर्जितः |
वासनोपाधिरात्मैकः स्वयंज्योतिरितिर्यते || ८८३ ||
मातृमानप्रमेयादिसामग्नी वासनात्मिका |
स्वप्ने भाःशब्दवाच्याऽस्य स्वयंज्योतिप आत्मनः || ८८४ ||
प्रमातृत्वादिका सर्वा प्रथते विषयात्मना |
भावना स्वार्थरूपस्य प्रतीचोऽलुप्तचक्षुषः || ८८५ ||
मातारं मेयसंबद्धं जाग्रद्भूमौ यथेक्षते |
निष्क्रियो वासनाराशिं स्वप्नभूमौ तथेक्षते || ८८६ ||
स्वयंज्योतिरयं प्रत्यङ्सर्वसाधननिस्पृहः |
कूटस्थो वासनाः स्वप्ने चिदाभासाः करोत्ययम् || ८८७ ||
तत्संनिधौ चिदाभत्वं कार्यकारणवस्तुनः |
यत्तदस्याऽऽत्मनो मोहाद्द्रष्टृत्वमुपचर्यते || ८८८ ||
ज्योतिषाऽकारकेणाऽऽत्मा वर्ततेऽसंस्पृशन्परम् |
चिदाभा वासनाश्चैवं संगतिर्न तयोर्मिथः || ८८९ ||
यथा जात्यमणेः शुद्धा ज्वलन्ती निश्चला शिखा |
संनिध्यसंनिधानेषु घटादीनामविक्रिया || ८९० ||
निःशेषबुद्धिसाक्ष्येवं परमात्मप्रदीपकः |
संनिध्यसंनिधानेषु धीवृत्तीनामविक्रियः || ८९१ ||
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते |
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः || ८९२ ||
यदेवं वर्तनं श्रुत्या स्वपितीति तदुच्यते |
इत्थंभूते तृतीयाऽतः स्वेन भासेति गृह्यते || ८९३ ||
सामग्र्यभावान्नैवेह कर्तृत्वादि विवक्ष्यते |
आत्मनोऽकारकत्वं च प्राधान्येन विवक्षितम् || ८९४ ||
भान्वादिबाह्यज्योतिर्भिः संकीर्णः प्रागभूदयम् |
अन्यस्य ज्योतिषोऽभावात्स्वयंज्योतिः पुमानयम् || ८९५ ||
नान्यत्र कारणाद्वृत्तिः कार्याणां जागरेऽपि हि |
कारणं त तमस्व्यात्मा नातः स्वप्ने मनस्थितिः || ८९६ ||
ननु जाग्रच्छरीरादेर्मात्रोपादानमीरितम् |
तस्मिन्सति स्वयंज्योतिः कथमात्माऽभिधीयते || ८९७ ||
सत्यमेवं तथाऽपीदं मात्रादानं परात्मनः |
सर्वदा विषयीभूतं गन्धर्वनगरादिवत् || ८९८ ||
एतस्मिन्ननृतोपाधौ शक्यो दर्शयितुं परः |
वासनालक्षणे साक्षात्स्वयंज्योतिःस्वभावकः || ८९९ ||
सर्वोपाधिविनिर्मुक्तौ नैव शक्यः स ईक्षितुम् |
सुषुप्त इव तेनासन्मात्रादानमिदं कृतम् || ९०० ||
ननु जाग्रद्वदीक्ष्यन्ते ग्रहीतृग्रहणादयः |
स्वयंज्योतिः कथं तेषु सत्सु स्वप्नेऽभिधीयते || ९०१ ||
नैतदेवं, कुतो जाग्रद्वैलक्षण्यात्मकत्वतः |
स्वप्नस्य देहबुद्ध्यादेः स्वप्नवृत्तावसंभवात् || ९०२ ||
आत्मबुद्धिमनश्चक्षुरालोकार्थादिलक्षणम् |
जाग्रदेव न तु स्वप्नो भावनामात्रशेषतः || ९०३ ||
आविश्चिकीर्षुः साक्षादिममर्थं च श्रुतिः परा |
न तत्रेति प्रवृत्तैषा प्रत्यगात्मविशुद्धये || ९०४ ||
कर्मकृद्धिषणान्तो यः कामाविद्यासमन्वितः |
स्वापबोधाविमौ तस्य न तु तत्साक्षिणो दृशेः || ९०५ ||
कूटस्थज्योतिषैवाऽऽस्ते स्वप्नस्थानेऽक्रियोऽद्वयः |
चिदाभया वासनया तत्साक्षित्वं प्रकल्पते || ९०६ ||
तत्प्रयोक्तृक्रियाभावाद्वुद्ध्यादिज्योतिपामिह |
न व्यापृतिरतः प्रत्यङ्ज्योतिपा स्वेन वर्तने || ९०७ ||
जाग्राद्वस्तूनि सर्वाणि भावनामात्ररूपताम् |
जाग्रत्कर्मक्षये यान्ति स्वप्नकरमोद्भवे सति || ९०८ ||
ता भावना उपादाय प्रत्यङ् स्वप्ने रिरंसया |
करोत्येष रथाद्यर्थं स्वप्नभोगप्रसिद्धये || ९०९ ||
करणं कर्म कर्ता च कर्मैतत्कारकात्मकम् |
प्रत्यङ्भोहैकनिष्ठं सच्चिदाभत्वात्तदात्मनि || ९१० ||
कार्यकारणरूपेण कर्मैतत्प्रथते जगत् |
आत्मन्येतत्समध्यस्तमात्माविद्यैकहेतुतः || ९११ ||
सर्वस्य कर्मणोऽत्यन्तमात्माऽकर्ता विलक्षणः |
तत्संहतः स्वयं त्वात्माऽसंहतो निर्गुणः शुचिः || ९१२ ||
अविद्यया स्वमात्मानमशुद्धं मन्यते यदा |
जाग्रत्स्वप्नसुषुप्तानि तदैतानि प्रपद्यते || ९१३ ||
रथा दार्वाद्यसद्भावान्न सन्ति स्वप्नदर्शने |
न सन्त्यश्वादयस्तद्वद्रथयोगाः सवर्त्मका || ९१४ ||
रथादीन्सृजतेऽथात्र जाग्रत्कर्मादिहेतुकान् |
अविद्याकामकर्माणि सृष्टिबीजमिदं दृशेः || ९१५ ||
कर्मणो गमनस्येह साधनाभावहेतुना |
स्वप्ने मृषात्वमाहैवं गमनादेः श्रुतिः स्वयम् || ९१६ ||
न कर्मफ़लमप्यत्र स्वप्ने तद्धेत्वसंभवात् |
नाऽऽनन्दा अपि तत्रेति ह्यतः श्रुतिरभाषत || ९१७ ||
आह् लदाः स्युरिहाऽऽनन्दा हर्षाश्चात्र मुदस्तथा |
प्रकर्षगुणसंबन्धाः प्रमुदो मुद एव तु || ९१८ ||
पल्वलास्त्विह वेशान्ताः प्रसिद्धार्थं तथोत्तरम् |
इत्येवमसतामेव स्रष्टाऽऽत्मा स्वात्ममायया || ९१९ ||
चिदाभकारकोद्भूतवासनाकर्महेतुकः |
स्वयं निर्माय सृजत इत्यकर्मापि भण्यते || ९२० ||
अविचारितसंसिद्धं क्रियाकारकलक्षणम् |
जाग्रद्भूमावपि मतं किमु स्वप्नैकनीडगम् || ९२१ ||
रथादिवासनानीडचित्तवृत्तिसमुद्भव -
कर्महेतुत्वतः कर्ताऽकर्ताऽप्यात्माऽभिधीयते || ९२२ ||
अकर्तुरपि कर्तृत्वं स्वात्माज्ञानैकहेतुतः |
तदन्यस्येह कार्यत्वात्कर्ताऽऽत्मैव तमोवधिः || ९२३ ||
स्वप्नवृत्तावुपादानं साधनं वा न विद्यते |
रथादेरसतस्तस्माद्द्रष्टैवाऽऽत्मा न कारकः || ९२४ ||
अस्ति यत्राप्युपादानं साधनं वाऽस्या जागरे || |
तत्राप्यात्मचिदाभासमनोबुद्ध्यादिकारकैः || ९२५ ||
रथादिवासनानाडधीवृत्त्युद्भवकारणम् |
कर्म निर्वर्त्यते तेन स हि कर्तेति भण्यते || ९२६ ||
भान्वादेरिव कर्तृत्वं कर्त्राद्यर्थावभासनात् |
बुद्ध्यादिकर्तृसाक्षित्वात्कर्तृत्वाद्यात्मनो भवेत् || ९२७ ||
क्रियाकर्तृत्वमेवास्य हेतुर्बुद्ध्यादिसंगतौ |
यथावस्त्वपरिज्ञानाद्धीति हेतावतः पदम् || ९२८ ||
स्वयंज्योतिष्ट्वमस्योक्त्वा बुद्ध्यादेश्चातिरेकताम् |
मन्त्राञ्जगादाथात्रार्थे ब्राह्मणोक्तेरनन्तरम् || ९२९ ||
स्वप्नवृत्त्या विहत्येमं जाग्रद्देहं क्रियाक्षयात् |
असुप्तो भावनारूपान्सुप्तान्प्राणान्प्रपश्यति || ९३० ||
असुप्तोऽकर्महेतुत्वात्सुप्तान्प्राणान्क्रियोत्थितेः |
कूटस्थदृष्टिस्वाभाव्यत्स्वप्न आत्मा प्रपश्यति || ९३१ ||
प्राणादिशुक्रमादाय कृत्वा तद्भावनामयम् |
लोकमात्माऽक्रियः स्वस्थश्चाकशीत्यभिपश्यति || ९३२ ||
क्षीणस्वप्नोत्थसंभोगो जाग्रद्भोगाश्रयं पुनः |
याति बुद्ध्यादिकं स्थानं पुमान्हंसाभिधो ध्रुवः || ९३३ ||
पर्यायेण यतश्चोभौ लोकौ हन्त्येकलः स्वतः |
एकहंस इति प्रोक्तः पुराणज्ञैस्ततः प्रभुः || ९३४ ||
हिरण्यं ज्योतिर्विज्ञानं तावन्मात्रसतत्त्वकः |
हिरण्मयस्ततो देवः स्वार्थेऽत्र मयडिष्यते || ९३५ ||
परस्य पुरुषस्यायं तदबोधप्रकल्पनात् |
साक्षिमात्रादिकस्तस्मात्पारुषोऽयमितीर्यते || ९३६ ||
पूरणान्निखिलस्यास्य कार्यकारणवस्तुनः |
पुरुषोऽयं भवेदात्मा पूर्णत्वाद्वाऽद्वयात्मनः || ९३७ ||
हानेनाङ्गविकल्पानां नवानां संचयेन च |
हंसत्वमृषयः प्राहुरात्मनः पारदर्शिनः || ९३८ ||
प्राणेन ह्यवरं रक्षन्मरणाद्देहकं परः |
बहिर्देह चरित्वाऽथ पुनरैति यथागतम् || ९३९ ||
नाडीस्त्यक्त्वा यतः स्वप्ने जाग्रद्भोगप्रदाः पुमान् |
स्वप्नभोगप्रदा याति बहिर्नीडादतस्तदा || ९४० ||
कर्मणोद्भाविता यत्र वासना कामरूपिणी |
तामादायैति देहं स्वं हंस आत्माऽमृतोऽव्ययः || ९४१ ||
कर्मज्ञानानुरूपेण रूपमुच्चावचं मुहुः |
स्वप्नमायाप्रपञ्चस्थ आत्माऽऽप्नोतीव निष्क्रियः || ९४२ ||
नर्मार्थो जक्षतिर्ज्ञेयो हर्षार्थो मोदतिस्तथा |
अविद्यया भयं चेह स्वप्ने तद्धेत्वसंभवात् || ९४३ ||
आराममेव मायोत्थं स्वप्ननिर्माणलक्षणम् |
मायिनस्तस्य पश्यन्ति न तं पश्यति कश्चन || ९४४ ||
बुद्ध्याद्देर्व्यतिरिक्तत्वं स्वयंज्योतिष्ट्वमागमात् |
आत्मनः प्रतिपाद्याथ लोकतोऽपि विभाव्यते || ९४५ ||
सुप्तं न बोधयेद्गाढमिति वादो हि लोकिकः |
किमर्थमिति चेत्तत्र लोकः कारणमीक्षते || ९४६ ||
प्रबोधनाडीस्त्यकत्वाऽऽत्मा स्वप्ननाडीरयं गतः |
इति लोकप्रसिद्धत्वात्तस्मिल्लोकोऽनुशास्ति तत् || ९४७ ||
नाडीव्यत्यासगमनशङ्कयवानुशासति |
सुप्तं न बोधयेद्गाढमिति तद्देषदर्शिनः || ९४८ ||
यथायोगमयं नाडीर्गाढं सुप्तः प्रबोधितः |
न प्रपद्येत तेनायं स्यात्सुदुःखभिषक्क्रियः || ९४९ ||
देहप्रवेशनिर्याणहेतोर्देहाद्गृहादिवत् |
बुद्ध्यादिव्यतिरिक्तत्वमात्मनोऽस्यावसीयताम् || ९५० ||
अध्यात्मादिपदार्थेभ्यो विविक्तं स्वात्मनि स्थितम् |
तं न पश्यत्यहो कष्टं दौर्भाग्यं दुष्टचेतसाम् || ९५१ ||
प्रत्यक्षगोचरं देवं लोकं चातिप्रमादिनम् |
दृष्ट्वा श्रुतिः शिरस्ताडमनुक्रोशति दुःखिता || ९५२ ||
प्रत्यक्षतममप्येनं वितमस्कं स्वयंस्थितम् |
अहो कष्टं न पश्यन्ति कं याम शरणं वयम् || ९५३ ||
स्वयंज्योतिष्ट्वमारभ्य यच्छ्रुत्योक्तमिहाऽऽत्मनि |
उच्यते पूर्वपक्षोऽयं तस्य सिद्धान्तरूपिणः || ९५४ ||
स यत्रेति ह्यतः पूर्वं पूर्वपक्षत्वहेतुतः |
अथो खल्वाहुरित्यादिग्रन्थं पश्यत्तथा क्रमात् || ९५५ ||
स्वप्नस्य जाग्रत्स्थानत्वमथो खल्वितिवाक्यतः |
यानि ह्येवेति हेतूक्तिः प्रतिज्ञातार्थसिद्धये || ९५६ ||
जाग्रत्समीक्षणं यासु पुंसो नाडीषु तास्विदम् |
स्वप्नेक्षणं विजानीयान्नान्यत्रेति विनिश्चयः || ९५७ ||
स्वप्ने तमेव चाऽऽत्मानं सुप्तोऽयमभिमन्यते |
यमनस्तप्रबोधस्थं न ततोऽन्यं कदाचन || ९५८ ||
जाग्रद्बन्धुपुरामपग्रश्वारामादिलक्षणान् |
स्वप्ने प्रत्यभिजानाति तानेव न ततोऽपरान् || ९५९ ||
अपूर्वमेव सं पश्येत्स्वप्नदृग्जाग्रतो यदि |
उक्तस्वप्नो भवेदन्यो यथा पूर्वगतस्तथा || ९६० ||
इत्येवमाहुः केचित्तु न तु तद्युक्तिमद्वचः |
अयुक्तिमद्यथा चैतत्तत्पूर्वं प्रतिपादितम् || ९६१ ||
अत्रायमित्यनेनात्र पूर्वपक्षनिराक्रिया |
न्यायेनोक्तेन पूर्वेण वक्ष्यमाणेन च ध्रुवम् || ९६२ ||
न जाग्रद्देशगः स्वप्नो जाग्रत्सामग्र्यभावतः |
अध्यात्माद्यर्थविरहे यतः स्वप्नान्प्रपश्यति || ९६३ ||
स्वयंज्योतिष्ट्वमस्योक्तं स्वप्ने चाकारकात्मता |
मृत्युरूपात्ययश्चैवं प्रतीचः पूर्ववाक्यतः || ९६४ ||
कामादयः स्वभावोऽस्य मृत्यवोऽथ न वा भवेत् |
इत्याशङ्क्य नृपो दोषं याज्ञवल्क्यमपृच्छत || ९६५ ||
पृष्टं वस्तु सुनिर्णीतं मयेतिप्रकृतोक्तितः |
निविवृत्सुं नृपो विप्रं भूयोऽपृच्छद्विमुक्तये || ९६६ ||
स्वयंज्युतिष्ट्वमुदितं मुक्तेरङ्गममन्यत || ९६७ |
न चाङ्गनिर्णयोक्त्यैव निर्णयं मन्यतेऽङ्गिनः |
यतोऽतो मोक्षमुद्दिश्य याज्ञवल्क्यमपृच्छत || ९६८ ||
आसङ्गप्रविवेकार्थं स वा इत्यादि भण्यते |
कामादिप्रविवेके हि मोक्षयोग्यत्वमात्मनः || ९६९ ||
कामाद्यात्मगुणश्चेत्स्यादनिर्मोक्षः प्रसज्यते |
न हि गुण्यविनाशेन तद्गुणस्य निराकृतिः || ९७० ||
रूपाण्येवायमात्माऽत्र मृत्योः स्वप्नेऽतिवर्तते |
न तु मृत्युं यतः स्वप्ने मोदत्रासादि दृश्यते || ९७१ ||
मोदत्रासादिको मृत्युः स्वभावो न यथाऽऽत्मनः |
तथाऽत ऊर्ध्वं प्रब्रूहि भगवन्मे विमुक्तये || ९७२ ||
सहस्रदानं तूक्तस्य स्वयंज्योतिष्ट्ववस्तुनः |
निर्णयाघाटविज्ञप्त्यै नाशेषप्रश्ननिर्णयात् || ९७३ ||
स्वयंज्योतिः स वा एष यः पुरा प्रतिपादितः |
स्वप्नभूमावसङ्गोऽसौ संप्रसादे प्रसीदति || ९७४ ||
अपां कतकसंपर्काद्यथाऽत्यन्तप्रसन्नता |
अपास्ताशेषसंसारभावनस्यवमात्मनः || ९७५ ||
स्वास्थ्यं प्रसन्नतैतस्मिन्सुषुप्ते भवतीत्यतः |
संप्रसादमिमं प्राहुः सुषुप्तं तद्विदो जनाः || ९७६ ||
मात्रादानं यदकरोदात्मा स्वप्नरिरंसया |
तत्क्षये स निरासङ्गः स्वात्मन्येव प्रसीदति || ९७७ ||
जाग्रद्व्यपेक्षया स्वप्ने किंचिच्छेषः प्रसीदति |
तस्याप्यस्तमयात्प्राज्ञे समिति स्याद्विशेषणम् || ९७८ ||
केवलाज्ञानमात्राधिरिह प्रत्यङ् व्यवस्थितः |
कारणात्मा यतस्तस्माज्जाग्रत्स्वप्नाख्यकार्यकृत् || ९७९ ||
कथं केन क्रमेणात्र प्रत्यागात्मा प्रसीदति |
इत्येतदधुनाऽऽचष्टेरत्वेत्यादिगिरा श्रुतिः || ९८० ||
स्वप्नभूमावयं रत्वा क्रीडां कृत्वाऽऽत्ममायया |
चरित्वा च विहृत्याऽऽत्मा वासनामात्रसाधनः || ९८१ ||
दृष्ट्वैवेत्येवशब्देन कारकत्वं निवार्यते |
पुण्यपापफ़लं चेह पुण्यपापगिरोच्यते || ९८२ ||
अस्य जाग्रदवस्थायामिन्द्रियार्थादिसंभवात् |
क्रिया निर्वर्त्यते सा च सुखादिफ़लदाऽऽत्मनः || ९८३ ||
स्वप्ने तु कारकाभावान्न क्रियासिद्धिरात्मनः |
चिदाभं वासनामात्रं प्रथतेऽतोऽविकारिणः || ९८४ ||
यतोऽत्र न क्रिया तस्मादवदध्रे श्रुतिः स्वयम् |
दृष्ट्वैवाऽऽत्मा न कृत्वेति प्रत्यङ् तस्मान्न कारकः || ९८५ ||
पुण्यपापफ़लं चेह पुण्यपापाभिधं मतम् |
कार्यं कारणवत्तस्मादुपचारात्समीरितम् || ९८६ ||
स्वप्नकर्मव्युपरमे ततः प्राज्ञे स्वयंप्रभः |
प्रसीदति परो देवः प्रतीच्येव परे पदे || ९८७ ||
पुराऽप्यसकृदात्माऽयं स्थानात्स्थानान्तरं गतः |
यतोऽतः पुनरित्येवं संप्रसादाप्तितोऽभिधा || ९८८ ||
आनुलोम्यं सुषुप्ताप्तिरेवमुक्तेन वर्त्मना |
तद्व्युत्थानं प्रतिलोम्यं स्वप्नादिस्थानसंचरः || ९८९ ||
प्रातिलोम्यार्थ एवातः प्रतिशब्दोऽयमिष्यते |
विपरीताऽऽगतिः स्वप्ने प्रतिस्थानं तथैत्यजः || ९९० ||
यथार्थे प्रतिशब्दोऽयं निश्चयार्थे निरित्ययम् |
अयनं गमनं च स्यादायो धातोरिणो घञि || ९९१ ||
श्रोत्रादिकरणान्यत्र मात्रादानस्य कारणम् |
योनिशब्दाभिलप्यं स्याज्जाग्रद्देहसमाश्रयम् || ९९२ ||
मात्रादानस्य या यस्य योनिरासीत्पुराऽऽत्मनः |
तामेवायं पुनर्योनिं स्वप्न आत्मा प्रपद्यते || ९९३ ||
यथाऽऽदानं कृतं पूर्वं मात्राणां स्वप्नसर्जने |
स्वप्न आदाय ता मात्राः स्वाप्नीं योनिं प्रपद्यते || ९९४ ||
प्रतिन्यायगिरा चास्य यथावर्त्माभिधीयते |
प्रतियोनिरवेणैव यथास्थानमिहोच्यते || ९९५ ||
यस्माद्यस्मादुपादाय मात्राः स्वप्नं चकार सः |
तत्र तत्रैव ता धत्ते मात्राः स्वात्मांशुभिः सह || ९९६ ||
येनैव वर्त्मना यातः पुनस्तेनैव वर्त्मना |
याति मात्राः समादाय कर्मवायुसमीरितः || ९९७ ||
स आत्मा पुण्यपापोत्थं फ़लं नानाप्रभेदकम् |
तत्र स्वप्नविधौ तिष्ठन्पश्यतीह समीक्षते || ९९८ ||
नैनं स्थानान्तरं प्राप्तं ग्रामाद्ग्रामान्तरं यथा |
शुभाशुभं यदद्राक्षीचत्साक्षादनुगच्छति || ९९९ ||
शुभाशुभक्रियैवेह पश्यतीत्यभिधीयते |
न तु यद्वास्तवं वृत्तं पश्यतीत्यक्रियात्मनः || १००० ||
तेनानन्वागत इतिप्रतिज्ञातार्थसिद्धये |
असङ्गो हीति हेतूक्तिः प्रतिज्ञार्थोऽथवा भवेत् || १००१ ||
यदैवं पूर्वमेव स्यात्तदा हेतुवचः स्फ़ुटम् |
तेनानन्वागत इति प्राक्लृतेनैव कर्मणा || १००२ ||
सासङ्गत्वं समाशङ्क्य प्रवृत्तैषा यतः श्रुतिः |
अनन्वागत इत्यस्य हेतुत्वं हिगिरोच्यते || १००३ ||
न कर्म कुरुते स्वप्ने कारकाणामसंभवात् |
फ़लमात्रमायं तत्र भुङ्के स्वाभासवर्त्मना || १००४ ||
न हि निष्पद्यते स्वप्ने क्रिया जागरिते यथा |
कर्त्रादिकारकस्थाने नातोऽन्वेत्यक्रियात्मनः || १००५ ||
यदि स्थानान्तरं प्राप्तमन्वियात्स्वप्नजा क्रिया |
शास्रारम्भो वृथैव स्यात्स्वप्ने को नापराध्यति || १००६ ||
अपेतसाधनस्यापि पश्यतः स्वप्नविभ्रमम् |
बिभर्ति वासनैवास्य क्रियाकारकरूपताम् || १००७ ||
फ़लसंभोगमात्रं च यस्मात्स्वप्ने समीक्ष्यते |
फ़लान्तरारम्भविधिर्नातः स्यादक्रियात्मनः || १००८ ||
न करोति यतः स्वप्ने क्रियामिव समीक्षते |
प्रक्रियाफ़लसंयोगो नातो बोधेऽस्य वीक्ष्यते || १००९ ||
तृप्तः स्वप्नेऽथ संबुद्धः क्षुत्परीतः प्रबुध्यते || १०१० ||
यस्मादनृतमेवेदं यत्किंचिदिह वीक्ष्यते |
प्रत्यङ्ङकारकस्तस्माल्लिप्यते न क्रियाफ़लैः || १०११ ||
स्वप्नस्कन्ननिमित्तं तु प्रायश्चित्तं यदुच्यते |
सत्येन्द्रियविकारत्वात्तच्चापि न निराश्रयम् || १०१२ ||
स्वप्नस्कन्नं यथा स्वप्ने यथा बोधेऽपि वीक्ष्यते |
आत्मचैतन्यवत्तस्मात्प्रायश्चित्तं तदुद्भवम् || १०१३ ||
एका तावदियं व्याख्या यथोक्तैषोपवर्णिता ||
व्याचक्षतेऽन्यथा चेदं वाक्येमतद्यथोदितम् || १०१४ ||
अनन्वागतवाक्येन विवेकः कर्मणः कृतः |
असङ्गवचसा त्वस्य कामनिर्मोक उच्यते || १०१५ ||
ननु नैव क्रिया साक्षाद्धानवृद्धी प्रतीष्यते ||
अपि जागरितस्थाने कामो हेतुर्यतस्तयोः || १०१६ ||
अकामस्य क्रिया यस्मान्निष्फ़लैव समीक्ष्यते |
स यथाकाम इत्यादि तथा चोर्ध्वं प्रवक्ष्यते |
इत्यस्य परिहारार्थमसङ्गो हीति भण्यते || १०१७ ||
यमासङ्गमिह स्वप्ने कामं त्वमनुपश्यसि |
स्वपतो न भवेत्काम इत्येतदभिधीयते || १०१८ ||
असङ्गो हीति वाक्येन तद्वतोऽसंभवादिह |
ग्रस्तमत्र मनः कामि वासनामात्रशेषतः || १०१९ ||
यतोऽतोऽसङ्ग एवायं पुरुषः स्वप्नभूमिगः |
बहिः कुलायादित्युक्तं पाप्मनो विजहाति च || १०२० ||
देहाश्रयादृते कामाः सन्ति नान्यत्र कुत्रचित् |
स्वप्नप्रपञ्चः सर्वोऽपि वासनामात्रमेव तु || १०२१ ||
व्याचक्षाणो यतः स्वप्नं ज्ञानमात्रं प्रभाषते || १०२२ |
जाने पुत्रायुतं जातं जाने पितरमागतम् |
तथाचेवगिरा युक्तान्स्वप्नान्व्याचक्षते जनाः || १०२३ ||
रथादेरसतो यद्वस्त्वप्ने निर्माणमीक्ष्यते |
शरीरेन्द्रियकामादेरसतस्तद्वदेव तु || १०२४ ||
रथेन्द्रियादिवत्तस्मात्कामोऽप्यत्र समीक्ष्यताम् |
स्वप्नेऽतोऽयं निरासङ्गः पुमानभ्युपगम्यताम् || १०२५ ||
कौटस्थ्यं यदि वा पुंसोऽसङ्गशब्देन भण्यते |
क्रियाश्लेषमृते यस्मान्नाध्यक्षफ़लसंगतिः || १०२६ ||
ननु कर्ता पुमानेष स हि कर्तेतिवाक्यतः |
नैवं स्वप्ने यतः पुंसः कर्तृत्वं भावनाकृतम् || १०२७ ||
कर्तृकार्यावभासित्वाज्जाग्रत्कालेऽपि चाऽऽत्मनः |
कर्तृत्वं न स्वतः स्वप्ने किमु वक्तव्यमिष्यते || १०२८ ||
अविद्यास्रोतसैवास्य क्रियाकारकताऽऽत्मनः |
तस्थचैतन्यबिम्बेन भुङ्केऽसौ कर्मणः फ़लम् || १०२९ ||
कर्त्रादिसाक्षिणोऽस्याभूत्कर्तृत्वं यत्पुराऽऽत्मनः |
स हि कर्तेति तस्यैव वचनं स्यात्पुनःश्रुतिः || १०३० ||
नन्वस्यैव तु तत्कर्म भावनापेक्षयाऽखिलम् |
प्रवर्तते कथं तस्य कर्तृत्वं विनिवार्यते || १०३१ ||
कामं प्रवर्ततां कर्म न च दोषोऽत्र कश्चन |
भावनेयं यतः कर्मगुण एव सती सदा |
स्वसाक्षिणं भावयन्ती न त्वसावात्मनो गुणः || १०३२ ||
पुष्णगन्धः पुटस्थोऽपि पुष्पस्यैव यथा तथा |
बुद्ध्यादिकारकस्थस्य भावना कर्मणो गुणः |
आत्मनस्तूचारात्स्यान्न तु साक्षाद्गुणो भवेत् || १०३३ ||
उत्पत्तौ भोगकाले च कर्माऽऽदायैव भावनाम् |
स्वात्मानं लभते यस्मात्तां विना तदनर्थकम् || १०३४ ||
कर्मणोऽपि तथाऽत्यन्तं प्रयोगैकसमाश्रयात् |
बुद्ध्याद्यर्थाभिसंबन्धपक्षतैवावसीयते |
न त्वात्मगुणता तस्य कर्मणः स्यात्कदाचन || १०३६ ||
प्रयोगापेक्षणेवाऽऽस्ते कर्म बुद्ध्यादिसंक्षये || १०३७ |
स्वात्मतः प्रतिलाभाय न त्वात्मानमपेक्षते |
सभावनमतः कर्म प्रतीचः प्रविविच्यते || १०३८ ||
तस्मात् कर्मगुणस्यैव कर्मस्थस्यैव सर्वदा |
साक्ष्यात्मा भावनारूपकामस्य स्वप्नसद्मनि || १०३९ ||
आसङ्ग आत्मनश्चेत्स्यात्साक्षाच्चैतन्यवद्गुणः |
न पश्येदात्मवत्कामं कर्मस्थं स्वप्रबोधयोः || १०४० ||
एवं चावस्थिते पक्षे श्रुत्याऽकारि समञ्जसम् |
प्रसिद्धवदुपादानमसङ्गो हीति सादरण् || १०४१ ||
न कर्मोपचयोऽतोऽत्र स्वप्ने जाग्रद्वदिष्यते |
सर्वासङ्गविनिर्मोकाद्वासनामात्रशेषतः || १०४२ ||
नायं कर्ममयो यस्मान्न च काममयः स्वतः |
प्रत्यगज्ञानतस्तस्मात्तन्मयत्वमिवेक्ष्यते || १०४३ ||
नानासाधनसंबन्धात्कर्तृत्वं जगतीक्ष्यते |
अयं त्वसङ्गो येनातो न करोति न लिप्यते || १०४४ ||
मूर्तामूर्ताद्यपह्नुत्या ह्यात्मनस्तत्त्वमब्रवीत् |
नातोऽनात्माभिसंबन्धः कूटस्थैकात्म्यहेतुतः || १०४५ ||
सुषुप्ते नन्वसंबोधाद्रत्वादि कथमुच्यते |
न त्वित्यपि तथा वाक्यं न बाह्यं चेति वक्ष्यति || १०४६ ||
स्वप्ने रत्वाद्यथ मतं नैवमप्युपपद्यते |
अनन्वागतगीः कुप्येत्स्वप्नेऽन्वेत्येव तत्कृतम् || १०४७ ||
यथा जाग्रत्कृतं कर्म कर्तारमनुगच्छति |
जाग्रत्स्थं स्वप्नकर्मैवं स्वप्ने समधिगच्छति || १०४८ ||
इत्येवं चोदिते केचित्परिहारं प्रचक्षते |
पदच्छेदेन कुशला अरत्वेत्येवमादिना || १०४९ ||
स यत्तत्रेत्यंसङ्गोक्तेर्नेदमप्युत्तरं भवेत् |
दृष्टिं तत्रापि चाध्यस्य परिहारं प्रचक्षते || १०५० ||
अस्ति भोगः सुषुप्तेऽपि तथाचाऽऽनन्दभुङ्भतः |
ऐश्वरो वाऽत्र भोगोऽस्ति सर्वस्थानाभिमानतः || १०५१ ||
कार्यभूमिगतो ह्यात्मा सुषुप्तं प्रसमीक्ष्यते |
कार्यस्य कारणव्याप्तेर्न सुषुप्तपरोक्षता || १०५२ ||
यदि वा स्वप्न एवास्तु रत्वादि यदुदीरितम् |
स्वप्नयोरभितः प्राज्ञादनन्वागतताऽप्यतः || १०५३ ||
त्रिधा त्रिधा वा क्लृप्तेः स्यादेकैकस्येत्यदोषता |
जाग्रत्स्वप्नसुषुप्तानां जाग्रत्स्वप्नसुषुप्ततः || १०५४ ||
कार्याकार्यादि यत्साक्षात्प्रमाणात्प्रसमीक्षयते |
जाग्रज्जागरितं तादृक्तत्स्वप्नो यन्मृषेक्षणम् || १०५५ ||
कामादिविषयासक्तेर्न किंचिद्विविनक्ति यत् |
जाग्रत्सुषुप्तं तादृक्स्यान्निर्विवेकस्वभावतः || १०५६ ||
सुप्तोऽपि कर्म कुरुते नरः स्वप्ने प्रबोधवत् |
स्वप्नजाग्रत्तथारूपं स्वप्नः स्वप्नात्मकोऽत्र यः || १०५७ ||
दृष्ट्वाऽपि यत्समाख्यातुं प्रबुद्धो नैव शक्नुयात् |
तादृक्स्वप्नसुषुप्तं स्यात्सुषुप्तं च त्रिधोच्यते || १०५८ ||
सुषुप्तजाग्रन्मूढः स्याच्छान्तोऽसौ स्वप्न उच्यते |
ऐकात्म्यतत्त्वासंबोधः सुषुप्तः प्राज्ञ उच्यते || १०५९ ||
त्रिविधत्वात्सुषुप्तस्व सर्वं रत्वादि युज्यते |
दृष्टान्तः संप्रसादो वा स्वप्नजाग्रदवस्थयोः || १०६० ||
यथा रत्वाद्यसंभाव्यं संप्रसादे तथैव च |
इतरत्रापि विज्ञेयं तत्र वस्त्वसमीक्षणात् || १०६१ ||
यत एवमतः कर्मकामदोषविवर्जितः |
पुरुषोऽयं स्वतः सिद्धो यथोक्तेनैव वर्त्मना || १०६२ ||
असङ्गत्वादकर्तेति नन्वसिद्धोऽयमुच्यते |
स्वप्न कामस्य दृष्टत्वाद्यत्र काममिति श्रुतेः || १०६३ ||
इत्यस्य परिहारार्थं स वा इत्यादिकं वचः |
पुनः स्वप्नसमारम्भो गतत्वात्किमितीर्यते |
बुद्धान्तादेर्यथा तद्वन्नातः स्यात्पुनरुक्तता || १०६४ ||
निशायां संप्रवृत्तायां संहृताक्षस्य निद्रया |
अवस्थां तैजसीं भुक्त्वं स्वापो भवति देहिनः || १०६५ ||
स आनन्दः परो ज्ञेयः सुखदुःखविवर्जितः |
सततं सर्वभूतानां तिष्ठत्येष पुरीतति || १०६६ ||
तत्र रत्वा यथाकामं कंचित्कालं यदृच्छया |
तामवस्थां तिरश्चक्र आयियासुस्ततोऽपराम् || १०६७ ||
भावनाविग्रहो भूत्वा तत्र स्वप्नरिरंसया |
उच्चावचानि वस्तूनि भावनातः करोति सः || १०६८ ||
गतौ प्राणवियोगः स्यात् यथाकालस्य चेक्षणम् |
तदसंभाव्यदेशादौ दर्शनात्तन्मृषात्मता || १०६९ ||
यावत्स्वप्नेऽस्ति वक्तव्यं प्राक्तदुक्तमशेषतः | तस्मान्नाऽऽसच्ङ्गगन्धोऽपि स्वप्ने पुंसोऽस्य विद्यते || १०७० ||
असङ्गत्वादसंबन्धो यथेह स्वप्नकर्मभिः |
जाग्रत्यपि न कर्ताऽयमेतस्मादेव कारणात् || १०७१ ||
असज्जाग्रदस्थेयं जाग्रद्रूपत्वकारणात् |
स्वप्ने जाग्रदवस्थावत्तथाचाऽऽद्यन्तवत्त्वतः || १०७२ ||
अज्ञानोत्थमिदं जाग्रज्जडरूपसमन्वयात् |
तथाऽपेक्षात्मकत्वाच्च मृगतृष्णोदकादिवत् || १०७३ ||
निरासङ्गः पुमानेष स्वप्नबुद्धान्तयोरपि |
संप्रसादे किमङ्गायं यत्र किंचिन्न वीक्ष्यते || १०७४ ||
ननु जाग्रदवस्थायां दृष्ट्वैवेत्युच्यते कथम् |
प्रत्यक्षकर्तृता तत्र यत आत्मन ईक्ष्यते || १०७५ ||
नैवं कर्त्रादिसाक्षित्वात्तच्चिदाभासतस्तथा |
कर्तृत्वमात्मनो बोध उपचाराद्यतस्ततःस || १०७६ ||
आत्मनैवायमिति च ध्यायतीवेति च श्रुतेः |
नाऽऽत्मनः कारकत्वं स्यात्सर्वावस्थातिलङ्घिनः || १०७७ ||
वेदात्माऽपि तथाचाऽऽह प्रपन्नाय किरीटिने |
संसारहेतुनिबिडध्वान्तोच्चिच्छित्सयाऽऽदरात् || १०७८ ||
अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || १०७९ ||
स्वप्नबृद्धान्तवाक्याभ्यां मृत्योरासङ्गलक्षणात् |
विविक्ततैवं यत्नेन निर्णीता प्रत्यागात्मनः || १०८० ||
अन्योन्यपरिहारेण स्वप्नजाग्रदवस्थयोः |
कामकर्मात्मकासङ्गविविक्तत्वमिहोदितम् || १०८१ ||
यथोदितार्थ एतस्मिन्दृष्टान्तोऽप्यधुनोच्यते |
निरासङ्गत्वसिद्ध्यर्थं प्रत्यगात्माख्यवस्तुनः || १०८२ ||
स्वातन्त्र्यप्रतिपत्त्यर्थं महानिति विशेषणम् |
नादेयस्रोतसाऽहार्यो मत्स्यो दृष्टान्त उच्यते || १०८३ ||
यथा सिन्धोर्महामत्स्य उभे कूले मिथः पृथक् |
अनुक्रमेण संचरन्मत्स्योऽन्यः कूलतो मतः || १०८४ ||
कूलाभ्या क्रमसंबन्धाद्व्यतिरेकाच्च कूलतः |
स्रोतोमध्ये द्वयाप्राप्तेरसङ्गोऽयं तिमिर्यथा || १०८५ ||
जाग्रत्स्वप्नकुलायाभ्यां क्रमसंबन्धतस्तथा |
व्यतिरेको द्वयाप्राप्तेरसङ्गोऽयं पुमानपि || १०८६ ||
युगपत्स्याद्द्वयोर्भोगो जाग्रत्स्वप्नकुलाययोः |
भूतमात्राविशेषत्वात्ताभ्यामात्मा न चेत्पृथक् || १०८७ ||
संबन्धं कुर्वते केचिदन्यथैव महाधियः |
महामत्स्यादिवाक्यस्य स यथोक्तस्तथोच्यते || १०८८ ||
बाह्यं कर्मास्य बुद्ध्यादिप्रयोगाश्रितमेव हि |
पुंसः किल ततोऽभ्येत्य भावनाऽऽप्नोति देहिनम् || १०८९ ||
तस्या विवेका व्याख्यातो यथोक्तवचसाऽऽत्मनः |
अविद्या त्वात्मविज्ञानसंश्रितैव न साऽन्यतः || १०९० ||
यत्तद्विज्ञानमात्मीयं तद्विकृत्यावतिष्ठते |
मिथ्याज्ञानग्रहायासावविद्या प्रत्यगात्मनः || १०९१ ||
अविद्याविषसंदष्टं तज्ज्ञानं परमात्मनः |
पारंपर्येण बुद्ध्यादौ स्थूलीभावं निगच्छति || १०९२ ||
स्थूलीभूता बहिः सेयं प्रकाशत्वाय कल्पते |
एवं बहिरविद्येयं निष्क्रामत्यात्मनः पृथक् || १०९३ ||
स्वप्ने विवेको व्याख्यातः कर्मणोऽस्याऽऽत्मनोऽधुना |
अविद्याप्रविवेकोऽयं वक्ष्यतेऽस्यात उत्तरम् || १०९४ ||
कर्मणा निर्मितं लोकमात्मा पश्यत्यविद्यया |
तयोर्विवेकादुभयोः स्वाभाव्यं प्रतिपद्यते || १०९५ ||
रूपादिविषयासङ्ग करणैश्चक्षुरादिभिः |
अनुप्रविश्य भोक्तारं रञ्जयित्वाऽवतिष्ठते || १०९६ ||
विज्ञानं पौरुषं शुद्धं तेनाऽऽसङ्गेन दूषितम् |
तमेवाऽऽसृत्य निर्गम्य बाह्यतो व्यवतिष्ठते || १०९७ ||
आसङ्गाविद्ययोरेवमन्योन्याश्रयतोदिता |
अभावादनयोरात्मा स्वात्मस्थः संप्रसीदति || १०९८ ||
प्रसिद्धमेतल्लोकेऽपि यदि रोगादिसंगतिः
न भवत्यथ जल्पन्ति स्वस्थोऽयमिति लोकिकाः || १०९९ ||
निरासङ्गस्य विदुषस्तस्मान्मुक्तिं प्रतीमहे |
स्यादन्यतरवैकल्ये न वेत्येतदनिश्चितम् || ११०० ||
तद्यथा श्येन इत्यस्माद्यावत्स्त्रीब्राह्मणादिति |
अविद्याप्रविवेकार्थमेवमेतावदुच्यते || ११०१ ||
स्वप्नजाग्रत्यचारेऽस्मिन्नात्मा श्येनः पतन्निव |
परिश्रान्तः सुषुप्ताख्यं नीडं धावत्यथाऽऽत्मनः || ११०२ ||
कर्माविद्याविनिर्मुक्त एतस्मिन्नेव लक्ष्यते |
सर्वशोकातिगः स्वस्थः स्तिमितः स्वात्मनि स्थितः || ११०३ ||
इति व्याचक्षते केचिन्महामस्त्यादिकां श्रुतिम् |
तन्नयाय्यमथवाऽन्याय्यं यत्नान्न्यायैः परीक्ष्यताम् || ११०४ ||
आत्मवस्त्वतिरेकेण नास्ति वस्त्वन्तरं यदि |
बाह्यान्तःप्रविभागोऽयं किमाश्रित्य प्रकल्प्यते || ११०५ ||
विषयेन्द्रियादि यद्वस्तु नाविद्याव्यातिरेकि तत् |
वस्त्वन्तरस्य सद्भाव ऐकात्म्यं बाध्यते यतः || ११०६ ||
आसङ्गस्याऽऽगतिरतो विषयेन्द्रियवर्त्मना ||
न्यायाभावादयुक्तैव नाप्यविद्या तमानयेत् || ११०७ ||
मिथ्याज्ञानमृते नान्यत्कार्यं किंचिदपीष्यते ||
अविद्याया यतो नात आसङ्गाद्याहृतिः स्वतः || ११०८ ||
आत्माविद्याप्रसिद्ध्यैव हविद्याऽप्यात्मनो यतः ||
न स्वतः परतो वाऽतो वस्तुतः प्रत्यगात्मनि || ११०९ ||
निःशेषविक्रियावर्गप्रतिषेधश्रुतेस्तथा ||
आत्मज्ञानं विकृत्याऽऽस्तेऽविद्येत्येतच्च दुर्भणम् || १११० ||
प्रत्यक्चिदाभाविद्याऽतो ह्यविचारितसिद्धिका ||
सिद्धायते प्रतीचीयं प्राक्सम्यग्ज्ञानजन्मनः || ११११ ||
जाग्रत्स्वप्नविवेकोऽतो वाक्यार्थप्रतिपत्तये ||
वाक्यार्थप्रतिपत्त्यैव प्रत्यगज्ञाननिह्नुतिः || १११२ ||
जाग्रत्स्वप्नसुषुप्तेषु संचारोऽयं प्रमान्तरात् ||
सिद्धो यस्मादतस्तस्मिन्वाक्यं स्यादनुवादकम् || १११३ ||
क्रमसंचारिणस्तस्य जाग्रत्स्वप्नसुषुप्तिषु ||
ब्रह्मत्वं नान्यतोऽज्ञायि वाक्यं तत्प्रतिपत्तिकृत् || १११४ ||
आत्मनो ब्रह्मता साक्षाद्ब्रह्मणोऽप्यात्मता स्वतः ||
तत्त्वमस्यादिवाक्यस्व विषयोऽयमिहोदितः || १११५ ||
महामत्स्याख्यदृष्टान्तः स्वप्नजाग्रदवस्थयोः ||
व्याख्यातोऽप्यन्यथा त्वन्ये दृष्टान्ते व्याचचक्षिरे || १११६ ||
विज्ञानं प्रस्तुतं तस्मिन्संदेहो नः प्रजायते ||
किमेतद्भौतिकं ज्ञानं भूतेभ्योऽन्यस्य चाऽऽत्मनः || १११७ ||
विज्ञानं भौतिकं तावद्भूतसंसर्गजन्मनः ||
यथैव बाह्यनयनप्रकाशार्थाभिसंगतेः || १११८ ||
विषयज्ञानजन्मैवमात्मनो भूतसंगतेः ||
बुद्धीन्द्रियादिसंसर्गादभिव्यक्तिः समीक्ष्यते || १११९ ||
संविज्ज्ञानविशेषस्य तथा सति न किंचन ||
व्यतिरिक्तस्य विज्ञातुर्विज्ञानेऽस्ति प्रयोजनम् || ११२० ||
इत्येवं चोदिते कैश्चिदत्र प्रतिविधीयते ||
व्यतिरिक्तो न चेज्ज्ञाता भूतेभ्योऽभ्युपगम्यते || ११२१ ||
तुल्यत्वाद्भूतमात्राणां स्वप्नजाग्रदवस्थयोः ||
विज्ञानजन्म युगपत्तदा प्राप्नोति ते ध्रुवम् || ११२२ ||
क्रमवृत्तेस्तु बोधस्य न बोधो भौतिकस्ततः ||
अन्यस्यैव हि संवित्स्यात्स्वप्नबुद्धान्तनीडतः || ११२३ ||
इत्यस्यार्थस्य विज्ञप्त्यै दृष्टान्तोऽत्राभिधीयते ||
क्रमेण संचरन्नद्यां महामत्स्यो यथा बली || ११२४ ||
मत्स्याभिसंगतिर्यद्वत्पर्यायेणेह कूलयोः ||
क्रमेण ज्ञातृसंबन्धस्तद्वत्स्वप्नप्रबोधयोः || ११२५ ||
व्यापित्वादात्मनोऽप्येवं युगपज्ज्ञातृतेति चेत् ||
भूतमात्रावदित्येवं समानं चोद्यमावयोः || ११२६ ||
कस्तर्हि क्रमहेतुः स्यात् देवताहेतुकोऽस्तु सः ||
क्रमेण वृत्तिस्तासा स्यादधिष्ठातृत्वकारणात् || ११२७ ||
अत्रापि युगपज्ज्ञानमुक्तयोः पक्षयोर्यथा ||
व्यापित्वाद्देवतानां स्यात्स्वप्नजाग्रदवस्थयोः || ११२८ ||
असंभवात्प्रयत्नस्य युगपद्देवतात्मनः ||
नातः स्याद्युगपज्ज्ञानमिति चेन्न तथाऽपि तत् || ११२९ ||
प्राहाऽऽत्मपक्षवाद्यत्र सिद्धं नो यत्समीहितम् ||
कुतस्तदिति चेन्मत्तः शृणु सर्वं यथोच्यते || ११३० ||
सर्वत्र यौगपद्यं स्याद्विभुत्वाद्देवतात्मनः ||
ऐश्वर्याच्च प्रयत्नोत्थकार्येष्वस्याऽऽत्मनो न तु || ११३१ ||
अधिष्ठेयेन्द्रियाणां हि स्वप्नभूमावसंभवात् ||
व्यापारो नास्त्यतः स्वप्ने देवतानां मनागपि || ११३२ ||
अतो भोक्ता स्वयंसिद्धो यथोक्तेनैव हेतुना ||
प्रयत्नायौगपद्येन स्वप्नजाग्रद्वयाद्धिरुक् || ११३३ ||
आत्मनो भोक्तृतासिद्धिर्ज्ञातृत्वं च प्रसिध्यति ||
व्यापित्वेऽप्यस्य यत्नो य आत्मनः कर्तृतां प्रति || ११३४ ||
न संभवत्यसौ यत्नो यौगपद्येन नीडयोः ||
दृष्टत्वात्परिपाठ्या स्यात्तस्माद्वृत्तिरिति स्थितम् || ११३५ ||
अयौगपद्यदर्शित्वमात्मास्तित्वेऽनुमेष्यते ||
तथा तद्व्यरिक्तत्वे जाग्रत्स्वप्नकुलायतः || ११३६ ||
न च स्वप्नविनिर्माणे देवताव्यापृतिर्भवेत् ||
यथास्वं स्थानमायान्ति ता मृतिस्वापयोर्यतः || ११३७ ||
मतं यथा मृतौ देवास्त्यक्त्वा स्वं स्वमनुग्रहम् ||
देहारम्भे पुनर्देवा यथास्वं कुर्वते क्रियाम् || ११३८ ||
तद्वत्सुषुप्सोरुत्क्रम्य देवताः स्वाधिकारतः ||
स्वप्नसर्गे पुनस्ताः स्वमधिकारं प्रकुर्वते || ११३९ ||
इत्येवं चोदितेऽथात्र परिहारोऽभिधीयते ||
लिङ्गकार्यानभिव्यक्तेर्नालं कार्याय देवताः || ११४० ||
कारणान्यसमर्थानि यथा देहमृते मृतौ ||
स्वकार्यस्याभिनिष्पत्तौ तथा स्वप्नेऽपि देवताः || ११४१ ||
करणान्यनपाश्रित्य नालं स्वाधिकृतिं प्रति ||
स्वप्ने च करणाभावः श्रुत्यैव प्रतिपादितः || ११४२ ||
यत एवमतः स्वप्ने नाऽऽशंका देवताः प्रति || ||
अधिकारो यतस्तासामात्मनो देहसंगतौ || ११४३ ||
मुक्त्वैव देहसंबन्धं स्वप्नोऽयं प्रत्यगात्मनः ||
बहिष्कुलायावचनादेतच्चाध्यवसीयते || ११४४ ||
नातो भौतिकमेतत्स्यान्नापि स्याद्देवताकृतम् ||
चैतन्यं स्वप्नगं स्वार्थं शरीरद्वयवर्जनात् || ११४५ ||
निरनुग्रहं निष्करणं वासनोपाधिमात्रकम् ||
स्वप्नदर्शनमेतत्स्यात्प्र्त्यग्धीवस्तुसंश्रयम् || ११४६ ||
पृथक्त्वे वाऽपृथक्त्वे वा भूतेभ्यो देवतात्मनः ||
किमर्थं देवताशङ्का क्रियते हिरुगात्मनः || ११४७ ||
मत्स्यदृष्टान्तवचस एतावत्फ़लमिष्यते ||
मृत्युरूपमिदं सर्वं कार्यं च करणानि च || ११४८ ||
ताभ्यां विलक्षणस्त्वात्मा स्वप्ने योऽयं प्रपश्चितः ||
स्थूलसूक्ष्मशरीराभ्यां केवलश्चेतनोऽक्रियः || ११४९ ||
तथैव कामकर्मभ्यामत्यन्तं स्याद्विलक्षणः ||
प्रयोजकाभ्यां देहस्य तथैव करणस्य च || ११५० ||
अविद्याकृतमेवातः संसारित्वं न तु स्वतः ||
अतोऽविद्यासमुच्छित्तौ मुक्तिः स्यात्परमात्मनः || ११५१ ||
इत्युक्तः पूर्ववाक्येन समुदायार्ध ईदृशः ||
पौर्वापर्यं समीक्ष्याऽऽत्मा निष्क्रियः केवलोऽद्वयः || ११५२ ||
अपास्तकार्यकरणकर्मासङ्गो न तु क्वचित् ||
आत्मोपपादितः साक्षाद्वचस्येकत्र यत्नतः || ११५३ ||
सासङ्गश्च समृत्युश्च सकार्यकरणस्तथा ||
अविद्यया यतो बोध आत्माऽयमुपलक्ष्यते || ११५४ ||
स्वप्ने तु वासनाकामसंयुक्तो मृत्युवर्जितः ||
संप्रसादे प्रसन्नश्च तथाऽसङ्गोऽपि वीक्ष्यते || ११५५ ||
तद्वा अस्यैतदित्यत्र यथोक्तं रूपमात्मनः ||
वक्ष्यमाणमतस्तस्य दृष्टान्तोऽयमिहोच्यते || ११५६ ||
स्वतो बुद्धं च शुद्धं च मुक्तं रूपमिहाऽऽत्मनः ||
एकवाक्योपसंहारे न पुञ्जीकृत्य दर्शितम् || ११५७ ||
तद्यथा श्येन इत्युक्त्या तद्दृष्टान्तप्रदर्शनात् ||
शुद्धबुद्धादिकं रूपमात्मनः संप्रदर्श्यते || ११५८ ||
स्वप्नबुद्धान्तयोर्वेह दृष्टान्तः संप्रदर्शितः ||
संप्रसादस्य दृष्टान्तः श्येनेनाथाधुनोच्यते || ११५९ ||
श्येनः शशादो विज्ञेयो बृहत्कायश्च रोहितः ||
क्षिप्रः श्येनः सुपर्णस्तु बलवानल्पविग्रहः || ११६० ||
श्येनः श्रान्तो यथाऽऽकाशे भक्ष्यहेतोः परिभ्रमन् ||
पक्षौ वितत्य नीडं स्वमेति हि श्रमहानये || ११६१ ||
यथा तथाऽयमप्यात्मा जाग्रत्स्वप्े परिभ्रमन् ||
श्रान्तस्तच्छ्रमहानार्थं ब्रह्मनीडं प्रपद्यते || ११६२ ||
अन्ताय धावतीत्युक्तं तस्यान्तस्य विशेषणम् ||
यत्र सुप्तो न कमिति जाग्रत्स्वप्ननिषेधकृत् || ११६३ ||
सुप्तस्तिसृष्ववस्थासु सामान्येन यतस्ततः ||
विशिनष्ट्यात्मनः स्वापं यत्र सुप्तगिरा स्फ़ुटम् || ११६४ ||
न कंचनेति कामो यः स्वप्नजाग्रदवस्थयोः ||
निषिध्यते सुषुप्तेऽसौ तथा स्वप्नोऽपि यस्तयोः || ११६५ ||
स्वप्ने वा कामविरहाद्यथोक्तेनैव वर्त्मना ||
जाग्रत्कामनिषेधोऽतस्तत्र कामादिसंभवात् || ११६६ ||
एकैकस्यामवस्थायां जाग्रत्स्वप्नसुषुप्तिभिः ||
यदि वा विद्यते भेदः कंचनेति च लिङ्गतः || ११६७ ||
त्रय आवसथा इति तथा च श्रुतिशासनम् ||
जाग्रत्स्वप्नसुषुप्तानां त्रैविध्यप्रतिपादकम् || ११६८ ||
तत्र त्रयाणां स्थानानां जाग्रत्स्वप्ननिषेधनम् ||
न कंचनेति वाक्येन तयोरेव ग्रहः श्रुतेः || ११६९ ||
स्वप्नं न कंचनेत्युक्त्या सर्वस्वप्ननिषेधनम् ||
इति प्रबोधस्वप्नाभ्यां विविक्तं स्थानमुच्यते || ११७० ||
जाग्रत्स्वप्नात्मकौ पक्षौ वितत्याऽऽत्माऽऽत्ममोहवान् ||
भुक्त्वा भोगानथ श्रान्तः पक्षौ संहृत्य चाऽऽत्मनि || ११७१ ||
अविद्यायामवस्थानं तदुद्भूतस्य वस्तुनः ||
संहत्यपक्षोपमया श्रुत्येह प्रतिपाद्यते || ११७२ ||
संलयायेति यच्छुद्धं रूपं स्यात्प्रत्यगात्मनः ||
प्रत्यक्चिदाभ आगत्य ध्रियते प्रत्यगात्मने || ११७३ ||
बुद्ध्यादिकार्यसंहारे प्रत्यक्चैतन्यरूपिणः ||
चिद्बिम्बस्यापि संहारो जलार्कप्रविलापवत् || ११७४ ||
अविद्यावान्पुरा योऽभूदविद्याकार्यगश्चितिः ||
अविद्यया विभागोऽस्य चिद्बिम्बस्योपजायते || ११७५ ||
प्रत्याख्यातैव साऽविद्या सकार्या सर्वदाऽऽत्मना ||
प्रत्याचष्टे तु नाविद्या निरात्मत्वाच्चिदात्प्रनः || ११७६ ||
अविद्यातज्जकार्याभ्यामात्माऽन्यानवशेषतः ||
संबध्यते स्वतोऽसङ्ग आत्मत्वादेव कारणात् || ११७७ ||
अविद्या यच्च तत्कार्यमात्मानं स्वात्मसिद्धये ||
संबिभत्सत्यनात्मत्वादात्मा तन्नानुमन्यते || ११७८ ||
निःसङ्गस्य ससङ्गेन कूटस्थस्य निरात्मना ||
आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते || ११७९ ||
प्रत्याख्याताऽऽत्मनैवेयं प्रत्यगात्मानमेकलम् ||
अविद्याऽऽलिङ्गते वह्निं घृतपिण्ड इवोल्बणम् || ११८० ||
अविचारितसंसिद्धा संगतिः परमात्मनः ||
अविद्यातज्जकार्याभ्यामेवमेवेति गम्यताम् || ११८१ ||
एवं सत्यस्य बाधः स्यात्परमार्थात्मसंश्रयात् ||
संसारानर्थसंबन्धहेतोरात्मप्रमाणतः || ११८२ ||
प्रत्यग्धीमात्रतः प्रत्यङ्ङद्वयत्वविशेषणः ||
निःसंबन्धात्मसंबन्धादनात्मा त्वात्मवन्न सन् || ११८३ ||
समस्तव्यस्ततामेवं सति व्याचक्षतेऽत्र ये ||
कर्षन्ति नासिकाग्रेण कर्णमूलं सुखेन ते || ११८४ ||
आत्मवस्त्वतिरेकेण नान्यद्वस्त्वस्ति मानतः ||
तन्मानमिति चेन्मैवं यतस्तत्प्राक्प्रबोधतः || ११८५ ||
अस्तु वस्त्वन्तरं चान्यत्तस्याप्यात्माभिसंगतौ ||
को हेतुरिति वक्तव्यं नाविद्याऽकारकत्वतः || ११८६ ||
समस्तव्यस्तताव्याख्या तस्मादन्धपरंपरा ||
वैश्वानरवरादेव न तु न्यायानुसारतः || ११८७ ||
अस्य हि द्वैतविषये विज्ञानं भानुरश्मिवत् ||
विकीर्णं बोधदेशीयं समन्तात्प्रथते दृशेः || ११८८ ||
तत्र कर्मप्रसूतोऽयं कामः सर्वप्रवृत्तिकृत् ||
जाता कर्मण एवेयं भावनाऽस्यान्तरात्मनः || ११८९ ||
यथा लक्षणया कर्म कृतं भावनयाऽऽत्मना ||
फ़लं तादृग्विधं दातुमेकीभवति साऽऽत्मनः || ११९० ||
तयाऽनुराञ्जित इव ह्यात्मा कामान्परीप्सति ||
वासनालक्षणः कामः स्वप्नसर्गाय जायते || ११९१ ||
सुखादिफ़लभोगाय स्वप्नः क्षुद्रस्य कर्मणः ||
परिच्छेदेन निर्मातृज्ञानं च प्रत्यगात्मनः || ११९२ ||
विज्ञानानुविधायी हि विकारः कर्मणो यतः ||
विज्ञानं विपरीतार्थदर्शनं चेह भण्यते || ११९३ ||
साऽविद्या सति बाह्येऽर्थे द्रष्टव्येऽलं न चासति ||
कामः स एव बोधेऽस्य विज्ञानात्मन इष्यते || ११९४ ||
प्रयोक्त्री भावना तत्र कर्म त्वस्य विकारकृत् ||
विपरीतग्रहाय स्यादन्यथेति विनिश्चितिः || ११९५ ||
कामेहाभावनाज्ञानपदार्थानां यथाक्रमम् ||
परस्परव्यपेक्षत्वादेवं स्यादेकवाक्यता || ११९६ ||
तत्र भावनयैवाऽऽत्मा कामान्कामयते तथा ||
विद्यया वीक्षते चार्थानविद्योत्थापितानिह || ११९७ ||
संप्रसादे तु बाह्यस्य वस्तुनोऽसंभवादिदम् ||
कर्म निस्पन्दमेवाऽऽस्ते भावनाऽपि च शाम्यति || ११९८ ||
प्रयोज्यविरहात्कर्मकार्यस्यासंभवात्तथा || ११९९ ||
विद्याऽपि विपरीतस्य प्रविभक्तस्य वस्तुनः ||
अभावादविशेषात्मज्ञानोऽयं व्यवतिष्ठते || १२०० ||
दाह्याभावाद्यथा वह्निः स्वात्मन्येवोपशाम्यति ||
कर्मण्यस्तमिते तद्वत्प्रत्यङ्ङास्ते स्वभावतः || १२०१ ||
एवं कृत्वेदमत्राऽऽह श्रुतिः कामं न कंचन ||
कामकर्मादिनिर्मुक्तं सुषुप्ते रूपमात्मनः || १२०२ ||
इत्येवं श्येनदृष्टान्तः कैश्चिद्व्याख्यायि सादरैः ||
तत्र युक्तमयुक्तं वा श्रुतिवाक्यानुसारतः || १२०३ ||
न्यायैर्जगति संसिद्धैः स्वयमेव विचार्यताम् ||
अपक्षपातपतितैर्विद्वद्भिर्वस्तुसिद्धये || १२०४ ||
एतदस्य स्वतो रूपं यदत्रोपप्रदर्शितम् ||
अविद्याकामकर्मादिविविक्तं यत्सुषुप्तगम् || १२०५ ||
इतोऽन्यथा तु यद्रूपं जाग्रत्स्वप्नस्वलक्षणम् ||
तदस्य परतो ज्ञेयमात्माज्ञानैकहेतुकम् || १२०६ ||
यद्धेतुकमिदं रूपं साऽविद्याऽनर्थकारिणी ||
सा स्वतः परतो वाऽस्येत्येतदत्राधुनोच्यते || १२०७ ||
न त्वागन्तुरविद्येयमनिर्मोक्षप्रसङ्गतः ||
आत्मस्वभावोऽविद्येयं न वेत्येतद्विचार्यते || १२०८ ||
अविद्याकामकर्मादिप्रविविक्तमिहाऽऽत्मनः ||
रूपं पूर्वमुपन्यस्तं तस्य साक्षाच्चिकीर्षया || १२०९ ||
अविद्यायाश्च यत्कार्यं तच्च वाच्यमशेषतः ||
इत्याविष्कृतिसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते || १२१० ||
नाड्यायत्ता यतोऽविद्याकार्यदृष्टिरतः परम् ||
नाडीनां स्यादुपन्यासस्ता वा अस्येतिवाक्यतः || १२११ ||
यद्वा मृषात्वसिद्ध्यर्थं नाड्युपन्यास इष्यते ||
अत्यन्ततनुतो ह्यन्तर्विन्ध्यादेरीक्षणं कुतः || १२१२ ||
अविद्याकार्यमेतच्चेत् अविद्यावन्मृषेष्यते ||
अतो मृषात्वसिद्ध्यर्थं तनुनाडीपरिग्रहः || १२१३ ||
ता वा अस्य हिता नाम नाड्यः सूक्ष्मा हृदि स्थिताः ||
अपकर्षेतरौ याभिः कार्यस्याऽऽत्मा समीक्षते || १२१४ ||
सहस्रतमभागेन केशस्य परिणाहतः ||
नाड्योऽणिम्ना समानास्ता नानान्नरससंभृताः || १२१५ ||
तास्वन्नरसपूर्णासु स आत्माऽविद्ययाऽऽत्मनः ||
रक्तपीतादिरूपत्वं मन्यते स्वप्नमध्यगः || १२१६ ||
रसवर्णानुरोधेन रक्तपीतादिरूपताम् ||
प्रतीचो भोगसिद्ध्यर्थं देवतैति मृषात्मिकाम् || १२१७ ||
बौद्धविज्ञानविक्षेपसंहारकथनाय तु ||
चतुर्थे नाड्युपन्यासो विज्ञानात्मविशुद्धये || १२१८ ||
देवतान्नरसाणुत्वज्ञानाय च पुनर्ग्रहः ||
षष्ठादौ सूक्ष्मनाडीनां तद्दूराऽऽत्मावबुद्धये || १२१९ ||
भोक्तुः स्वरूपविज्ञप्त्या इह नाडीपरिग्रहः ||
क्रियते कामकर्मादिविवेकस्य विवक्षया || १२२० ||
न विज्ञानात्मनो रूपं चैतन्यादन्यदिष्यते ||
स्वात्माविद्यैकहेत्वेव तस्य रूपान्तरं यतः || १२२१ ||
विज्ञानपुरुषाणां हि सर्वेषामेकरूपता ||
चैतन्यात्मतया ज्ञेया तदबोधात्तु भिन्नता || १२२२ ||
अध्यात्मादिविभागोऽयं न स्वतः प्रत्यगात्मनः ||
तदबोधैकहेतुत्वादप्राप्तैकात्म्यवस्तुकः || १२२३ ||
लिङ्गमेव ततो रूपमात्माविद्यैकहेतुकम् ||
कर्मोत्था भावना याश्च रूपं ता अपि लिङ्गवत् || १२२४ ||
लिङ्गं चाप्यतिसूक्ष्मं तन्नाडीमध्यगतिक्षमम् ||
स्वामिकर्मवशात्तच्च रूपं गृह्णाति दैवतम् || १२२५ ||
भोगमात्रप्रसिद्ध्यर्थं चैतन्याभासमात्रतः ||
नानात्मरूपमात्माऽयं किंचिदन्यदपेक्षते || १२२६ ||
विज्ञानपुरुषः सोऽयमधिदैवादिवासनः ||
लिङ्गदेहानुरोधी सल्लिङ्गे कर्त्रादिविक्रियाम् ||
अविद्योपहतात्मा सन्नात्मत्वेनाभिमन्यते || १२२७ ||
लिङ्गस्य विक्रिया याऽपि सा रसानुविधायिनी || १२२८ ||
अधिदैवादिदेहस्य रसहेतुः स्थितिर्यतः ||
एताभिर्वा इति तथा तेनैता इति च श्रुतिः || १२२९ ||
रसोऽपि चायं जग्धान्नपरिणाममपेक्षते ||
यतोऽतो वातपित्तादीन्धातून्सोऽप्यनुरुध्यते || १२३० ||
धातुरूपानुरोधी सन्रसो रक्तादिमेत्यथ ||
तं वर्णं देवतादेहो यथोक्तमनुरुध्यते || १२३१ ||
आत्मनोऽविक्रियस्यैव लिङ्गे स्वभासवर्त्मना ||
दर्शनं शुक्लपीतादेर्जायते कर्मणो वशात् || १२३२ ||
आत्मन्येष यतः सर्वस्तदविद्यैकहेतुकः ||
अध्यात्मादिप्रपञ्चो हि शुक्तिकारजतादिवत् || १२३३ ||
सत्यानृतविभागोऽयं तथाऽप्यनृतवस्तुनि ||
जाग्रद्भूमौ प्रसिद्धोऽस्य लोके स्वप्ने यथा तथा || १२३४ ||
चित्स्वभावातिरेकेण नाविद्यादेः प्रसिध्यति ||
सत्यत्वमिव मानेन मिथ्यात्वमपि वस्तुनः || १२३५ ||
चिन्मात्रतैव तेनास्य कार्यकारणवस्तुनः ||
श्रुत्येहोच्चैः प्रत्यपादि तत्त्वमस्यादिरूपया || १२३६ ||
मिथ्याभावनमात्राधेर्निरस्तविकृतेरिह ||
प्रतीचो दर्शनं स्वप्ने श्रुत्या मिथ्येति वर्ण्यते || १२३७ ||
शुक्लं स्यात्कफ़भूयस्त्वे वातपित्तसमागमात् ||
नीलं कृष्णं च वातस्य परिणामं प्रचक्षते || १२३८ ||
पिङ्गलं पित्तबाहुल्याद्धरितो मन्दपित्तकः ||
इति वैषम्यतो वर्णो धातुसाम्येऽतिलोहितः || १२३९ ||
इत्येवमादि बहुधा परिणामं प्रचक्षते ||
चिकित्साशास्रतत्त्वज्ञाजग्धस्यान्नस्य नाडिगम् || १२४० ||
अथैतस्मिन्नन्नरसपरिणामे यथोदिते ||
प्रत्यङ्मोहस्य यत्कार्यमधुना तत्प्रपञ्च्यते || १२४१ ||
जगदात्मनि निर्माय साधिभूताधिदैवतम् ||
शुक्लाद्याकृतिनाडीस्थमात्मा पश्यत्यविद्यया || १२४२ ||
अविद्यायाः परा काष्ठाऽथेदानीमुच्यते स्फ़ुटम् ||
तत्कार्यतारतम्येन साऽविद्या भिद्यते यतः || १२४३ ||
लिङ्गादिकार्यभेदेन साऽविद्या भिद्यते सदा ||
स्वस्त्वविद्याभेदोऽत्र मनागपि न विद्यते || १२४४ ||
तल्लिङ्गं वासनानीडं सूक्ष्म्यं स्वच्छस्वभावकम् ||
नाडीगतरसोपाधिससंर्गात्स्फ़टिकादिवत् || १२४५ ||
धर्मादिप्रेरकोद्भूतरथस्त्रीहस्तिलक्षण
नानाकृतिरसाद्यात्म ह्यात्मनोऽलुप्तचक्षुषः ||
प्रथते पुरतोऽविद्यामात्रतत्त्वं विनश्वरम् || १२४६ ||
एवं तावदविद्यैकनीडानामुदितो विधिः ||
भावनानां विनिष्पत्तौ बोधे स्वप्नेऽथ भण्यते || १२४७ ||
अथ यत्राऽऽत्ममोहोत्थं घ्नन्तीवैनमितीक्षणम् ||
जिनन्तीवैनमिति च मृषैवमभिमन्यते || १२४८ ||
नास्त्यत्र हन्ता जेता वा किंत्वज्ञानोत्थमेव तत् ||
वासनाविष्टविज्ञानो हननाद्यभिमन्यते || १२४९ ||
अधर्मादिप्रकर्षोत्थ गर्तादिपतनादिकम् || १२५० ||
प्रतीचो दर्शनं स्वप्ने मूढस्येहोपजायते ||
मिथ्यात्वकारणं प्राह यदेवेति श्रुतिः स्वयम् || १२५१ ||
जाग्रद्विषय एवायं यदैक्षिष्ट पुराऽप्यसत् ||
तदत्र स्वप्नेऽसंभाव्यं मन्यतेऽविद्ययैव सः ||
नाविद्या नापि तत्कार्यं यस्मादात्मसमीक्षणे || १२५२ ||
भयं त्वेकान्ततोऽविद्याकार्यमाहुर्विपश्चितः ||
यतो विज्ञाततत्त्वानां भीतिर्नास्ति कुतश्चन || १२५३ ||
एतदुक्तं भवत्यत्र पूर्वोपात्तस्य कर्मणः ||
फ़लं प्रबोधे यद्भुक्तं तच्छेषो भावनोच्यते || १२५४ ||
यदि नामावसितार्था फ़लं दत्त्वेह भावना ||
पुंभोगसमये कर्म प्रयुङ्ते सा पुनर्नवम् || १२५५ ||
उत्त्पत्तिभोगयोरेवं भावना कर्मणः सदा ||
प्रयोक्त्री भावनैवाऽऽत्मकर्तृभोक्तृत्वयोर्मृषा || १२५६ ||
एवं सति प्रबोधे यद्भुक्तं प्राक्कर्मणः फ़लम् ||
तस्यानुवासना धीस्था भावनेत्यभिधीयते || १२५७ ||
आत्मचैतन्यबिम्बेन बिम्बिता धीर्यथा तथा ||
कर्मोत्थफ़लबिम्बेन बिम्बितेयं मतिः सदा || १२५८ ||
अविद्याग्रथितः सोऽयं परमात्माऽशरीरतः ||
कर्ता भोक्तेव चाऽऽभाति स्वप्नजाग्रदवस्थयोः || १२५९ ||
न चाविद्यातिरेकेण कौटस्थ्यात्प्रत्यगात्मनः ||
हेतुमन्यं प्रपश्यामः कर्तृत्वादिप्रसिद्धये || १२६० ||
रजोधूमतुषाराभ्रनीहाराद्यन्वितं वियत् ||
संभाव्यते यथा मूढैरात्मैवं कर्तृतादिभिः || १२६१ ||
धर्मधर्म्यभिसंबन्धा नेक्ष्यन्ते मानतो यथा ||
वियत्येवं न वीक्ष्यन्ते प्रत्यग्दृष्ट्या यथोदिताः || १२६२ ||
चैतन्याभाससंमोहं भावनेयं समाश्रिता ||
सत्य आत्मनि कूटस्थ आश्रिता इति भण्यते || १२६३ ||
स्वामिन्येव यतः सर्वं समवैति क्रियाफ़लम् ||
ममाहमितिहेतूत्थं स्वामित्वं चाप्यबोधजम् || १२६४ ||
देशकालादिहीनस्य ह्यनवच्छिन्नवस्तुनः ||
अहं ममेत्यवच्छेदो नाऽऽत्माविद्यामृते यतः || १२६५ ||
वासनैकाधिकरणश्चिदाभासोऽभिधीयते ||
भावनारञ्जितज्ञानो भवतीति न निर्द्वयः || १२६६ ||
भावनारञ्जितमतिसाक्षित्वादात्मवस्तुनः ||
भावनाश्रयवद्भाति प्रत्यङ्जडधियामतः || १२६७ ||
बहुनाऽत्र किमुक्तेन यदेवायं समीक्षते || १२६८ ||
बोधे हस्त्यादिकं स्वप्ने तदेवाविद्ययाऽऽत्मनि ||
संभावयति मिथ्यैव नभो नीलं यथा तथा || १२६९ ||
कार्यमेतदविद्यायाः प्रोद्भूतायाः प्रदर्शितम् ||
अथापकृष्यमाणायाः कार्यतः कार्यमुच्यते || १२७० ||
देवादिविषयोद्भूतवासनाऽस्य यदा तदा ||
जाग्रद्भूमावथ स्वप्ने जायते सैव भावना ||
देवो राजेव चास्मीति स्वप्नकर्मवशाद्विभोः || १२७१ ||
ध्वस्तात्ममोहतत्कार्यः स्यात्प्रबोधे यदा तदा ||
सर्वमस्म्यहमेवेदमिति स्वप्नेऽभिमन्यते || १२७२ ||
अहमेवेति चिन्मात्रमात्मनोऽत्रावधार्यते ||
इदंशब्देन चाविद्याकार्यमत्र विवक्षितम् || १२७३ ||
अविद्यायाः समुच्छित्तावलमेवमिदं वचः ||
सर्वः कृत्स्नोऽहमस्मीति तदैतदुपपद्यते || १२७४ ||
एषोऽस्य परमः पूर्णः कृत्स्नो लोकस्तु विद्यया ||
इतोऽपरे तु ये लोकास्तेऽस्याविद्याप्रकल्पिताः || १२७५ ||
देवो राजेव यत् स्वप्ने दर्शनं प्रत्यगात्मनः ||
विद्याफ़लं न तन्न्याय्य मिव शब्देन संगतेः || १२७६ ||
घ्नन्तीवाविद्यया यद्वन्मन्यते स्वप्नभूमिगः ||
देवो राजेव चास्मीति मोहादेवं क्रियाफ़लम् || १२७७ ||
अहमेवेति न स्वप्नः साक्षादत्राऽऽत्मवस्तुनः ||
बोधेऽविद्यासहायत्वमिह त्वात्मैव निर्द्वयः || १२७८ ||
यावत्किंचिदविद्योत्थमिदमा तदनूद्यते ||
यथाव्याख्यातमैकात्म्यमहमित्यभिधीयते || १२७९ ||
शरीरान्तमिन्दं रूपं साधिभूताधिदैवतम् ||
प्रतीच्यविद्ययाऽध्यस्तमहमैतद्विशेष्यते || १२८० ||
अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यां पदार्थयोः ||
विज्ञातयोरिदं वाक्यमहमेवेदमित्यतः || १२८१ ||
बाध्यबाधकयोरेवं ज्ञातयोरुक्तवर्त्मना ||
प्रतीचि जायते ज्ञानं वाक्यादज्ञानहानिकृत् || १२८२ ||
ज्ञानाद्ध्वस्ते हि तमसि ध्वस्ते द्वैते सहेतुके ||
सर्वः कृत्स्नो भवेदात्मा मनोवाचामगोचरः || १२८३ ||
स एष पर उत्कर्षो विद्यायाः संप्रदर्शितः ||
संप्रसाद इदं सर्वमात्मनैवावशिष्यते || १२८४ ||
एक आत्मेति तद्वद्धीः स्वप्नजाग्रदवस्थयोः || १२८५ ||
अविचारितसंसिद्धिस्तथैवानात्मधीरपि ||
व्यभिचारस्वभावोक्ता प्रत्यगात्मैकसाक्षिका || १२८६ ||
व्यभिचारिमतिष्वेवं बुद्धिरव्यभिचारिणी ||
व्यभिचारित्वसंसिद्धिहेतुरैकात्म्यनिष्ठिता || १२८७ ||
सत्यामपि त्वविद्यायां प्रमाणानुगमात्पुरा ||
वास्तवं वृत्तमीदृङ्नः सिद्धं ह्यनुभवाश्रयम् || १२८८ ||
अविद्याविद्ययो रूपं कार्यं चापि समासतः ||
व्याख्यातमेवं मानानां प्राक्सूतेरनुभूतितः || १२८९ ||
अनात्मवस्तुमानानां प्रागनात्माभिसंगतेः ||
स्वतः सिद्धात्ममेयोत्थरूपतैव प्रतीयते || १२९० ||
चिद्रूपैरेव तैः सद्भिरनात्मार्थोऽपि शक्यते ||
प्रमातुं तदृतेऽनात्मा ह्यन्धकारप्रनृत्तवत् || १२९१ ||
अनात्माऽपि विनाऽऽत्मानं नैवानात्मायते यतः ||
अवस्तुत्वान्निरात्मत्वाद्वन्ध्यासूनुनृशृङ्गवत् || १२९२ ||
जाग्रत्स्वप्नसुषुप्तेषु त्वात्माविद्या मृषा सती ||
व्यवहारपथं प्राप्ता स्वतःसिद्धात्मसाक्षिका || १२९३ ||
सर्वोऽस्मीति हि विद्येयमविद्याऽतोऽन्यदर्शनम् ||
उभयं संविदायत्तं दर्शनं प्राक्प्रमागमात् || १२९४ ||
एषोऽस्य परमो लोको यः सर्वोऽस्मीति दर्शितः ||
अतः परं परावस्था निरविद्या प्रदर्श्यते || १२९५ ||
अनाप्तकाममस्योक्तमात्माविद्यैकहेतुकम् ||
रूपं पूर्वमिह त्वस्य ध्वस्ताविद्यमथोच्यते || १२९६ ||
छन्दः कामोऽधिकारात्स्यात्साहचर्याच्च पाप्मना ||
अतिक्रान्तं यतश्छन्दमतिच्छन्दमिदं ततः || १२९७ ||
विवृतिश्छान्दसी ज्ञेया लक्षणासंभवादिह || १२९८ ||
पाप्मशब्देन चात्र स्याद्धर्माधर्मपरिग्रहः ||
पाप्मनो विजहातीति तथाचैव पुरोदितम् || १२९९ ||
अपेतकारकत्वादहेतोरज्ञानतो हतेः ||
धर्माधर्मादिपाप्मानो रूपमात्मन उच्यते || १३०० ||
सदाऽपहतपाप्मेति भयहेतोश्च लङ्घघनात् ||
आत्मनोऽस्या भयं रूपं सदाऽनस्तमितोदितम् || १३०१ ||
वास्तवेनैव वृत्तेन ज्ञेयकार्यसमाप्तितः ||
अतः सर्वं कृतं ज्ञानं नातोऽन्यदवशिष्यते || १३०२ ||
यत एवमतो यावत्किंचित्कार्यान्तरायकम् ||
मोहव्यवहितं वा यत्प्राप्तं तद्ब्रह्मबोधतः || १३०३ ||
कामकर्ममहामोहरहितं रूपमात्मनः ||
श्रुत्या प्रदर्शितं साक्षात्कारविन्यस्तबिल्ववत् || १३०४ ||
स्वयंज्योतिष्ट्वमुक्तं यदात्मनः प्राक्प्रयत्नतः ||
तदप्यात्मन आगामि शङ्क्यते कामकर्मवत् || १३०५ ||
यस्मात्सुषुप्त आत्माऽयं नाऽऽत्मानं नाप्यनात्मनः ||
जाग्रद्वद्वेत्ति तेनास्य चैतन्यं कामकर्मवत् || १३०६ ||
नैतदेवं यतो भेदज्ञानं मोहोत्थकारक -
संश्रयादेव न पुनर्मोहाभावे तदिष्यते || १३०७ ||
यत्र वा अन्यदित्येवं भेदज्ञानमभाषत ||
सत्येव प्रत्यगज्ञाने तस्याज्ञानसमन्वयात् || १३०८ ||
यत्र त्वस्येति विध्वस्त आत्माज्ञाने प्रबोधतः ||
तत्केन कमिति श्रुत्या भेददृष्टिर्निषिध्यते || १३०९ ||
एकत्वमेव तेनात्र भेदादर्शनकारणम् ||
स्त्रीपुंदृष्टान्तवचसा तदेतत्प्रतिपाद्यते || १३१० ||
चेतोनुरागसिद्ध्यर्थं प्रिययेति विशेषणम् ||
द्विष्टायां सत्यपि स्त्रीत्वे चेतो नैवानुरज्यते || १३११ ||
अतीव कामवशगः स्त्रीगुणोपेतया स्त्रिया ||
प्रयया कामयन्त्या च परिष्वक्तः पुमानिह || १३१२ ||
परिष्वक्तगिरा चात्र व्यामिश्रीभाव उच्यते ||
पृक्तावयवयोः प्रीत्या स्त्रीपुंसोरपरस्परम् || १३१३ ||
उत्पन्नसंभोगफ़लः पुमान्मैथुनकर्मणि ||
स न वेत्ति यथा बाह्यं सुखाविष्टो न चाऽऽन्तरम् || १३१४ ||
परिष्वङ्गाद्यथा पूर्वं वेद बाह्यान्तरं स्फ़ुटम् ||
परिष्वक्तस्तु नैवं स वेद बाह्यं न चाऽऽन्तरम् || १३१५ ||
तमोव्यवहितैकात्म्यस्तथाऽविद्योत्थकार्यगः ||
वेद बाह्यं जगत्सर्वं स्वं चाऽऽत्मानं तमस्विनम् || १३१६ ||
कार्यकारणरूपः संस्तद्विरुद्धैकरूपिणा ||
परिष्वक्तः पुमान्प्राज्ञे प्राज्ञेनाऽऽत्माऽयमात्मना || १३१७ ||
तमस्विनि निवृत्तेऽस्मिन्देहान्ते प्रत्यगात्मनि ||
वितमस्कात्मना योगे स्वप्नजाग्रत्क्रियाक्षये || १३१८ ||
अविद्याऽन्वेति कार्यं स्वं न त्वात्मानमकार्यतः ||
कार्यं स्वकारणस्थं च न त्वात्मस्थमकारणात् || १३१९ ||
आत्माभासोऽपि योऽज्ञाने तत्कार्ये चावभासते ||
कार्यकारणतारूपस्तमप्येषोऽतिवर्तते || १३२० ||
कूटस्थात्मानुरोधित्वात्तावन्मात्रात्मकत्वतः ||
न कार्यं कारणं चातः कटाक्षेणापि वीक्षते || १३२१ ||
विज्ञानात्मा परिष्वक्तः प्राज्ञेनैव परात्मना ||
भेदकारणविध्वस्तौ भेदधीर्विनिवर्तते || १३२२ ||
यस्मादेवमतः प्राह न बाह्यमिति नः श्रुतिः ||
ऐकात्म्यमात्रावसितेर्न वेदान्तर्बहिस्तथा || १३२३ ||
क्रियाकारकसंभेदहेतौ सत्यसतीदृशम् ||
सर्वदैवाऽऽत्मनो रूपं निरस्ताशेषभेदकम् || १३२४ ||
नाऽऽत्मवृत्तमपेक्ष्येदं नापि बाह्यस्य वस्तुनः ||
क्रियाकारकवद्वस्तु किंचिदीक्षामहेऽमितेः || १३२५ ||
सर्वमन्यानपेक्षं सत्स्वात्ममात्रतयेक्षितम् ||
ऐकात्म्यतो हिरुग्रूपं न वस्तूत्प्रेक्ष्यतेऽण्वपि || १३२६ ||
आपेक्षिकं तु यद्रूपं तन्मिथ्येत्युपपादितम् ||
स्वतो यद्वस्तुतो नास्ति तत्कुतोऽन्यव्यपेक्षया || १३२७ ||
अतः सर्वानपेक्षं यत्स्वमहिम्नैव सिध्यति ||
तदेव परमार्थं स्याद्वस्त्वैकात्म्यस्वलक्षणम् || १३२८ ||
यस्मादेवमतः प्राह तद्वा अस्येति नः श्रुतिः ||
उक्तात्मवस्तुनो रूपं कामाविद्याविवर्जितम् || १३२९ ||
कामकर्मादिवन्नेदं मृत्योर्धर्मो भवेदतः ||
चैतन्यं प्रत्यगात्मैव यस्मादुक्तेन हेतुना || १३३० ||
आत्मत्वान्न विभागोऽत्र ज्ञातृज्ञानादिलक्षणः ||
अनपास्ततमस्कोऽपि भेदं नाऽऽत्मनि पश्यति || १३३१ ||
अविद्यावर्त्मदृष्ट्यैव ह्यविद्याकार्यवस्तुगम् ||
द्वैतमाभासते व्योम्नि नीलदिङ्मण्डलत्ववत् || १३३२ ||
निरविद्यं तु यद्रूपमनन्यापेक्षसिद्धिकम् ||
तद्वा अस्यैतदिति तच्छ्रुत्या निर्वर्ण्यतेऽधुना || १३३३ ||
सर्वैकात्म्यमिदं यस्मादात्मनो रूपमीदृशम् ||
तदाविष्क्रियते तस्मात्करविन्यस्तबिल्ववत् || १३३४ ||
आत्मनो यदविद्योत्थं रूपं संसारभूमिगम् ||
अनाप्तकामं तत्सर्वमपेक्ष्येदमिहोच्यते || १३३५ ||
आप्तकामादिकं सर्वं वस्तुवृत्तव्यपेक्षया ||
आप्ताप्तव्यादिहीनत्वादानन्दैकात्म्यवस्तुनः || १३३६ ||
पुमर्थः कामशब्दार्थो नान्योऽर्थः काम्यते यतः ||
आप्ताशेषपुमर्थोऽयं सर्वसाधननिस्पृहः || १३३७ ||
सत्यकामादिशब्देन यदप्यन्यत्र भाषितम् ||
एतद्वाक्यानुरोधेन व्याख्येयं तदपि स्फ़ुटम् || १३३८ ||
आत्ममात्रं समुत्सृज्य सत्यत्वं नान्यतो यतः ||
तत्रैव निरधार्येतद्य्त्र नान्यदिति श्रुतेः || १३३९ ||
सुखसंविद्धि काम्योऽर्थो बाह्यसाधनसाधनः ||
संविदेव सुखं यस्मादाप्तकाममिदं ततः || १३४० ||
कामकामिप्रभेदेन प्रतीचोऽस्याऽऽप्तकामता ||
हिरण्यगर्भवत्किंवा निर्भेदस्येह भण्यते || १३४१ ||
आत्मैव कामा निःशेषा नाऽऽत्मरूपप्रभेदतः ||
आत्मैवेदं सर्वमिति प्रत्यङ्मत्रावशेषतः || १३४२ ||
समस्तव्यस्तताशङ्कामुच्छेत्तुं चोत्तरं वचः ||
अकाममित्यतो ध्वस्तसमस्तव्यस्तरूपकम् || १३४३ ||
आप्तकामात्मकामत्ववचसैव निराकृताः ||
कामाः सर्वेऽकाममिति तथाऽपि पुनरुच्यते || १३४४ ||
आत्माश्रयत्वं कामानां केचिद्व्याचक्षतेऽबुधाः ||
अतस्तत्प्रतिषेधार्थं भूयोऽकाममितीरणम् || १३४५ ||
कामादिहेतुकः शोकः कामाद्यज्ञानहेतुकम् ||
तदभावादथैकात्म्यं शोकान्तरमितीर्यते || १३४६ ||
यदि वा शोकवद्वस्तु शोकशब्देन भण्यते ||
गुणत्वाच्छोकशब्दस्य मतुपो लुप्तता भवेत् || १३४७ ||
शोकार्हवत्पदार्थेभ्यो जात्यन्तरमिदं यतः ||
अहेतुफ़लरूपत्वाच्छोकान्तरमतो मतम् || १३४८ ||
शोकस्य प्रत्यगात्मा वा शोकान्तरगिरोच्यते ||
शोकहेतोरपि प्रत्यङ्ङात्मा स्याच्छोकवान्कथम् || १३४९ ||
अशोकान्तरमिति वा श्रुत्यन्तरसमाश्रयात् ||
अशोकादपरोऽशोकोऽशोकान्तरमितीर्यते || १३५० ||
शोकायोग्यः शुचा हीनोऽशोकशब्देन भण्यते ||
यद्वाऽन्तरयते शोकमानन्दैकस्वभावतः ||
शैत्यं हुताशवत्तस्माच्छोकान्तरमिदं भवेत् || १३५१ ||
शोकादेर्जनकं यद्वा तच्छोकान्तं भवेत्तमः ||
तस्यारं छिद्रमेतत्स्याच्छान्दसि वर्णनिह्नतिः || १३५२ ||
अविद्याकामकर्माणि निःसङ्गत्वस्वभावतः ||
अतिवर्तत आत्माऽयं वस्तुवृत्तानुरोधतः || १३५३ ||
स्वतो बुद्धं यतो वस्तु स्वतः शुद्धमतोऽद्वयम् ||
स्वतो मुक्तमतः सिद्धमविद्यातज्जहानतः || १३५४ ||
यत एवमिदं वस्तु अतिच्छन्दादिलक्षणम् ||
निःशेषध्वान्तसंबन्धव्यतिक्रान्तमिदं ततः || १३५५ ||
जन्यकारणसंबन्धात्कार्यकारणसंगतेः ||
जन्यहेत्वतिवृत्तत्वात्पिताऽप्यत्रापिता ततः || १३५६ ||
अविद्यैव यतो हेतुः कर्तृत्वस्य न वस्तुतः ||
कर्तृत्वे सति कर्मणि नान्यथाऽकर्तुरात्मनः || १३५७ ||
अविद्यायामतोऽसत्यां नाऽऽत्मानः कर्तृकर्मणी ||
पितृपुत्रादिसंबन्धो नातोऽस्तीह सुषुप्तगे || १३५८ ||
असङ्गोऽयं स्वतो यस्मान्नातः केनचिदात्मनः ||
सर्वावस्थासु संबन्धः संबन्धोऽतोऽस्य मोहतः || १३५९ ||
शुभकर्माभिसंबन्धः केवलो नास्य वार्यते ||
निषिध्यते यतो योगः कुत्सितेनापि कर्मणा || १३६० ||
विप्रहाटकहार्यत्र स्तेनशब्देन भण्यते ||
भ्रूणघ्नसहचारित्वाच्चाण्डालो ब्राह्मणीसुतः || १३६१ ||
शूद्रेण जातो विज्ञेयः प्रातिलोम्योपलक्षणः ||
वरिष्ठब्रह्महा चेह भ्रूणहेत्यभिधीयते || १३६२ ||
उत्पन्नः क्षत्र्रियायां यः शूद्रेणैव स उच्यते ||
पैल्कसः पुल्कसो ज्ञेयः स्वार्थ एव च तद्धितः || १३६३ ||
निकृष्टदेहसंबन्धप्रापकैरपि कर्मभिः ||
असंबद्धः सुषुप्तस्थः कर्महेत्वनभिप्लुतेः || १३६४ ||
तथैवानभिसंबन्ध आश्रमाख्यैश्च कर्मभिः ||
परिव्राट्श्रमणो ज्ञेयस्तापसाश्रमसंनिधेः || १३६५ ||
वर्णाश्रमादिहेतूनां सर्वेषामपि कर्मणाम् ||
उपलक्षणकृज्ज्ञेयः परिव्राट्तापसग्रहः || १३६६ ||
इत्येवमादयोऽनन्ताः संबन्धा मोहहेतवः ||
नरेण परिसंख्यातुं न शक्याः कल्पकोटिभिः || १६६७ ||
पुण्यापुण्ये हि निखिलसंबन्धस्येह कारणम् ||
प्राज्ञोऽनन्वागतस्ताभ्यां कर्महेत्वसमन्वयात् || १३६८ ||
परं रूपं समापन्नः कर्माविद्यानिमित्तकम् ||
पितृमात्रादिसंबन्धं सुषुप्ते सोऽतिवर्तते || १३६९ ||
जीवत्येव शरीरेऽस्मिंस्तत्स्थ एव कथं पुनः ||
सर्वसङ्गव्यतीतोऽयं भवतीत्यभिधीयते || १३७० ||
यतोऽनन्वागतं रूपं सुषुप्तेऽस्याऽऽत्मनः स्वतः ||
उभाभ्यां पुण्यपापाभ्यां कुतस्तदपि चेन्मतम् || १३७१ ||
हृदयातिक्रमाद्यास्मात्तद्धर्मानतिवर्तते ||
कर्मप्रयोजकान्कामांस्तस्मात्सुस्थं यथोदितम् || १३७२ ||
हृदयस्यैव धर्मास्ते शोककामादयो यतः ||
तीर्णबुद्धिर्हि तद्धर्मांस्तस्मादेषोऽतिवर्तते || १३७३ ||
पुण्यपापाभिसंबन्धः स्वप्ने हृदयसंगतेः ||
वासनामात्रया त्वत्र साऽपि प्राज्ञे निवर्तते || १३७४ ||
करणत्वं विहायेह केवलाज्ञानमात्रकम् ||
स्वप्न आस्ते मनोरूपं वासनामयविग्रहम् || १३७५ ||
वासनामय एवातो भुङ्के स्वप्ने क्रियाफ़लम् ||
न हि स्वप्नदृशो योगः स्वप्नेऽन्येनास्ति केनचित् || १३७६ ||
स्वाभासवर्त्मनैवाऽऽस्ते जाग्रत्स्वप्नसुषुप्तिषु ||
अविद्याकामकर्मादि बिभर्तीव न तु स्वतः || १३७७ ||
चैतन्यमपि नैव स्यादात्मनः कामकर्मवत् ||
धर्मानन्वयतः प्राज्ञ इत्येवमभिचोदिते || १३७८ ||
स्रीपुंदृष्टान्तवाक्येन परिहारश्च दर्शितः ||
विभागहेत्वसद्भावाज्जाग्रद्वन्नोपलभ्यते || १३७९ ||
अविभागात्मतां यातं न पुनः कामकर्मवत् ||
साधितं च प्रयत्नेन स्वयंज्योतिष्ट्वमात्मनः || १३८० ||
यद्यात्माऽयं स्वयंज्योतिः कामकर्मादिवत्कथम् ||
सुषुप्तेऽस्य स्वभावत्वाज्जह्याच्चैतन्यमित्यतः || १३८१ ||
नास्य धर्मो भवेदेतत्सुषुप्ते तददर्शनात् ||
नाऽऽत्मधर्मो विनष्टत्वात्तस्माच्चैतन्यमत्र तत् || १३८२ ||
अपि विप्रतिषिद्धं च यत्स्वयंज्योतिरात्मकम् ||
प्रत्यग्वस्तु न वेत्तीति भवतेहाभिधीयते || १३८३ ||
ऐक्यादनुपलब्धिश्चेदनैकान्तिकता तथा ||
यतोऽभावेऽप्यसंवित्तिश्चैतन्यस्येह दृश्यते || १३८४ ||
इत्यस्य परिहारार्थं परो ग्रन्थोऽवतार्यते ||
यद्वै तदित्युपक्रम्य प्रत्यग्वस्तुविशुद्धये || १३८५ ||
तथा परोऽपि संबन्धः कैश्चिदत्राभिधीयते ||
अशोकान्तरमित्युक्तं याथात्म्यं प्रत्यागात्मनः || १३८६ ||
ज्योतिर्मात्रतयैवाऽऽत्मा सुषुप्ते व्यवतिष्ठते ||
कुतः पुनरिदं सिद्धं विशेषज्ञानसंक्षये || १३८७ ||
ज्योतीरूपमिदं तत्त्वं सुषुप्ते व्यवतिष्ठते ||
उक्तं प्राग्व्यतिरेकेण स्वयंज्योतिष्ट्वमात्मनः || १३८८ ||
ननूक्तं प्रागिदं सर्वं विशेषज्ञानमात्मनः || १३८९ ||
अविद्यापक्षपात्येव न तत्स्याच्चित्तिवत्स्वतः ||
नैतदेवं यतोऽदर्शि पूर्वमेत्स्फ़ुटं मया || १३९० ||
सर्वमेवाहमस्मीति यद्यपीदं विशेषवत् ||
विज्ञानं न तथाऽपीदमविद्यापक्षभागिति || १३९१ ||
नानात्वदर्शनं यस्माद्भयादज्ञानजं मतम् ||
प्रतिपक्षमविद्याया अहमेवेदमित्यतः || १३९२ ||
तदेतन्मथ्यमानं सदैक्यदर्शनलक्षणम् ||
भवत्यतीव संशुद्धं प्रसन्नं व्यवतिष्ठते || १३९३ ||
विशेषदर्शनासूतेरसंबोधस्तदाऽऽत्मनः ||
देदीप्यमाना विज्ञप्तिर्विशेषात्माऽवतिष्ठते || १३९४ ||
सुषुप्तस्थानगं रूपं तदेतत्प्राक्प्रदर्शितम् || १३९५ ||
तत्रैतच्छङ्क्यते ज्ञानेऽसंबोधः कथमात्मनः ||
सति स्याच्चेदनाशङ्का स्त्रीपुंदृष्टान्तनिर्णयात् || १३९६ ||
नैतदेवं यतस्तत्र सत्स्वेव ज्ञानहेतुषु ||
अविभक्तो विशेषेषु भवतीति प्रदर्शितम् || १३९७ ||
इह पुनर्न शक्यन्ते विशेषाः प्रसमीक्षितुम् ||
यतोऽत्राप्रविभक्तेन स्वेन बोधेन तिष्ठति || १३९८ ||
असंबोधः सति ज्ञाने कथं स्यादिति शङ्क्यते ||
तम एवेति चेन्नैवं स्वयंज्योतिष्ट्वमात्मनः || १३९९ ||
महतेह प्रयत्नेन यतः प्राक्प्रतिपादितम् ||
सिद्धान्तस्य स्थितत्वाच्च यथावदुपपत्तिभिः || १४०० ||
प्रदीपवद्विनष्टोऽयमिति चेदभिधीयते ||
प्रत्यभिज्ञानतो नैवं पूर्वदृष्टस्य वस्तुनः || १४०१ ||
यतः प्रत्यभिजानाति सुषुप्तादुत्थितस्ततः ||
सर्वावस्थास्वयं नित्य आत्मा नैव विनश्यति || १४०२ ||
समस्तैरिन्द्रियैर्हीनः संप्रसन्नो निराकुलः ||
सुप्तः स्वप्नान्न जानाति यः स आत्मेति भण्यते || १४०३ ||
नाद्राक्षं स्वप्नमद्येति प्रतिबुद्धोऽभिभाषते ||
जाग्रत्स्वप्नसुषुप्ते च तस्मादात्मा स एव सः || १४०४ ||
स्वप्नमेति सुषुप्ताच्च स्वप्नाद्बुद्धान्तमेव च ||
इति श्रुत्या पुराऽप्युक्तं तस्मान्नाऽऽत्मा विनश्यति || १४०५ ||
स्वयंज्योतिःस्वभावस्थस्तस्मादात्मा सुषुप्तगः ||
प्रत्यगज्ञानतत्कार्यैरसंस्पृष्टः स्वभावतः || १४०६ ||
यत्तु तच्छङ्क्यते कस्मादात्मा प्राज्ञे न पश्यति ||
चैतन्यात्मस्वभावोऽपि तच्चापि शृणु सांप्रतम् || १४०७ ||
स्वभावो नाऽऽत्मनः कामकर्माविद्यादि बॊधवत् ||
असङ्गानन्वयोक्तिभ्यां कामादेश्च मृषात्वतः || १४०८ ||
चैतन्यमात्मनस्तत्त्वं कूटस्थं, न तु कामवत् ||
अनाद्यविद्यायोगोऽस्य तत्कार्यैरादिमान्मतः || १४०९ ||
अज्ञानमिथ्याविज्ञानसंस्थस्यास्याऽऽत्मनः क्वनु ||
उपदेशादिसंबन्धः इत्येतदिह भण्यते || १४१० ||
न पश्यत्येष आत्माऽत्र स्वयंज्योतिश्च स स्वतः ||
इति विप्रतिषिद्धं यत्तदैकात्म्यान्न दुष्यति || १४११ ||
चोदितार्थानुवादोऽयं परिहारविवक्षया ||
यद्वै तदिति यत्नेन श्रुत्येह क्रियतेऽञ्जसा || १४१२ ||
न पश्यतीति मन्वीथाः सुषुप्ते यन्न तत्तथा ||
पश्यन्नेवाविलुप्ताक्ष आत्माऽयं वर्तते यतः || १४१३ ||
न पश्यत्येव नन्वत्र चक्षुरादेरसंभवात् ||
करणान्यन्तरेणेह जात्यन्धादिर्न वीक्षते || १४१४ ||
नैतदेवं यतो द्रष्टुः कारकस्य समीक्षणे ||
करणानि व्यपेक्ष्यन्ते न त्वकारकवीक्षणे || १४१५ ||
स्वप्नेऽपि चक्षुरादीनामपीतिः श्रूयते श्रुतौ ||
कुतः सुषुप्तौ तानि स्युर्यत्र तद्वासनाऽपि न || १४१६ ||
न पश्यतीति वचनं कारकादेरसंभवात् ||
वास्तवं वृत्तमापेक्ष्य पश्यन्वै तदितीर्यते || १४१७ ||
पश्यन्नेवायमत्राऽऽस्त इत्येतच्चेत्कुतो भवेत् ||
इत्यस्य हेतुसिद्ध्यर्थं न हि द्रष्टुरितीरणम् || १४१८ ||
मेयमामप्रमात्यणां व्यभिचारेऽपि चाऽऽत्मनः ||
अनन्यानुभवादेव सिद्धिस्तद्ध्वंससाक्षितः || १४१९ ||
प्रमात्राद्यानभिव्याप्तं वस्तु पूर्वं समीक्ष्य हि ||
नाद्राक्षणिति संधत्ते दृष्टवत्स्वचिदात्मना || १४२० ||
यस्माद्रप्टुर्हि या दृष्टिर्यया द्रष्टा प्रसिध्यति ||
तस्या विपरिलोपोऽयं हेत्वभावान्न युज्यते || १४२१ ||
नाशोत्पत्त्यादयो धर्मा हेतुमद्वस्तुनो यतः ||
निर्हेतुसाक्षिणो न स्युरागमापायिसाक्षितः || १४२२ ||
नाशादि न स्वयं सिध्येद्विना नाशादिसाक्षिणा ||
नातो विपरिलोपः स्याद्द्रष्टुर्दृष्टेः कदाचन || १४२३ ||
द्रष्टुरात्मैव या दृष्टिः प्रत्यग्दृष्ट्या समीक्ष्यते ||
तस्या विपरिलोपोऽत्र न कथंचन युज्यते || १४२४ ||
आत्मैवाऽऽत्मीयभूतस्य या दृष्टिरविनश्वरी ||
द्रष्टुर्विनाशिनस्तस्या नोच्छित्तिरुपपद्यते || १४२५ ||
आगमापायिनो द्रष्टुर्दृष्टिस्तत्साक्षिणी तु या ||
द्रष्ट्रादिलोपसाक्षित्वात्तस्या लोपो न युज्यते || १४२६ ||
सत्येव साक्षिणि यतो भावाभावौ प्रसिध्यतः ||
जगतोऽतो न नाशः स्यादात्मदृष्टेः कुतश्चन || १४२७ ||
ननु विप्रतिषिद्धोक्तिर्भवतेहाभिधीयते ||
न विनश्यति सा दृष्टिर्द्रष्टुश्चेत्यतिसाहसम् || १४२८ ||
कर्तृकार्याभिसंबन्धो द्रष्टुर्दष्टेरितीर्यते ||
ततश्चापरिलोपोऽस्याः कार्यत्वान्नोपपद्यते || १४२९ ||
ननु न लुप्यत इति वचनान्न विलोप्स्यति ||
नैवं यतो मितिप्राप्तं वचो नाशं न वारयेत् || १४३० ||
सिद्धस्य व्यञ्जकं मानं न तु तत्कारकं यतः ||
उक्तेर्नैतोऽविनाशित्वां द्रष्टुर्दृष्टेरिहेष्यते || १४३१ ||
नैष दोषो यतो द्रष्टुः श्रुतिराह विशेपणम् ||
द्रष्टुर्दृष्टेरिति ततो द्रष्टा नैवेह कारकम् || १४३२ ||
देहान्तो दृष्टिकारी यो द्रष्टा धर्मादिहेतुमान् ||
दृष्टेर्द्रष्टुश्च लोपोऽत्र प्रत्यग्दृष्ट्येकसाक्षिकः || १४३३ ||
प्राक्प्रमात्रादिसंभूतेर्या तु दृष्टिरकर्तृका ||
द्रष्ट्रादिनाशसाक्षित्वात्सा दृष्टिरविनश्वरी || १४३४ ||
दृष्टिरेव तु सा द्रष्टा न तु कारकलक्षणः ||
द्रष्टुर्विशेषणत्वेन दृष्टेरिति परिग्रहात् || १४३५ ||
परिलोपो हि कार्याणां लोके सिद्धः स्वकारणे ||
नातः कारणरूपस्य नाप्यकारकवस्तुनः || १४३६ ||
अभावस्य च भावत्वाद्भावसिद्धेश्च दृष्टितः ||
दृष्टौ नाभावशङ्काऽतः सर्वसिद्धेस्तदन्वयात् || १४३७ ||
न सुषुप्तप्रसिद्धिः स्यादृष्टेर्लोपो भवेद्यदि ||
जन्मनाशादिहीनेयमतो दृष्टिः परात्मनः || १४३८ ||
शतृतृजन्तश्रवणाद्द्ष्टिश्चेत्स्यात्सकर्तृका ||
पश्यन्द्रष्टुरिति ह्येवं नैवं कर्त्राद्यसंभवात् || १४३९ ||
नेह बुद्ध्यादिसद्भावस्तदाऽपीतिश्रुतेर्भवेत् ||
सुषुप्तेऽतो न धात्वर्थः प्रत्ययार्थश्च नेष्यते || १४४० ||
कर्त्रादिकारकं नो चेत्सुषुप्ते विद्यते कथम् ||
पश्यन्द्रष्टुरिति वचः कूटस्थ उपपद्यते || १४४१ ||
यथाऽवकाशदात्रिति भण्यते निष्क्रियं वियत् ||
शतृतृजन्तवचसा तथाऽऽत्मा भण्यते ध्रुवः || १४४२ ||
स्वभावः कारकाणां च यदकृत्वेह कुर्वते ||
अकुर्वत्कारकं तस्मात्कुर्वतोऽतिशयः कुतः || १४४३ ||
प्राक्क्रियाया विनिष्पत्तेः कुर्वद्रूपं न लभ्यते ||
यतोऽतोऽकुर्वदेवेह स्यात्सर्वत्रैव कारकम् || १४४४ ||
शक्तिमत्कारकं चेत्स्यात्स्यात्कार्यं शक्तिवत्सदा ||
शक्यानामपि सद्भावः शक्तिवत्सर्वदा यतः || १४४५ ||
न मिथो व्यतिरेकेण शक्तिशक्यौ प्रसिध्यतः ||
परस्परव्यपेक्षत्वाच्छक्तिशक्यस्वरूपयोः || १४४६ ||
शक्तीनां नियमः शक्याच्छक्यानां चापि शक्तितः ||
परस्पराश्रयत्वं च प्राप्नुयाच्छक्तिवादिनः || १४४७ ||
क्रियायाश्चाप्यकार्यत्वे कारकं न प्रसिध्यति ||
कार्यत्वे चानवस्था स्यात्कुर्वच्चापि सुदुर्लभम् || १४४८ ||
क्रियातत्फ़लयोश्चापि पौर्वापर्याप्रसिद्धितः ||
किं साध्यं साधनं चेह निश्चयो नोपपद्यते || १४४९ ||
अविद्यामात्रहेतौ तु सर्वमेतत्समञ्जसम् ||
तत्कार्यत्वाच्च सर्वस्य न किंचिदसमञ्जसम् || १४५० ||
यत्राऽऽत्मनोऽस्य संबन्धोऽनात्मनेह विवक्ष्यते ||
अविद्याहेतुकर्त्रादिसंगतिस्तत्र मोहजा || १४५१ ||
यत्र त्वात्मेति धीरस्य जायतेऽनात्मधीरिव ||
यथावस्त्वेव धीस्तत्र नात्राविद्याद्यपेक्षते || १४५२ ||
जाग्रत्स्वप्नप्रहाणेऽपि प्रत्यङ्मात्रं न हीयते ||
तद्धानेरात्मसाक्षित्वात्प्रत्यङ्जन्मादिवर्जितः || १४५३ ||
रज्ज्वज्ञानमनादाय न सर्पादीक्षणं यथा ||
आत्माज्ञानमनादाय न तथाऽनात्मवीक्षणम् || १४५४ ||
कल्पनाबीजविरहात्कल्पना न हि लभ्यते ||
प्रतीचि कल्पितोऽनात्मा प्रतीचि व्यभिचारितः || १४५५ ||
आत्मनोऽव्यभिचारित्वं सर्वत्राऽऽत्मैकसाक्षिकम् ||
यतोऽतस्तत्परिज्ञाने नाऽऽत्माऽज्ञानमपेक्षते || १४५६ ||
प्रकाश्यार्थाभिसंबन्धे कर्तृत्वं सवितुर्यथा ||
अप्रकाशप्रकाशित्वान्न तथाऽऽत्मप्रकाशने || १४५७ ||
बाह्यार्थभासनेऽप्यस्य सूर्यादेरिव कर्तृता ||
सर्वदैवैकरूपत्वाद्भानोर्नापूर्वकारिता || १४५८ ||
यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ||
संनिध्यसंनिधानेषु प्रकाश्यानामविक्रिया || १४५९ ||
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते ||
उपचारात्क्रिया साऽस्य यः प्रकाश्यस्य संनिधिः || १४६० ||
न चेदं दर्शनं गौणमग्निर्माणवको यथा ||
इतोऽन्यथाऽवबोधस्य प्रतीचोऽनुपलब्धितः || १४६१ ||
ननु भङ्गुरधात्वर्थे तृच्प्रयोगो जगत्यपि ||
द्रष्टृशब्दाभिलप्यस्य नित्या दृष्टिः कथं भवेत् || १४६२ ||
नोक्तत्वात्परिहारस्य सूर्यादावपि दर्शनात् ||
प्रकाशयिता सविता व्याप्त् वाऽपि वियत्तथा || १४६३ ||
अस्तु प्रकाशकेष्वेवं न प्रतीचीति चेन्मतम् ||
नैवं प्रकाशकत्वात्स्यात्प्रत्यगात्माख्यवस्तुनः || १४६४ ||
प्रत्यक्षमात्मना लोके द्रष्टाद्यर्थावभासनम् ||
स्वयंज्योतिष्ट्वशास्त्राच्च प्रत्यगात्मा प्रकाशकः || १४६५ ||
अपयात्मैवेह सर्वत्र स्वयंज्योतिः प्रतीयते ||
ज्योतिषामपि तज्ज्योतिस्तमेवेति च शास्त्रतः || १४६६ ||
साक्षात्पश्याम्यहं कुम्भं न पश्यामीति लोकतः ||
अनुभूतेः प्रसिद्धत्वान्नैवं स्यादिति चेन्मतम् || १४६७ ||
मैवं पश्याम्यहं कुम्भं न पश्यामीति दर्शनात् ||
सदाऽनश्वरदृष्टित्वं प्रतीचो गम्यते स्फ़ुटम् || १४६८ ||
पश्यामीत्यस्य साक्षित्वं प्रतीचो गम्यते यथा ||
न पश्यामीति चाप्यस्य तथैवेहाऽऽत्मसाक्षिकम् || १४६९ ||
उत्खातचक्षुषां चापि दृष्टिः स्वप्नेऽनुभूयते ||
द्रष्टृदृष्ट्यतिरेकेण नित्या दृष्टिरतो मम || १४७० ||
ज्योतिषामपि तज्ज्योतिरस्मद्धीपरिमोषणात् ||
तमोरूपमिवाऽऽभाति भानुर्नक्तंदृशामिव || १४७१ ||
यत एवमतो दृष्टिर्नित्यैवाऽऽत्मन इष्यताम् ||
अनित्यत्वस्य सर्वस्य प्रत्यग्दृष्ट्येकसाक्षितः || १४७२ ||
तयाऽसाधनया दृष्ट्याऽपरिणामस्वभावया ||
पश्यन्नेवायमात्माऽऽस्ते तद्द्दृष्टेश्चोद्यहेतुतः || १४७३ ||
पश्यामीति यथाऽद्राक्षीरात्मदृष्ट्यैव जागरे ||
न पश्यामीत्यपि तथा नित्यदृष्ट्यैव वीक्षसे || १४७४ ||
पश्यन्कुम्भादिकं वस्तु देहान्तो ग्राहको यथा ||
दृष्ट्या संबध्यते द्रष्टा द्रष्टृत्वस्य तदाश्रयात् || १४७५ ||
अकारकस्वभावत्वान्नैवं वृत्तं ममाऽऽत्मनः ||
आत्मदृष्टिरतो ग्राह्या प्रत्यङ्मात्रानुरोधिनी || १४७६ ||
यथोक्तार्थप्रसिद्धत्वाद्वैशब्दोऽत्र प्रयुज्यते ||
तन्न पश्यतिशब्देन कारकत्वं निषिध्यते || १४७७ ||
दृश्यार्थासंभवाद्यदूत्पश्यन्नपि न पश्यति ||
न पश्यामीतिफ़लतः कारकस्य यथा तथा || १४७८ ||
अकारकात्मनोऽदृष्टिर्द्रष्टव्यार्थाप्रयुक्तितः ||
वस्तूक्तं दृष्टिशब्देन न क्रिया नापि कारकम् || १४७९ ||
ग्राहकग्रहणग्राह्यहीनं रूपं यदात्मनः ||
तद्दृष्टिरिति वचसा साक्षान्नः प्रतिपाद्यते || १४८० ||
प्रतीच्येव समाप्तं यदक्रियाकारकात्मकम् ||
न पश्यति गिरा रूपमात्मनस्तदिहोच्यते || १४८१ ||
ननु चोद्यानुवादोऽयं पश्यतिगोरोच्यते ||
कुतोऽकारकवस्त्वत्र प्रमाणादभिधीयते || १४८२ ||
ऐकात्म्यमेव नो ज्ञातं सर्वत्रैव पुरा मितेः ||
अज्ञातमेव च ज्ञातं नातश्चोद्यस्य संभवः || १४८३ ||
स्वतःसिद्धानुभूतिश्च नाज्ञानाद्व्यतिरिच्यते ||
सांख्यराद्धान्तवन्नातश्चोद्यं मत्तोऽन्यतः कृतम् || १४८४ ||
ऐकात्म्यवादिनाऽवश्यमेकौ मेयोऽर्थ इष्यते ||
मेयान्तराभ्युपगमे न ह्यैकात्म्यं प्रसिध्यति || १४८५ ||
साधनानामसामग्र्यात्सामग्र्याच्चेह कर्तरि ||
न पश्यतीक्षत इति विरुद्धार्थो यथोच्यते || १४८६ ||
पश्यन्न पश्यतीत्यत्र न तथाऽऽत्मनि युज्यते ||
दृङ्मात्राविक्रियात्मत्व एकत्वाकारकत्वतः || १४८७ ||
यत एवमतः पश्यन्नित्यस्यैवोत्तरं वचः ||
न पश्यतीति व्याख्यानं कारकादिनिषेधनम् || १४८८ ||
पश्यन्न पश्यतीत्यत्र तस्मादेकोऽर्थ उच्यते ||
अकारकात्मकं ज्योतिरद्वयं प्रत्यगात्मकम् || १४८९ ||
ग्रहीतृग्रहणग्राह्यं वस्तु द्रष्टव्यमुच्यते ||
प्रमाणदृष्टियोग्यत्वात्प्रमात्राद्यात्मवस्तुनः || १४९० ||
प्रात्यक्ष्यं च यथैतेषां तथा पूर्वमवादिषम् ||
द्रष्ट्रादेरात्मनश्चोक्तं वैलक्षण्यं तथा पुरा || १४९१ ||
दर्शनादर्शनोक्तिभ्यामविभागात्मको दृशिः ||
इहाभिधीयते ज्योतिरन्यत्र तु विभागवत् || १४९२ ||
चितेरकारकत्वाच्च सर्वान्तरतमत्वतः ||
कार्त्स्न्यात्तदन्ययाथात्म्यात्पश्यन्नपि न पश्यति || १४९३ ||
न पश्यति यथा प्राज्ञ उक्तहेत्वविशेषतः ||
तथैवैतद्ग्रहीतव्यं स्वप्नजाग्रदवस्थयोः || १४९४ ||
चितेर्यथाऽविनाशश्च स्वप्नजाग्रदवस्थयोः ||
तथैव संप्रसादेऽस्मिन्नुक्तहेतुसमन्वयात् || १४९५ ||
न हीतिहेतुवचनं प्रतिज्ञातार्थसिद्धिकृत् ||
द्विप्रकारो विनाशश्च द्विर्हेतूक्त्या निषिध्यते || १४९६ ||
निरन्वयो विनाशोऽस्य न हीत्युक्त्या निषिध्यते ||
अविनाशीति चाप्यत्र विकारापह्नुतेर्वचः || १४९७ ||
अविनाशीति मैत्रेय्यां द्विधानाशनिषेधकृत् ||
वचनं प्रागुपन्यस्तं तदेवात्रापि हेतवे || १४९८ ||
सर्वोच्छित्त्यात्मसाक्षित्वादुच्छित्तेश्चाप्यसंभवात् ||
तथा सर्वविकाराणां प्रत्यङ्मात्रैकसाक्षिता || १४९९ ||
पश्यन्नेवायमत्राऽऽस्ते सान्वयानन्वयौ ध्रुवः ||
नाशौ यस्मादतः सिद्ध आत्मा कूटस्थदर्शनः || १५०० ||
पश्यन्न पश्यतीत्येतत्स्वतन्त्रं चाऽऽगमं वचः ||
न हीति तु प्रतिज्ञोक्तिरनुमोक्त्यनुसारिणी || १५०१ ||
हेतूक्तिरविनाशित्वादित्युक्तार्थप्रसिद्धये ||
विनाशशक्त्यभावोक्तेर्न प्रतिज्ञैकदेशता || १५०२ ||
प्रतिज्ञावचसी द्वे वा पश्यन्नित्यादिनोदिते ||
न हीति हेतुवचसी द्वे स्यातामुत्तरे तयोः || १५०३ ||
पश्यन्नेवाऽऽस्त इत्यस्याः प्रतिज्ञोक्तेः प्रसिद्धये ||
हेतुर्न हीतिवचनमुत्तरस्यापि चोत्तरम् || १५०४ ||
निरन्वयविनाशस्य निषेधोऽत्र विवक्ष्यते ||
प्रथमे हेतुवचसि परिणामस्तथोत्तरे || १५०५ ||
द्व वा हेतू यथोक्तार्थौ द्वयोरपि प्रतिज्ञयोः ||
आभ्यां संभूय सिद्धोऽर्थ एवं सति भवेद्यतः || १५०६ ||
पश्यन्नेवायमत्राऽऽस्त इति चेत्कथमुच्यते ||
न पश्यतीति वचनं शृणु तच्च यथा तथा || १५०७ ||
पुरा यदभवन्मोहात्स्वप्नजाग्रदवस्थयोः ||
प्रतीचो न तदत्रास्ति रूपं यत्कारकात्मकम् || १५०८ ||
आत्मनोऽद्वयतत्त्वस्य द्वितीयं यदविद्यया ||
सुषुप्ते न तदस्तीह प्रयुक्तं यत्स्वगोचरैः || १५०९ ||
सजातीयप्रयुक्तं यद् बुद्ध्यन्तं रूपमात्मनः ||
धर्मादिहेतुकं प्राज्ञे तद् ध्वस्तं कर्मणः क्षयात् || १५१० ||
तमोन्तात्कारणात्तद्धि द्वितीयं कार्यरूपतः ||
ततोऽन्यद्ग्रहणं नास्ति, विभक्तं ग्राह्यमेव च || १५११ ||
स्वप्नेऽप्येतत्र्रयं नाभूद्वासनामात्रशेषतः ||
किमु विध्वस्तनिःशेषद्वैतहेतौ सुषुप्तगे || १५१२ ||
सुषुप्ते योऽवशिष्टोऽत्र कौटस्थ्यान्नान्यदर्श्यसौ ||
योऽप्यन्यदर्शी सोऽप्यत्र नास्ति तद्धेत्वसंभवात् || १५१३ ||
द्वितीयदर्शनायालं रूपमासीद्यदात्मनः ||
तन्नास्ति तद्द्वितीयं विभक्तं नात ईक्षते || १५१४ ||
अविद्यावद्दूतीयं वा नित्यदृष्टेर्विवक्ष्यते ||
सदाहीनाननुदितभास्वदेकदृगात्मनः || १५१५ ||
तादात्म्यव्यतिरेकाभ्यां तमस्तज्जं च नाऽऽत्मनः ||
विरोधाद्दॆशतोऽकार्यकारणत्वात्परात्मनः || १५१६ ||
विभक्तं यत्तमोऽस्तीव नाविभक्तं मनागपि ||
तमोऽन्वितत्वाद्बुद्ध्यन्ते न प्राज्ञेऽनन्वयात्तमः || १५१७ ||
कूटस्थदृष्टावेकस्मिन्नविभक्ते सहस्रधा ||
नामरूपादिभेदेन विभक्तं यत्तमो दृशेः || १५१८ ||
तत्तु द्वितीयं नेहास्ति तमोऽनर्थस्य कारणम् ||
द्रष्ट्रादिरूपसंभेदाद्यत्पश्येज्जागरे यथा || १५१९ ||
अविद्यादेरभावोक्त्या कूटस्थात्मैव भण्यते ||
कारणात्मा यतोऽभावः कार्याख्यस्येह वस्तुनः || १५२० ||
अज्ञानान्नान्नयदस्तित्वं सर्वस्यानात्मनो यथा ||
निवृत्तिस्तद्वत्तद्धेतोर्नावगत्यात्मनोऽपरा || १५२१ ||
तत्तु नैवेह वस्त्वस्ति द्वितीयं मोहहेतुजम् ||
साक्षिणो विषयीभूतं विभक्तं कार्यरूपतः || १५२२ ||
संविदैव समाप्तत्वात्तमोजस्य पुरोत्थितेः ||
लभते न द्वितीयत्वमन्यत्वासंभवात्तमः || १५२३ ||
कार्यस्यापि च बुद्ध्यादेस्तद्धेतोरविभागतः ||
न तदस्ति द्वितीयत्वं संविदैव समाप्तितः || १५२४ ||
यत एवमतः प्राह नेह तद्वस्तु विद्यते ||
यत्पश्येद्गॊचरापन्नं मुखशब्दादिलक्षणम् || १५२५ ||
यत्पश्येदिति कर्त्रुक्तिर्द्रष्टाऽत्राऽऽशङ्क्यते यतः ||
तन्नास्ति विषयोल्लेखिदर्शनस्येह कारणम् || १५२६ ||
श्रोत्रादिकरणोपेतं यतोऽन्तःकरणं दृशेः ||
बाह्यार्थदर्शने हेतुः कौटस्थ्यान्न तदक्षरम् || १५२७ ||
तमोन्तः कारणं बुद्धेर्द्रष्टाऽन्तःकरणावधिः ||
सुखी दुःखी च देहान्तः प्रत्यगज्ञानहेतुतः || १५२८ ||
बुद्ध्यादेश्च समुत्पत्तौ धर्माद्येवात्र कारणम् ||
यतोऽतः कारणध्वस्तौ बुद्ध्याद्येत्यात्मकारणम् || १५२९ ||
तमोन्वयस्तमःकार्ये बुद्ध्यादावेव युज्यते ||
न त्वकारणकार्येऽस्मिन्नित्यबुद्धे परात्मनि || १५३० ||
वृत्तिं च लभते कार्यं न स्वकारणतोऽन्यतः ||
न कार्यं कारणं वाऽस्ति प्रत्यग्वृत्तव्यपेक्षया || १५३१ ||
बुद्ध्यन्तस्यास्य मूढस्य सुखशब्दादिदर्शिनः ||
स्वकारणक्षयाद्ध्वस्तौ नाऽऽत्मा पश्यन्नपीक्षते || १५३२ ||
द्रष्टृत्वादिविभागेन विभक्तो यस्त्वविद्यया ||
स कूटस्थात्मनाऽपीतो रज्ज्वा सर्पो यथा तथा || १५३३ ||
द्रष्टृदर्शनदृश्यानां संबन्धोऽतो न वीक्ष्यते ||
तमस्विनः प्रलीनत्वान्नाविद्याकार्यमीक्षते || १५३४ ||
द्रष्टृदर्शनदृश्यादिभेदोऽविद्याप्रकल्पितः ||
यतोऽतो मोहविध्वस्तौ द्रष्ट्राद्यात्मनि नेक्ष्यते || १५३५ ||
उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत् ||
व्याख्यानमेतदेवेति नातोऽन्यदवशिष्यते || १५३६ ||
अन्ये पुनरिमं ग्रन्थमन्यथैव यथोदितात् ||
व्याचक्षते हि व्याख्यानात्तच्चापीह विभाव्यते || १५३७ ||
निरस्य पूर्वपक्षोक्तीः परिहारोक्तिभिः क्रमात् ||
ज्योतिर्मात्रतया स्थानं दृशेः प्राज्ञे जगौ सुधीः || १५३८ ||
साधयित्वा स्वयंज्योतिः सुषुप्ते युक्तिभिः स्फ़ुटम् ||
अथैवं ज्ञस्वभावोऽपि कस्मात्प्राज्ञे न पश्यति || १५३९ ||
इत्याशङ्कापनुत्त्यर्थं परो ग्रन्थोऽवतारितः ||
तद्व्याख्यानं यथावच्च ह्यक्षराणां विभाव्यते || १५४० ||
यद्वे न पश्यतीत्येवमात्मानमतिशङ्कसे ||
तन्मा शङ्कीर्यतः प्राज्ञे पश्यन्नात्माऽत्र वर्तते || १५४१ ||
इत्थं स तत्त्वकस्तावद्द्रष्टव्यः श्रुतियुक्तिभिः ||
न पश्यतीति न पुनर्द्रष्टव्यो हेत्वसंभवात् || १५४२ ||
विशेषवन्न चाप्यस्य विज्ञानमिह जायते ||
पश्यन्न पश्यतीत्येवं पदार्थद्वयमीरितम् || १५४३ ||
तदाविष्करणे ग्रन्थः क्रमेणाऽऽरभ्यते परः ||
न हि द्रष्टुरितीत्थं च सौकर्येणावगम्यते || १५४४ ||
द्रष्टा दृष्टिक्रियाकारी विज्ञानात्मा पुमानिह ||
बुद्ध्युपात्तस्य रूपादेर्विज्ञानं च ततः परम् || १५४५ ||
तत्रापि च धियो वृत्तेर्ग्राह्यग्राहकरूपतः ||
घटादिमेयविषयात्पूर्वोत्पन्नक्रियात्मनः || १५४६ ||
क्रियान्तरस्य निर्वृत्तौ द्रष्टा तत्रापि पुरूषः ||
दृक्शक्तिः पुरुषे तत्र या रूपाद्यनुरोधिनी || १५४७ ||
क्रियाभावोऽवगन्तृस्थो विज्ञानात्मैककर्तृकः ||
तस्या दृष्टेः क्रियाया हि द्रष्टृधर्मत्वतः सदा || १५४८ ||
द्रष्टुर्विपरिलोपोऽत्र मनागपि न विद्यते ||
गुणिस्थित्यनुरोधित्वाद्गुणानामग्निदाहवत् || १५४९ ||
यत एवमतो यावदात्मा द्रष्टा न नश्यति ||
न तावत्स्यात्समुच्छेदो द्रष्टुर्दृष्टेस्तदाश्रयात् || १५५० ||
मतं गुणिविनाशेन तद्गुणोऽपि विनङ्क्ष्यति ||
अग्न्याद्यौष्ण्यादिवच्चेन्न द्रष्टुरस्याविनाशतः || १५५१ ||
अत आहाविनाशित्वाद्द्रष्टुर्दृष्टिकृतः सदा ||
विनंष्टुं नाऽऽत्मनः शीलं घटादेरिव युज्यते || १५५२ ||
न विनश्यत्यसौ कस्मादिति हेतुरिहोच्यताम् ||
सर्वात्मत्वात्तथैकत्वाद्द्रष्टुर्नाशो न विद्यते || १५५३ ||
येनास्याऽऽशङ्क्यते नाशस्तेनास्याप्रविभागतः ||
संभाव्यते न नाशोऽस्य नंष्टुर्नाशाविभागतः || १५५४ ||
न च तेनैव तस्यैव विनाश उपपद्यते ||
ऐकात्म्याद्द्वैतविषये यथाऽग्नीन्धनयोस्तथा || १५५५ ||
द्रष्टस्ततोऽविनाशित्वान्नित्या नित्यस्य धर्मिणः ||
आदित्यारश्मिवद्ग्राह्या दृष्टिरप्यविनाशिनी || १५५६ ||
नित्योऽतो नित्यया दृष्ट्या पश्यन्नेवाविलुप्तया ||
द्रष्टऽऽस्ते प्रज्वलन्त्याऽत्र सुषुप्ते यो विवक्षितः || १५५७ ||
एवं तावत्स्थितं पूर्वं पश्यन्निति यदीरितम् ||
न पश्यतीति यत्तूक्तं तदिदानीं प्रपञ्च्यते || १५५८ ||
न पश्यतीदं द्रष्टव्यमिति यत्सूत्रितं पुरा ||
पश्यन्नेव यदि ह्यास्ते कथं तदुपपद्यते || १५५९ ||
यथोपपद्यते सर्वं शृणु तच्चापि भण्यते ||
पश्यन्नेवायमत्राऽऽस्ते पूर्वहेतुसमाश्रयात् || १५६० ||
तत्तु द्वितीयं नेहास्ति द्रष्टव्यं यत्समाश्रयात् ||
विशेषबुद्ध्यभिव्यक्तिर्जाग्रद्भूमाविवेष्यते || १५६१ ||
ननु द्रष्टव्यमस्त्येव द्वैताद्वैतात्मकत्वतः ||
ब्रह्मणोऽस्य कथं नास्ति द्रष्टव्यमिति भण्यताम् ||
द्रष्टव्यं स्याद्विभक्तं तत् नाविभक्तं यथोदितम् || १५६२ ||
यदि ह्यन्यत्ततो द्रष्टुर्दृश्यं तत्स्याद्विभागवत् ||
ततः पश्येद्विभक्तं सन्न त्वेवमिह विद्यते || १५६३ ||
पश्यन्नेवायमत्राऽऽस्ते द्रष्टव्यासंभवात्सदा ||
न पश्यतीति द्रष्टोक्तो न तु दृष्टिविनाशतः || १५६४ ||
ज्वलन्नपि यथा वह्निर्नानभ्याहितमिन्धनम् ||
दहतीह तथा द्रष्टा नाप्राप्तं दृश्यमीक्षते || १५६५ ||
व्याख्यानमेतत्सुधियां श्रद्दधाना उपासते ||
युक्त्यक्षरबहिष्ठत्वान्न विद्वांस उपासते || १५६६ ||
यथा चेदमसंबद्धं न युक्त्यक्षरसंश्रयम् ||
तथाऽसकृत्पुराऽप्युक्तमधुनाऽप्यभिधीयते || १५६७ ||
पश्यन्नेवायमत्राऽऽत्मा सुषुप्ते व्यवतिष्ठते ||
एवं स तत्त्व एवायमिति हेतुरिहोदितः || १५६८ ||
न च प्रादुर्भवत्यस्य ज्ञानमन्यद्विशेषवत् ||
न पश्यतीति वाक्यस्य व्याख्यानमिदमीरितम् || १५६९ ||
पश्यन्नेवेति चेदेतद्वस्तुयाथात्म्यमुच्यते ||
इत्थं स तत्त्व इत्युक्त्या कथं द्रष्टृक्रियोच्यते || १५७० ||
द्रष्ट्रधीना क्रियादृष्टिरिति चेद्भवतोच्यते ||
कथं विपरिलोपोऽस्याः क्रियात्वे सति वार्यते || १५७१ ||
अभूतदृष्टिकर्तृत्वे द्रष्टृत्वं द्रष्टुरिष्यते ||
प्रादुर्भावे तथाऽसत्याः क्रियायाश्च क्रियात्मता || १५७२ ||
द्रष्ट्रा च क्रियते दृष्टिर्न चासौ परिलुप्यते ||
इति स्ववचसैवैतद्विरुद्धमभिधीयते || १५७३ ||
कार्यस्यापि च नित्यत्वं वचनाच्चेत्प्रसिध्यति ||
वचनस्याप्रमाणत्वं कारकत्वात्प्रसज्यते || १५७४ ||
प्रमाणं बोधकं सर्वं तच्च सिद्धस्य वस्तुनः ||
पूर्वं प्रमाणसंबन्धाद्व्यङ्ग्यव्यञ्जकसंगतेः || १५७५ ||
अनुमानविरोधस्य वचसोऽस्य प्रसज्यते ||
अविनाभाविता यस्मादनित्यकृतकत्वयोः || १५७६ ||
द्वौ पदार्थावुपन्यस्तावित्येतदतिदुर्घटम् ||
यतो न पश्यतीत्येतदनूद्यान्यद्विभाव्यते || १५७७ ||
न पश्यतीति प्राप्तत्वान्नापूर्वोऽर्थोऽवबोध्यते ||
न पश्यतीत्यतोऽनूद्य पश्यन्निति विधीयते || १५७८ ||
पश्यन्नित्यस्य वा व्याख्या कारकत्वनिवृत्तये ||
न पश्यतीति वचनं न त्वर्थान्तरमुच्यते || १५७९ ||
किमयं दृष्टिकारित्वात्पुमान्द्रष्टेति भण्यते ||
दृष्ट्यात्मकं वा किं वस्तु द्रष्टेत्यत्र विवक्ष्यते || १५८० ||
न तावद्दृष्टिकर्तृत्वं कौटस्थ्यादात्मवस्तुनः ||
कौटस्थ्यसिद्धौ हेतूंश्च प्रागवोचमनेकशः || १५८१ ||
क्रियाकारकरूपस्य प्रत्यङ्मत्रसतत्त्वतः ||
नातोऽस्य कारकत्त्वं स्यात्साक्षित्वाच्च क्रियावताम् || १५८२ ||
बुद्ध्युपात्तस्य रूपादेर्विज्ञातृत्वं न चाऽऽत्मनः ||
भोक्तृत्वमपि तस्येह चैतन्याभासवर्त्मना || १५८३ ||
मणेरेव विकारोऽयं याऽलक्तादिसरूपता ||
नालक्तकादेर्विकृतिर्निष्क्रियत्वादिहेष्यते || १५८४ ||
रक्तत्वादिप्रसिद्ध्यर्थं विक्रियां न प्रपद्यते ||
अलक्तकादिः सर्वत्र यथैवं ह्यात्मवस्त्वपि || १५८५ ||
गुणिस्थित्यनुरोधित्वं न च सर्वत्र वीक्ष्यते ||
गुणानां केशकृष्णत्वं व्येति केशेषु सत्स्वपि || १५८६ ||
अग्नेरात्यन्तिको नाशो भवताऽपि न मृष्यते ||
न चोष्णत्वं सतोऽप्यग्ेः काष्ठादावुपलभ्यते || १५८७ ||
गुणिस्थित्यनुरोधित्वमस्तु नाम गुणात्मनः ||
द्रष्टुर्दृष्टेः किमायातं क्रिया दृष्टिर्गुणो न तु || १५८८ ||
कारकाणां स्वभावोऽयं यदकृत्वा प्रवर्तनम् ||
यथाऽभूत्वा तथा भावः क्रियायास्तत्त्वमुच्यते || १५८९ ||
यावद्द्रव्यानुरोधित्वं नावश्यं गुणकर्मणोः ||
द्रव्ये सत्यपि लोकेऽस्मिन्व्यभिवारस्य दर्शनात् || १५९० ||
जातिक्रियागुणादीनां निषेधादात्मवस्तुनः ||
अस्थूलं नेति नेतीति प्रतीचोऽन्यन्निषिध्यते || १५९१ ||
द्रष्टुश्चापि न नित्यत्वं क्रियोद्भूतिनिमित्ततः ||
क्रियाकारकयो रूपमितरेतरहेतुकम् || १५९२ ||
स्वमात्रेण न यत्सिद्धं तत्सिद्धं परतः कथम् ||
स्वमात्रेण च यत्सिद्धं तस्यापेक्षाऽन्यतः कुतः || १५९३ ||
न सिद्धयोर्मिथोऽपेक्षो न स्वतोऽसिद्धयोस्तथा ||
इत्यादेः पूर्वमुक्तत्वान्नेह भूयोऽपि यत्यते || १५९४ ||
नासतो विद्यतेऽपेक्षा नापि कूटस्थवस्तुनः ||
शक्त्यवस्थं यतो वस्तु हेत्वपेक्ष्येति विक्रियाम् || १५९५ ||
नित्यं न भवनं यस्य यस्य वा नित्यभूतता ||
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव || १५९६ ||
उत्पत्त्यादौ तु यच्छक्तं शक्तिमात्रात्मना स्थितम् ||
तदेव हेत्वपेक्षं सदुत्पत्त्यादि प्रपद्यते || १५९७ ||
उत्पत्त्यादावशक्तत्वात्कौटस्थ्यादात्मवस्तुनः ||
अद्वितीयत्वतश्चास्य नोत्पत्त्यादि प्रसिध्यति || १५९८ ||
शक्त्यवस्थानि वस्तूनि योग्यहेतोरसंभवात् ||
नाऽऽर्तवानि प्रसूयन्ते योग्यहेतौ च तज्जनिः || १५९९ ||
कार्यं नाक्रियमाणं सन्नाकुर्वत्कारणं तथा ||
मिथो न व्यतिरेकेण सिध्येते कार्यकारणे || १६०० ||
वस्त्वेव दृष्टिरत्रातो न क्रिया नापि कारकम् ||
तस्मादेवाविनाशित्वादिति हेतुरिहोदितः || १६०१ ||
निर्णीतं प्रथमं वस्तु पश्यन्निति यदीरितम् ||
न पश्यतीति यत्तूक्तं तस्य व्याख्याऽधुनोच्यते || १६०२ ||
दृष्टेरपरिलोपश्चेदथ कस्मान्न पश्यति ||
प्रबोधवत्सुषुप्तेऽस्मिन्निति प्रतिविधीयते || १६०३ ||
पश्यन्नेवायमात्मेति यथोक्तन्यायसंश्रयात् ||
न तु द्वितीयं जाग्रद्वत्पश्यत्यात्मा सुषुप्तगः || १६०४ ||
द्वितीयं नेक्षते कस्मादित्यत्रैवाभिधीयते ||
हेतुर्न तु तदस्तीति पश्येद्यद्वस्तु बोधवत् || १६०५ ||
विशेषदृष्ट्यभिव्यक्तिर्यदाश्रित्य प्रसिध्यति ||
न तदस्ति यतस्तस्मात्पश्यन्नपि न पश्यति || १६०६ ||
इति व्याख्या न साध्वीयं द्रष्टव्यासंभवे यतः ||
न प्रात्यक्ष्यं द्रष्टृदृष्ट्योः स्यात्सुषुप्तप्रसिद्धिवत् || १६०७ ||
तमस्यवस्थितोऽपश्यञ्ज्ञातृज्ञानतमांसि हि ||
प्रपद्यते विवेकेन यथा कुम्यादिवीक्षणे || १६०८ ||
न प्राज्ञे तु ततोऽयुक्तं दृश्यमात्रनिषेधनम् ||
ग्राहकग्रहणग्राह्यभावाभावाद्यपह्नुतेः || १६०९ ||
ननु चास्त्येव तद्दृश्यं समस्तव्यस्तरूपतः ||
यथोक्तवस्तुनो मैवं तस्यानत्यन्तभेदतः || १६१० ||
बाढमस्त्वेव तद्दृश्यं न त्वत्यन्तविभागवत् ||
स्याद्विभक्तं तदन्यच्चेत्पश्येदेव प्रबोधवत् || १६११ ||
नात्यन्तमेव सर्वत्र विभागोऽयं समीक्ष्यते ||
विशेषणमतोऽन्याय्यमत्यन्तमिति भण्यते || १६१२ ||
विभक्तमविभक्तं वा वस्तु वस्त्वन्तराश्रयात् ||
सर्वैकत्वे विभागो वाऽविभागो वा न युज्यते || १६१३ ||
यद्धि यस्माद्विभक्तं स्यात्तदेव स्यात्ततः कथम् ||
अविभक्तं विरुद्धत्वात्तस्मादुक्तमशोभनम् || १६१४ ||
अपह्नुतिर्विभागस्य ह्यविभक्तगिरोच्यते ||
विभागान्नापरं वस्तु ह्यविभक्तगिरा ततः || १६१५ ||
अन्यद्विभक्तमिति च तथा द्रष्टव्यमित्यपि ||
सामर्थ्यादेक एवार्थो भूयो भूयोऽभिधीयते || १६१६ ||
अस्मत्पक्षे तु दोषोऽत्र मनागपि न विद्यते ||
द्रष्टव्यो दृष्टियोग्योऽर्थो ह्यन्योऽनन्यश्च युज्यते || १६१७ ||
परमार्थात्मनस्तद्वत्कल्पिताज्ञानलक्षणः ||
अविभक्तोऽपि चान्यः स्याद्वैलक्षण्यात्परस्परम् || १६१८ ||
धर्मादीनां विभक्तत्वमविभक्तेऽपि धर्मिणि ||
एवं न पुनरुक्तत्वं द्रष्टव्यादेः प्रसज्यते || १६१९ ||
साक्ष्यार्थो दृष्टियोग्यः स्यादन्यो मात्रादिरात्मनः ||
द्रष्टृदर्शनदृश्यार्था विभक्ताः स्युः परस्परम् || १६२० ||
द्वैताद्वैतात्मकत्वं च प्रवाणान्नोपपद्यते ||
यथेह वस्तुनः साक्षात्तथा पूर्वमवादिषम् || १६२१ ||
पूर्ववाक्ये यथा व्याख्या कृता कृत्स्ना तथैव सा ||
उत्तरेष्वपि वाक्येषु कर्तव्या पण्डितैरतः || १६२२ ||
दर्शनादिक्रियाणां यदस्तित्वं तन्न वास्तवम् ||
सदसत्त्वादिसंभेदशून्यत्वादात्मवस्तुनः || १६२३ ||
विदितादन्यदेवैतत्तथैवाविदितादधि ||
ब्रह्मात्मवस्त्विति ज्ञेयमिति श्रौतं वचः स्फ़ुटम् || १६२४ ||
द्रष्टुरिति तृजन्तेन कर्तृत्वमभिधीयते ||
द्रष्टा कस्येत्यपेक्षायां दृष्टेरित्यभिधीयते || १६२५ ||
दृष्टिरित्यपि भावः स्यात्समाप्तिर्या क्रियात्मनः ||
फ़लाश्रितोऽसौ भावोऽत्र दृष्टिशब्देन भण्यते || १६२६ ||
फ़लं प्रकाशनं ज्ञानं तत्कर्तृत्वं च वस्तुनः ||
प्रत्येकमुच्यतेऽत्रैतद्वाक्येप्वेतेषु वस्तुनः || १६२७ ||
इह यद्दूषणं वाच्यं तदुक्तमिति नोच्यते ||
कारकादेरसद्भावात्सुषुप्ते परमार्थतः || १६२८ ||
कारकादिविधर्माऽपि प्रत्यगज्ञानहेतुजैः ||
ग्राहकग्रहणग्राह्यरूपैरात्मेक्ष्यते तथा || १६२९ ||
कर्तृकार्यावभासित्वात्कर्तृकार्यदिसाक्ष्ययम् ||
कर्तृकार्यादिवद्भाति कूटस्थोऽप्यात्ममोहतः || १६३० ||
एकैवेयमतो दृष्टिर्जन्महानादिवर्जिता ||
बहुत्वजन्मनाशादि यात्यविद्योत्थसंगतेः || १६३१ ||
यन्न रसयतीत्यत्र विजानन्वा इतीर्यते ||
विरूपं प्रस्तुताद्रूपादन्याय्यं भण्यते कुतः || १६३२ ||
नैष दोषोऽत्र विज्ञप्तिमात्ररूपे परात्मनि ||
दृष्ट्यादिशक्तिभेदोऽयं मा प्रसाङ्क्षीदितीर्यते || १६३३ ||
यत एवमतो ज्ञप्तिमात्रमेवाभिधीयते ||
दृष्ट्यादिशब्दैस्तस्माच्च सलिलादिवचोऽर्थवत् || १६३४ ||
बाह्यदृष्ट्याद्युपाधिस्था प्रत्यगात्मैकलक्षणा ||
दृष्टिर्दृष्ट्यादिवाच्येह विनाशादिनिषेधतः || १६३५ ||
अन्तर्भावेऽपि दृष्ट्यादौ मतिविज्ञानयोरिह ||
स्वातत्र्येणापि तद्वृत्तेः सिद्धेर्भूयः पृथग्ग्रदहः || १६३६ ||
दहनौष्ण्यादिवद्वह्नेर्विभिन्नाः स्युः परस्परम् ||
द्रुष्टुर्दृष्ट्यादयो धर्मा भिन्नाभिन्नात्मना स्थिताः || १६३७ ||
उतैकस्यैव धर्मस्य तदबोधोत्थभेदतः ||
भेदोऽयं लक्ष्यते मोहाद्रवेः स्वोत्थैर्जलैरिव || १६३८ ||
इह व्याचक्षते केचिन्नानात्वैकत्वारूपता ||
स्वत एवाऽऽत्मनो ग्राह्या चैतन्यमिव सर्वदा || १६३९ ||
भेदाभेदात्मकं सर्वं वस्तु दृष्टं यतस्ततः ||
परपक्षे न दृष्टान्तः कश्चिदप्युपलभ्यते || १६४० ||
एकैव गोता गोपिण्डे सास्नाद्यर्थानुसारिणी ||
सास्नादयो मिथो भिन्ना न चान्योन्यविरोधिनः || १६४१ ||
न च सामान्यबुद्ध्येह भेदबुद्धिर्निवर्तते ||
नापि सामान्यधीबाधो विशेषोत्थधियेष्यते || १६४२ ||
स्थूलेषु यद्वत्सामान्यविशेषात्मकता तथा ||
संभावनीया निःशेषसूक्ष्मवस्तुष्वपीदृशी || १६४३ ||
नानात्वैकत्ववत्स्थूलं दृष्टं वस्तु यथा तथा ||
आत्माद्यतीन्द्रियं वस्तु वस्तुत्वदिति गम्यताम् || १६४४ ||
इत्येवं पण्डितंमन्या अनुमानबलादिह ||
भिन्नाभिन्नात्मकं वस्तु स्थापयन्त्यविशेषतः || १६४५ ||
इत्युक्तपरिफ़ल्गुत्वप्रबोधायाभिधीयते ||
न्यायः श्रेयोर्थिना मा भूद्भ्रान्तिर्वेदान्तवस्तुनि || १६४६ ||
भेदग्राहि न नो मानं कृत्स्नेऽपि जगतीक्ष्यते ||
वस्तुस्वरूपमुज्झित्वा मेयं नास्त्यपरं मितेः || १६४७ ||
न च स्वरूपे भेदोऽस्ति कस्यचिद्वस्तुनः क्वचित् ||
स्वरूपाच्चान्यतो भेदः प्रमाणाभासगोचरः || १६४८ ||
असाधारणरूपेण व्यावर्तन्ते परस्परम् ||
यथा विशेषाः सामान्यं तथा व्यावर्तते ततः || १६४९ ||
तेऽपि सामान्यमात्रं चेद्विशेषा भवतो मताः ||
विशेषविरहात्तर्हि सामान्यमपि दुःस्थितम् || १६५० ||
भिन्नं वा स्यान्न वा भिन्नं सामान्यं चेद्विशेषतः ||
भेदे विशेष एव स्यात्सामान्यं खण्डमुण्डवत् || १६५१ ||
भेदभेदवतोर्भित्तावनवस्था प्रसज्यते ||
धर्मधर्म्यप्रसिद्धिश्च तदभेदेऽपि सज्यते || १६५२ ||
आत्मैव चेद्विशेषाः स्युर्धर्मिणो धर्मलक्षणाः ||
व्यतिरेको न संसिध्येदात्मत्वं स्यात्तदाऽऽत्मनः || १६५३ ||
स्वयं रूपत्वतो नाऽऽत्मा ह्यात्मनो व्यतिरिच्यते ||
अनात्माभिजना ह्येषा व्यावृत्तिर्याऽऽत्मनो भवेत् || १६५४ ||
न च धर्म्यन्तरासत्त्वे प्रत्यगात्मातिरेकिणः ||
धर्मा लभन्त आत्मानं पारतन्त्र्यात्मकत्वतः || १६५५ ||
धर्म्यन्तरस्य चास्तित्वे प्रतिज्ञार्थो न सिध्यति ||
समस्तव्यस्तातारूप आत्मैवैक इतीरितः || १६५६ ||
व्यस्ता अपि तदात्मानो धर्माः स्युश्चेत्समस्तवत् ||
विशेष उच्यतां कोऽत्र समस्तव्यस्तरूपयोः || १६५७ ||
धर्म्यन्तराश्रितैर्धर्मैर्नान्यो धर्मी विशेष्यते ||
धर्मिधर्मत्वरूपस्य संबन्धस्यासमन्वयात् || १६५८ ||
नेति नेत्यादिवाक्यानां नैरर्थक्यं च सज्यते ||
समस्तव्यस्तरूपत्वं यदि स्याद्ब्रह्मणः श्रुतेः || १६५९ ||
व्युत्थाप्य ब्रह्मणो द्वैतं तदनूद्य श्रुतिः पुनः ||
आत्मैवेत्यब्रवीत्साक्षात्कुतो भेदस्य संभवः || १६६० ||
व्यावर्ततेऽस्वरूपं चेत्स्वरूपाद्वस्तु मानतः ||
अनवाप्तस्वरूपं सद्वस्तु स्याच्छशशृङ्गवत् || १६६१ ||
मानं विधिमुखं मुक्त्वा न व्यावृत्त्येकवर्त्मना ||
लभते मेयसंबन्धं तत्सद्वस्तूपलम्भतः || १६६२ ||
अघटादिव्युदासेन न घटाद्यर्थसंगतिः ||
मितेरनेवंधर्मत्वान्नाभावे व्यापृतिर्मितेः || १६६३ ||
अप्रसिद्धघटाद्यर्थोऽघटाद्यर्थापनोदनम् ||
मानेनेह कथं कुर्यादन्योन्याश्रयकारणात् || १६६४ ||
घटबोधप्रयुक्तेयमघटस्य ह्यपाक्रिया ||
अघटार्थव्युदासाच्च घटार्थस्यावबोधनम् || १६६५ ||
घटवच्चाघटस्यापि तदन्यापाक्रियां विना ||
नैवाधिगतिरित्येवमनवस्था प्रसज्यते || १६६६ ||
मातृमानाप्रसिद्धिश्च तदन्यापोहनादृते ||
ताभ्यां विना प्रमेयोऽर्थो नितरां न प्रसिध्यति || १६६७ ||
पृथक्त्वं चापृथक्त्वं च गुणो येषां च वादिनाम् ||
तत्प्रक्रियानुसारेणाप्यत्र नैवास्ति भेदधीः || १६६८ ||
पृथग्गुणस्ततोऽन्यभ्यः पृथक्त्वे वा पृथग्गुणात् ||
अपृथग्वा मिथस्ते स्युर्न तथाऽपि भिदेक्ष्यते || १६६९ ||
अपृथक्त्वागुणद्रव्यं पथक्त्वं संश्रयेत्कथम् ||
परस्परविरोधित्वाच्छैत्यं यद्वदविभावसुम् || १६७० ||
पारतन्त्र्यस्वभावाच्च न चाप्राप्तसमाश्रयः ||
गुणत्वं लभते लोके गुणः कश्चिद्गुणी यथा || १६७१ ||
असंभित्तिः पृथक्त्वस्य ततोऽन्यभ्यः प्रसज्यते ||
पृथक्त्वस्य न चेदन्यत्पृथक्त्वान्तरमिष्यते || १६७२ ||
अन्यापेक्षं पृथक्त्वं च स्वयमेवापृथग्घटः ||
बलीयानन्तरङ्गत्वाद्बहिरङ्गं प्रबाधते || १६७३ ||
पृथग्गुणाच्च व्युत्थाप्य द्रव्यादेः किं स्वलक्षम् ||
स्वतोऽपृथकत्वात्सर्वस्य पृथक्त्वमपि दुर्लभम् || १६७४ ||
अथानुभवतोऽस्तीति पृथक्त्वं भवतो मतम् ||
मैवं मिथ्यानुभूतित्वाच्छुक्तिकारजतादिवत् || १६७५ ||
नैकानुभूतिबलतो वस्तुनो लभ्यते भिदा ||
भिन्नानुभूतितो नापि मिथस्तासामसंगतेः || १६७६ ||
एकस्यामनुभूतौ चेद्भेदो नाऽऽत्मन इष्यते ||
मृषा तत्रैव स मिथो व्यभिचारादध्रुवं भवेत् || १६७७ ||
नानुभूतिः प्रतीचीयमभेदाद्भेदमीक्षते ||
स्वरूपाव्यतिरेकाच्च नापि चानात्मनीक्षते || १६७८ ||
न चैकबुद्धिबाधेन द्व्यादिधीरुपजायते ||
तत्कारणत्वात्तद्बुद्धेर्मृत्स्नेव घटजन्मनः || १६७९ ||
द्वित्र्यादिबुद्धिरेकस्मिन्मित्याऽतद्रूपवस्तुनः ||
समूहस्योभयत्वेऽपि स्मृतेरप्यप्रमाणतः || १६८० ||
न चेत्समूहो वस्त्वस्ति एकैकत्वात्समूहिनाम् ||
सत्यत्वेऽपि तथैकत्वान्नानेकत्वं तथाऽपि च || १६८१ ||
अद्वैतविषयैवेयं द्वौ त्रयश्चेति या मतिः ||
एकत्वात्समुदायस्य न प्रमाऽतो भिदां प्रति || १६८२ ||
यदि प्रत्यक्षगम्योऽर्थो व्यावृत्तेस्तत्पृथक्त्वतः ||
न प्रत्यक्षाभिसंबन्धः कुम्भप्रत्यक्षतो भवेत् || १६८३ ||
प्रत्यक्षगम्यधर्मश्चेद्व्यावृत्तिर्भवतोच्यते ||
धर्मिप्रतीतिरेव स्यात्साऽपि चेहैककर्मिका || १६८४ ||
धर्मिबुद्धेर्न धर्मेषु बुद्धिभेदः प्रजायते ||
देशकालाद्यभिन्नत्वादेकात्मत्वाच्च संविदः || १६८५ ||
सत्तत्त्वं सर्वभावानां तत्र तावन्न भेदधीः ||
भेदधीविषयो यश्च तस्मात्सद्धीर्निवर्तते || १६८६ ||
सतैव सर्ववस्तूनि बिभ्रत्यात्मानमात्मना ||
कल्पितत्वादनेकत्वाद्रज्जुसर्पद्विचन्द्रवत् || १६८७ ||
प्रकृत्यर्थातिरेकेण प्रत्ययार्थो न गम्यते ||
सत्तेत्यत्र ततः स्वार्थस्तद्धितोऽत्र भवन्भवेत् || १६८८ ||
सति व्यभिचरत्येव तदन्यद्वस्तु मोहजम् ||
सर्पादिवस्तुवत्तस्मात्सत्सत्यमितरन्मृषा || १६८९ ||
व्युत्थिता हि सतो भेदाः प्रत्यक्षागमलिङ्गतः ||
अभावात्मकतां प्राप्ता गम्यन्ते नेश्वरैरपि || १६९० ||
सदेकत्वमशेषेषु वस्तुष्वव्यभिचारि हि ||
व्यभिचारि ततोन्यद्वत् वस्त्वतोऽद्वैतमेव सत् || १६९१ ||
व्युत्थाय न सतो यस्माद्वस्तु संभावनामपि ||
अभावमपि नाऽऽप्नोति काऽऽस्था भूत्यै विनाऽऽत्मना || १६९२ ||
सत्सिद्धिमेव संभाव्य सिद्धाः स्मेत्यभिमन्वते ||
सर्वे भावाः स्रजा यद्वद्भोगी सिद्धायतेऽन्यतः || १६९३ ||
प्रत्यक्षेणापि नाभावः क्वचिज्जगाति मीयते ||
तस्य सद्वस्तुमेयत्वादभावस्याप्यसंभवात् || १६९४ ||
कामं घटाद्यभावोऽयं प्रत्यक्षादवसीयताम् ||
प्रत्यक्षाभावसंसिद्धौ किं प्रमाणमितीर्यताम् || १६९५ ||
कार्यरूपाभिधाभेदादतीतानागतेष्विव ||
ऐकात्म्यं सर्वभावानां भिन्ननामादिमत्स्वतः || १६९६ ||
अथ ब्रवीषि भेदोऽत्र स्याद्वयोर्धर्मधर्मिणोः ||
व्यावृत्तेर्धर्मधर्मित्वं न तयोरुष्णशीतवत् || १६९७ ||
न भावयोरसंभित्तेर्धर्मधर्मित्वमिष्यते ||
नितरामभावयोर्नस्यात् न विरुद्धाविरुद्धयोः || १६९८ ||
निर्भेदकस्य कुम्भस्य भेदः केनेति भण्यताम् ||
वस्त्वात्मनैव चेत्तर्हि मत्पक्षः साध्यते त्वया || १६९९ ||
वस्तुस्वरूपमुज्झित्वा नान्यत्र व्यापृतिर्मितेः ||
अस्ति यस्मादतोऽद्वैतं वस्तु वस्तुनि सर्वदा || १७०० ||
व्यावृत्तिरनुवृत्तिर्वा सर्वस्यैवास्य वस्तुनः ||
अद्वैतपक्षो भवता मदीयोऽयं प्रसाध्यते || १७०१ ||
व्यावृत्तोऽयमिति ज्ञानं किं कुम्भे किं ततोऽन्यतः ||
अव्यावृत्तस्वरूपत्वात्कुम्भे तावन्न धीरियम् || १७०२ ||
नाप्यकुम्भव्युदासेन कुम्भस्य स्याद्विशेषणम् ||
न ह्यम्भस्थेन शैत्येन शिखिनः स्याद्विशेषणम् || १७०३ ||
अस्यायमिति षष्ठ्यर्थः प्रत्यक्षादवगम्यते ||
घटाभावः पटे किं न कुतो वाऽस्त घटेऽस्तिता || १७०४ ||
भावाभावौ सतो न स्तः सत्त्वादेवासतः कुतः ||
नानयोर्धर्मधर्मित्वं विरोधादितरेतरम् || १७०५ ||
सर्वे भावाः स्वयं सन्तो व्यावृत्तिः किंसमाश्रया ||
निराकृता स्वयं सद्भिर्यथा वियति कृष्णिमा || १७०६ ||
नभोवत्सदिदं सर्वं तत्र यत्तत्सदात्मना ||
साध्यत्वं नान्यथा दृष्टमसतो यदि वा सतः || १७०७ ||
वस्त्वन्तराच्चेद्व्यावृत्तिरिष्यते ह्यन्यवस्तुनः ||
वस्तुत्वात्सास्त्वऽभावस्य वस्तु नो चेत्कुतो भिदा || १७०८ ||
घटो भावात्मनाऽऽप्नोति त्वत्साध्यं चेदशेषतः ||
घटीभूतमिदं सर्वं द्वैतं ते किंप्रमं मतम् || १७०९ ||
बोधकं यत्प्रमेयस्य तत्प्रमाणमिहेष्यते ||
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते || १७१० ||
मेयाभावः प्रमाणानां यद्यभावेन गम्यते ||
प्रमाणानामभावस्य गमकः को भविष्यति || १७११ ||
एकप्रत्ययनिर्ग्राह्यमेकं वस्त्विति भण्यते ||
प्रत्यभिज्ञाबलाद्वाऽपि नाभावेऽस्त्युभयं हि तत् || १७१२ ||
दर्शनस्पर्शनाभ्यां स्याद्यथैकार्थग्रहस्तथा ||
प्रत्यक्षाभावमानाभ्यां नानुभूतिरिहास्ति नः || १७१३ ||
न प्रमाणं प्रमेयं वा तदभावविशेषणम् ||
तदा द्वयोरसंसिद्धेर्विरोधाच्चाप्यसंगतिः || १७१४ ||
यद्यसन्नपि धर्मः स्यान्नैपुण्याद्भवतः क्वचित् ||
नभो मूर्तं घटोऽमूर्तो विश्रब्धैः किं न साध्यते || १७१५ ||
न भावयोरभिन्नत्वाद्धर्मधर्मित्वमिष्यते ||
नितरामभावयोर्न स्याद्दूरतो भावाभावयोः || १७१६ ||
नाऽऽत्मना वस्तुना भेदो भेदस्यान्यव्यपाश्रयात् ||
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना || १७१७ ||
स्वतोऽभिन्नस्वभावत्वान्न भेदोऽन्योन्यसंश्रयः ||
उभयोरप्यसंभेदः कथं भिन्द्याद्विरोधिनम् || १७१८ ||
विशेषणप्रभेदेऽपि विशेष्योऽर्थो न भिद्यते ||
शुक्लकृष्णादिभेदेऽपि गोपिण्डो न हि भिद्यते || १७१९ ||
विशेषणं विशेष्याच्चेद्विशेष्यान्तरवत्पृथक् ||
भिन्नत्वात्संगतिर्न स्याद्विशेषणविशेष्ययोः || १७२० ||
नैकधीगम्यता च स्याज्ज्ञानस्यायुगपज्जनेः ||
युगपन्न हि विज्ञानं जायते घटमेषयोः || १७२१ ||
प्रागेवानात्मसंबन्धादुत्पत्तावेवलब्धतः ||
प्रत्यग्वस्तुप्रमेयस्य तावतैव कृतार्थतः || १७२२ ||
प्रमाणस्य ततोऽन्यस्मिन्न तन्मानत्वमर्हति ||
विरोधिव्यभिचारित्वात्तदन्यस्य च वस्तुनः || १७२३ ||
सर्वं मिथोऽनपेक्षं सत्स्वात्ममात्रविवक्षया ||
प्रत्यग्रूपात्परं रूपं न वस्तूत्प्रेक्ष्यते मितेः || १७२४ ||
यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ||
पारार्थ्येनैव सद्यच्च तत्परस्माद्धिरुङ्न सत् || १७२५ ||
असाधारणरूपत्वात्प्रत्यक्चिन्मात्रवस्तुनः ||
तत्तत्त्वानुविधाय्येव प्रमात्रादिर्भवन्भवेत् || १७२६ ||
द्रष्टव्याद्यनुसारिण्या प्रत्यङ्भोहप्रसूतितः ||
दृष्ट्या विरुद्धदिक्स्थस्य प्रतीचो दर्शनं कुतः || १७२७ ||
श्रुतिमानार्पितं चैतन्नावज्ञेयं विपश्चिता ||
पराञ्चीति तथा शास्रं न दृष्टेरिति च स्फ़ुटम् || १७२८ ||
विदिताविदिताभ्यां नो व्युत्थाप्यब्रह्मचाब्रवीत् ||
नातो वस्त्वन्तरं ज्ञेयं तदन्यस्य निषेधतः || १७२९ ||
मनुते मनसा यन्न येनाऽऽहुस्तन्मनो मतम् ||
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते || १७३० ||
यतो वाचो निवर्तन्ते नेति नेतीति चापरम् ||
इति स्पष्टं वचो मानं कुतो हेतोरुपेक्ष्यते || १७३१ ||
द्रष्टुः प्रतीचि यत्साक्षात्प्रत्यग्दृष्ट्याऽवसीयते ||
दृष्ट्यादिजन्मनाशादिसाक्ष्यभेदात्मकं स्वतः || १७३२ ||
तदेतदिति मानेन तत्त्वमस्यादिना तथा ||
ब्रह्मेति बोध्यते साक्षात्तत्तमोध्वस्तिवर्त्मना || १७३३ ||
ब्रह्मात्माऽऽत्मानमेवावेदहं ब्रह्मेति च श्रुतेः ||
प्रत्यग्दृष्ट्यैव तद्ब्रह्म दृश्यते न पराग्धिया || १७३४ ||
घटोऽत्रास्तीति वाक्येऽस्मिन्को न्वर्थः संप्रतीयते ||
मेयोऽनधिगतस्तावत्स्वानुभूत्यैकसिद्धिकः || १७३५ ||
मात्रादिजन्मनः प्राक्च नानुभूत्यतिरेकतः ||
द्रष्टृदर्शनदृश्यादिवस्त्वन्यदवसीयते || १७३६ ||
मातृमानप्रमेयादेरन्योन्यव्यभिचारतः ||
अनन्यानुभवात्प्रत्यक्संविदव्यभिचारिणी || १७३७ ||
संविदो व्यतिरेकेण वस्तु यद्यत्प्रसाध्यते ||
रज्जुसर्पादिवत्तत्तन्नैति संभावनामपि || १७३८ ||
संविद्देशादिभेदेन वस्तु चेत्साध्यतेऽन्यतः ||
घटो नास्तीति चान्यद्वा संगतिर्नानयोर्मितेः || १७३९ ||
उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ||
पूर्वपूर्वातिरेकेण नोत्तरोऽर्थोऽनुभूयते || १७४० ||
कर्त्रादिव्यापृतेः पूर्वं संवित्संवित्तिमात्रतः ||
अविभागादनाख्येयं तदुद्भूत्या फ़लायते || १७४१ ||
अक्रियेऽपि यथा व्योम्नि ह्युद्भूतिस्थितिहानिभिः ||
जगन्नर्नर्ति मय्येवं कार्यकारणवस्त्विदम् || १७४२ ||
नञ्घटार्थावपह्नुत्य संवित्सद्रूपमात्रया ||
अवगत्यात्मना सत्त्वमवाक्यार्थत्वमश्नुते || १७४३ ||
दिग्विभागोऽविभागेऽपि व्योम्नि यद्वत्प्रकल्पितः ||
प्रध्वस्तशेषभेदेऽपि मयि भिन्नधियस्तथा || १७४४ ||
स्वप्नेभबुद्धिर्नष्टेऽपि स्वप्न आभाति जागरे ||
यथैवं मोहजं द्वैतं नष्टे मोहेऽपि सांप्रतम् || १७४५ ||
आगमादन्यतो मानाद्भिन्नाभिन्नत्वमात्मनः ||
यथोक्तेन प्रकारेण न मनागपि गम्यते || १७४६ ||
प्रमान्तरानधिगते मानानां मानतेष्यते ||
अग्निर्हिमस्य भेषजमिति चातोऽन्यथा भवेत् || १७४८ ||
मानान्तराच्च यत्प्राप्तं मानत्वं तत्र च श्रुतेः ||
न कथंचन संभाव्यमनुवादत्वकारणात् || १७४७ ||
प्रमान्तरविरुद्धं च मातुं नोत्सहते श्रुतिः ||
स्वगोचरेश्वरं मानं न मानान्तरगोचरे || १७४९ ||
श्रोत्रादिकरणानीव नातो गोचरसंकरः ||
भिन्नाभिन्नप्रसिद्ध्यर्थं न चेयं श्रुतिरिष्यते ||
``यद्वै तदि"ति वचस इतोऽन्यार्थपरत्वतः || १७५० ||
दृष्ट्यादिभेदसिद्ध्यर्थं नेदं वचनमिष्यते ||
भेदस्यातोऽन्यतः प्राप्तेर्न श्रुत्या तत्र यत्यते || १७५१ ||
किंतु चैतन्यमप्यस्य कामकर्मादिवद्भवेत् ||
न स्वतोऽदर्शनात्प्राज्ञ इत्याशङ्क्यैतदीरितम् || १७५२ ||
स्वप्नप्रबोधयोर्यद्वत् दृष्टिरस्याऽऽत्मनः स्वतः ||
मात्रादिविक्रियाग्रामसाक्षिणी साऽविनश्वरी || १७५३ ||
प्राज्ञेऽपीयं तथैवाऽऽस्ते कूटस्थैकात्म्यलक्षण ||
भावाभावौ त्वविद्यादेर्विशेषः केवलस्त्विह || १७५४ ||
कामाद्यशेषोपाधीनां निवृत्तौ न निवर्तते ||
तन्निवृत्त्येकसाक्षित्वात्कामाद्यस्तित्वसाक्षिवत् || १७५५ ||
भावाभावार्थसाक्षित्वाद्भावाभावात्मिकैव सा ||
गृह्यतेऽविद्यया मूढैर्मणिः शुद्धो यथाऽऽश्रयैः || १७५६ ||
सत्यं ज्ञानमनन्तं च विज्ञानघनमित्यपि ||
प्रज्ञानं ब्रह्म चेत्येवं ज्ञानमात्रात्मताऽऽत्मनः || १७५७ ||
दृष्टान्तश्च न नो नास्ति मण्यादेरिह संभवात् ||
मणेर्नीलादिवद्भेदो दृष्ट्यादिप्रत्यगात्मनः || १७५८ ||
प्रतिज्ञाहेतुदृष्टान्ता भिन्नाभिन्नत्ववादिनः ||
मिथो भिन्ना न सन्तीह भिन्नाभिन्नत्वमात्रतः || १७५९ ||
दृष्टान्तमात्रनास्तित्वं दोषोऽस्मास्विह चोद्यते ||
दृष्टान्तोऽस्त्येव नः स्पष्टस्त्वन्मुखेनैव तद्ग्रहात् || १७६० ||
भिन्नाभिन्नत्ववादेऽस्मिन्यो भिन्नो भवतोच्यते ||
स एव नोऽस्तु दृष्टान्तो नातोऽन्यः प्रार्थ्यते मया || १७६१ ||
अवश्यमेव भिन्नार्थौ भिन्नाभिन्नरवाविमौ ||
भवतैवाभ्युपेतव्यौ भिन्नाभिन्नत्वसिद्धये || १७६२ ||
ऐकार्थ्यमेव चेदिष्टं भिन्नाभिन्नाभिधानयोः ||
तवैव न स्याद्दृष्टान्तः सर्वस्यैकस्वरूपतः || १७६३ ||
भिन्नाभिन्नत्ववचसा न चैकार्थोऽपि भण्यते ||
भिन्नार्थप्रतिषेधत्वादभिन्नवचसस्तव || १७६४ ||
गोभिधानाभिधेयार्थाद्यथेहाश्वगिरोच्यते ||
भिन्नोऽर्थो भेदशब्दार्थान्न तथाऽभेदशब्दतः || १७६५ ||
सर्वात्मकत्वसंप्राप्तावसाधारणवस्तुनः ||
सर्वात्मत्वनिषेधार्थं प्रमाभावस्त्वयाऽऽश्रितः || १७६६ ||
भिन्नाभिन्नत्ववाचेह तत्कृतं खातपूरितम् ||
सर्वैः सर्वस्य चाभेदाद्व्यवहारोऽपि नश्यति || १७६७ ||
एकैकं भेदतो वस्तु निःसंसर्ग परस्परम् ||
एकमेव त्वभेदे स्यादसामान्यविशेषवत् || १७६८ ||
दृष्ट्यादिवचसां लोके प्रवृत्तेर्ज्ञान एव च ||
दर्शनाज्ज्ञप्तिमात्रं स्यादर्थस्तेषां प्रसिद्धितः || १७६९ ||
पञ्च श्रोत्रादिभिः साक्षाज्जानामीति समीक्ष्यते ||
शब्दादीनिह लोकेऽतो दृष्ट्यादेर्ज्ञानवाच्यता || १७७० ||
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ||
एतेनैव विजानातीत्यपि च श्रुतिशासनम् || १७७१ ||
लावकः पाचको वेति कारकस्य सतो यतः ||
संभेदोऽयं क्रियाभिः स्यान्नातोऽकारकतान्वितः || १७७२ ||
गच्छतः पठतो भोक्तृन्नानाकर्मकृतो रविः ||
यथा प्रकाशयत्येकरूप एव तथा धियः || १७७३ ||
दृष्य्यादिभिन्नचेष्टास्ता भिन्नदेशादिलक्षणाः ||
एकरूपं परं ज्योतिरेकं सद्वीक्षते धियः || १७७४ ||
किंज्योतिरित्युपक्रम्य यत्नेन महताऽऽदरात् ||
अर्थोऽयमेव निर्णीतस्तद्विरुद्धं किमुच्यते || १७७५ ||
मोहोत्थोपाधिसंबन्धादभिन्नोऽपि स्वतोदृशिः ||
द्रष्टा श्रोतेति नानात्वं याति यद्वदलक्तकम् || १७७६ ||
रक्तादिभेदतो भेदः प्रकाशस्य प्रकाश्यतः ||
यथैवमात्मनो भेदो ज्योतिष्ट्वाद्भास्यभेदतः || १७७७ ||
निरंशेषु न चाप्येवं सभागेष्विव वस्तुषु ||
भिन्नाभिन्नात्मता शक्या कर्तुं साक्षादपीश्वरैः || १७७८ ||
न चापीह निरंशेषु भिन्नाभिन्नत्वकल्पने ||
दृष्टान्तः कश्चिदप्यस्ति जगत्यस्मिंश्चराचरे || १७७९ ||
दृगादिशक्तिभेदानां चक्षूरूपादिभेदतः ||
विकारकल्पनैतेन न्यायेनाऽऽत्मन्यपाकृता || १७८० ||
कार्यलिङ्गाद्धि शक्तीनामस्तित्वं कारणत्वतः ||
यतोऽवगम्यते नातोऽकारके शक्तिरात्मनि || १७८१ ||
शक्तिशक्तिमतोरैक्यं तयोर्भेदान्न युक्तितः ||
प्रतिपत्तुं क्वचिच्छक्यं प्रकृतिप्रत्ययार्थयोः || १७८२ ||
प्रकृत्यर्थेऽथवाऽयं स्यान्मतुब्यद्वा ततोऽन्यतः ||
पक्षासिद्धिर्हि पूर्वस्मिन्भेदान्नैक्यं तथोत्तरे || १७८३ ||
आत्माविद्यैव नः शक्तिः सर्वशक्यस्य सर्जने ||
नातोऽन्यथा शक्तिवादः प्रमाणेनावसीयते || १७८४ ||
अशक्तं शक्तिमच्छक्त्या शक्तिः शक्तिमता तथा ||
अशक्तैति कथं योगमन्योन्यं हेत्वसंभवात् || १७८५ ||
शक्तयः सन्ति भूयस्यस्तयोरपि मतं यदि ||
तत्रापि तुल्यचोद्यत्वादनवस्था प्रसज्यते || १७८६ ||
तस्मादज्ञात आत्मैव शक्तिरित्यभिधीयते ||
आकाशादेस्ततो जन्म यस्माच्छ्रुत्याऽभिधीयते || १७८७ ||
नन्वेवं चेत्स्वभावोऽस्य निर्विभागैकदृष्टिता ||
अथ स्वभावसंत्यागे को हेतुरिति भण्यताम् || १७८८ ||
विशेषज्ञानमेवास्य स्वभावो वाऽभ्युपेयते ||
सुषुप्ते तत्परित्यागः कस्मादित्यभिधीयते || १७८९ ||
जाग्रत्स्वप्नप्रपञ्चेऽस्मिन्नात्माविद्यैकहेतुके ||
अनन्योऽपि स्वतो यत्र मोहादन्य इवेक्ष्यते || १७९० ||
तत्रान्यः कारको द्रष्टा तथाऽन्येनैव चक्षुषा ||
दृश्यमन्यदविद्योत्थं पश्येत्स्वप्ने यथा तथा || १७९१ ||
विशेषदर्शने यस्मादविद्यैवास्य कारणम् ||
अतस्तस्यां निवृत्तायां कृत्न्सो भेदो निवर्तते || १७९२ ||
छान्दोग्योपनिषद्वाक्यं तथा च सति युक्तिमत् ||
यत्र नान्यदिति तथाचाऽऽत्मैवेत्युपसंहृतेः || १७९३ ||
मैत्रेयीब्राह्मणे चैतद्व्याख्यातं वाक्यमादरात् ||
यतो भूयो न तद्व्याख्या क्रियतेऽत्र ततोऽधुना || १७९४ ||
यद्वै तदित्युपक्रम्य व्याख्यातं वस्तु विस्तरात् ||
सलिलादिगिरा तस्य क्रियतेऽत्रोपसंहृतिः || १७९५ ||
अविद्यैव यतो हेतुः कार्यकारणतां प्रति ||
सम्यग्ज्ञानादतस्तस्यां ध्वस्तायामात्ममात्रता || १७९६ ||
नाविद्यामनुपादाय प्रतीचोऽनात्मसंगतिः ||
यतो विध्वंसने तस्या नाऽऽत्मनोऽन्योऽवशिष्यते || १७९७ ||
स्वतोऽवबोधमात्रत्वात्कुतोऽविद्यादिसंप्लुतिः ||
तस्मात्सलिलवच्छुद्धः कार्यकारणहानतः || १७९८ ||
अन्तरेणापि संबन्धं कार्यकारणवस्तुनः ||
स्वतोऽनेकात्मकं तत्स्यादित्याशङ्क्यैक उच्यते || १७९९ ||
न कपित्थादिवत्तत्त्वं स्वतोऽनेकस्वभावकम् ||
उक्त्वा सलिलवत्तस्मादेक इत्यब्रवीच्छ्रुतिः || १८०० ||
सजातीयनिषेधो वा ह्येकशब्देन भण्यते ||
सलिलोक्त्या विजातीयसंबन्धो हि निवारितः || १८०१ ||
एकशब्दो न संख्यार्थः संख्येयासंभवादिह ||
अद्वितीयार्थतैवातो द्वितीयार्थनिषेधतः || १८०२ ||
सदेवेत्यादिना चास्य तथा सत्यविरुद्धता || १८०३ ||
प्रत्यङ्भात्रावसायित्वं प्रत्यग्दृष्टेर्यतस्ततः ||
अकारकस्वभावत्वा दद्रष्टेत्यत्यभिधीयते || १८०४ ||
यत्र हि द्वैतमित्युक्तेर्यत्र त्वस्येति चेरणात् ||
स्वतः पूर्णात्मकं ज्योतिरद्रष्टेत्यभिधायते || १८०५ ||
यस्मादेवमतोऽद्वैतोऽविद्यातत्कार्यलङ्घनात् ||
न ह्यविद्यादिविरहे द्वैतधीरुपपद्यते || १८०६ ||
द्विधेतं द्वीतमित्याहुस्तद्भावो द्वैतमुच्यते ||
तन्निषेधेन चाद्वैतं प्रत्यग्वस्त्वभिधीयते || १८०७ ||
द्विधा त्रिधा वा बहुधा कारणं सद्भवेदिह ||
तस्याऽऽत्मनि निषिद्धत्वादात्माऽद्वैतो भवेत्ततः || १८०८ ||
भेदसंसर्गहानार्थमेवंयत्नामपि श्रुतिम् ||
अनादृत्यान्यथा प्राहुरहो विद्या महीयसी || १८०९ ||
मिथो विभागसंसिद्धिर्धर्माणां नाऽऽत्मसंश्रयात् ||
धर्मधर्म्यभिसंबन्धो दृश्यत्वाद्द्रष्ट्रपेक्षया || १८१० ||
द्रष्टा सलिलवच्छुद्धो निःसङ्गैकाद्वयस्तथा ||
श्रुत्युक्तोऽतो विरुद्धोऽर्थो निर्ह्रीकैरिह वर्ण्यते || १८११ ||
तमोंशत्वं यथा भानोः सतश्चाप्यसदंशता ||
वियतो मूर्ततैवं स्याद्भिन्नाभिन्नत्वमात्मनः || १८१२ ||
अत ऊर्ध्वं विमोक्षायेत्युक्तं प्राग्यत्पुनः पुनः ||
तद्विमुक्तेः समाप्तत्वादेष इत्यभ्यधान्मुनिः || १८१३ ||
प्रत्यग्दृष्ट्यव्यवहितेः प्रात्यक्ष्यादात्मवस्तुनः ||
एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतिः || १८१४ ||
अव्यावृत्ताननुगतं निःसामान्यविशेषतः ||
ब्रह्मेति मुख्यवृत्त्येह वस्तु श्रुत्याऽभिधीयते || १८१५ ||
तथा लोकयतेर्धातोर्दर्शनार्थत्वहेतुतः ||
प्रकृतत्वात्तथा दृष्टेर्लोकनं लोक उच्यते || १८१६ ||
कर्मधारय एवातः समासोऽत्रोपपद्यते ||
न तु षष्ठीसमासोऽत्र विभागस्याप्रसिद्धितः || १८१७ ||
श्रुतं चैकविभक्तित्वं युक्तं नाश्रुतकल्पना ||
कल्पनाहेत्वसद्भावे निराकाङ्क्षे तथा श्रुते || १८१८ ||
षष्ठ्यादिकल्पनाऽसाध्वी तस्मादत्रेति भण्यते ||
सामानाधिकरण्यं च विशेषणविशेष्यता || १८१९ ||
लक्ष्यलक्षणसंबन्धो ब्रह्मलोकाश्रिधानयोः ||
ब्रह्मेति चाऽऽत्मयाथात्म्यं लक्ष्यते नाभिधीयते || १८२० ||
तथा लोकगिरा ब्रह्मतत्त्वमात्मोपलक्ष्यते ||
मुख्यमैकार्थ्यमेवं स्याद्ब्रह्मलोकपदार्थयोः || १८२१ ||
न हि लोकातिरेकेण ब्रह्मत्वमुपपद्यते ||
ब्रह्मणो व्यतिरेकेण प्रत्यक्ता नान्यतस्तथा || १८२२ ||
अनयोरैक्यसंमोहात्पारोक्ष्यद्वयकल्पने ||
संसारोऽयमतो मोहसमुच्छित्तौ विमुक्तता || १८२३ ||
अतोऽशेषमहानर्थहेतोर्मोहस्य हानये ||
एष इत्यादिवाक्योक्तिः सम्यग्दर्शनजन्मने || १८२४ ||
इतिशब्दो यथोक्तार्थपरामर्शनकर्मणे ||
ऐतिह्यार्थस्तथा हेति सम्राडित्यभिमन्त्रणम् || १८२५ ||
इत्युक्तेन प्रकारेण मुमुक्षुं जनकं मुनिः ||
अन्वशात्सकलानर्थहेत्वविद्यापनुत्तये || १८२६ ||
व्युत्थायाऽऽख्यायिकातो नः श्रुतिरेवेदमब्रवीत् ||
अन्वशात्स कथं धीमान्राजानमिति चेच्छृणु || १८२७ ||
विज्ञान पुरुषस्यास्य या यथोक्ता पुरोक्तिभिः |
नैष्ठिकी गति रेषाऽस्य सत्यन्तरसमाप्तितः || १८२८ ||
इतोऽन्या गतयः सर्वाः क्षयिसाधनसंश्रयात् ||
क्षयिण्योऽतो हि परमा गतिरेषैव नापरा || १८२९ ||
अविद्यामात्रहेतुत्वात्कामकर्मादिसाधनाः ||
गतयोऽपरमाः सर्वा माया स्वप्नगतिर्यथा || १८३० ||
संपच्च परमैषैव मोहोत्थास्त्वन्यसंपदः ||
उत्कर्षातिशयः संपद्विभूतिश्चेति भण्यते || १८३१ ||
एषोऽस्य परमो लोको लोकास्त्वन्ये क्षयिष्णवः ||
क्षयिष्णुसाधनोत्पत्तेर्न त्वेषोऽसाधनाश्रयात् || १८३२ ||
ब्रह्मैव सन्स्वतो यस्माद्ब्रह्माप्येत्यवबोधतः ||
तदविद्यानिरासेन मुक्तिर्नातोऽन्यसाधनात् || १८३३ ||
लोकशब्दस्य मुख्योऽर्थ आत्मैवेह यतस्ततः ||
कर्मादिहेतुसाध्येषु गौणी लोकार्थता भवेत् || १८३४ ||
न कर्मणा कनीयस्ता वृद्धिर्वा नान्तरात्मनः ||
इति बाहुमिवोद्धृत्य वेदान्तैर्घोषणा कृता || १८३५ ||
आनन्दः परमोऽस्यैष सुखोत्कर्षसमाप्तितः ||
सर्वानन्दातिशायित्वात्तथाचैवं प्रवक्ष्यते || १८३६ ||
विषयस्पर्शजानन्दाः साधनानुविधानतः ||
आद्यन्तवत्त्वस्वाभाव्याद्दुःखहेतव एव ते || १८३७ ||
कूटस्थात्मस्वभावत्वात्सर्वसाधननिस्पृहः ||
सर्वानन्दातिवर्तित्वादानन्दः परमो मतः || १८३८ ||
आनन्दः परमोऽस्यैष इत्युक्तार्थप्रसिद्धये ||
एतस्यैवेति वचसा समर्थो हेतुरुच्यते || १८३९ ||
एतस्यैव यथोक्तस्य सर्वानन्दातिवर्तिनः ||
उपजीवन्ति भूतानि ब्रह्मानन्दस्य विप्लुषम् || १८४० ||
एष एवंविधो यस्मादानन्दः परमस्ततः ||
आनन्दानतिशेतेऽन्यान्सर्वानस्यैव कृत्स्नतः || १८४१ ||
कृत्स्नोऽपि चैष आनन्दस्तदविद्यैकहेतुजः ||
बुद्ध्याद्युपाध्यवच्छेदान्मात्रेति व्यपदिश्यते || १८४२ ||
तन्मात्रावर्त्मनैवैनं बुबोधयिषुरादरात् ||
लवणाब्धिं यथा तद्वल्लवणावयवैरिह || १८४३ ||
उत्तरोत्तरवृद्ध्याऽत आनन्दान्मानुषादधि ||
परानन्दावबोधार्थं प्रवृत्तैषा परा श्रुतिः || १८४४ ||
मनुष्याणां स यः कश्चित्संसिद्धोऽवयवैर्दृढैः ||
समग्राशेषचार्वङ्गो राद्धो भोगक्षमः पुमान् || १८४५ ||
कृत्स्नसाधनसंपन्नः समृद्धोऽत्राभिधीयते ||
बाह्यैराध्यात्मिकैरेवं साधनैरन्वितः पुमान् || १८४६ ||
तथाऽधिपतिरन्येषां नृणामेवेह यो भवेत् ||
स्वतन्त्रोऽधिपतिर्ज्ञेयो मनुष्यैर्न विहन्यते || १८४७ ||
मानुष्यकेण भोगेन संपन्नानां नृणामिह ||
संपन्नोऽतिशयेनातः संपन्नतम उच्यते || १८४८ ||
सर्वैर्मानुष्यकैर्भोगैः संपन्नो न तु दैविकैः ||
आनन्द एष परमो मनुष्याणामिहोच्यते || १८४९ ||
शतकृत्वो मनुष्याणामानन्दो गुणितस्तु यः ||
पितृणामेक आनन्दस्तेन तुल्यप्रमाणतः || १८५० ||
यत्सुखं साधनाधीनं दुःखमेव तदुच्यते ||
अनन्यसाधनं तस्मात्स्वात्मस्थं परमं सुखम् || १८५१ ||
तस्मादात्मपरिज्ञानात्कार्यज्ञेयसमाप्तितः ||
निरस्ततिशयानन्दो भवतीत्यस्य निर्णयः || १८५२ ||
तारतम्यादुपायानां शुद्धिस्तरतमा धियः ||
शुद्धेस्तरतमत्वाच्च सुखं तरतमं भवेत् || १८५३ ||
यावद्यावन्मलो व्येति बुद्धेर्धर्मादिसंचयात् ||
तावत्तावद्धियः स्वास्थ्यं तावत्तावत्सुखोन्नतिः || १८५४ ||
यावद्यावद्धनीभावो बुद्धेः पापादिसंगतेः ||
तावत्तावद्धियोऽस्वास्थ्यं दुःखोद्भूतिस्तथा तथा || १८५५ ||
पितृलोको जितो यैः स्यात्पितृयज्ञादिकर्मभिः ||
जितलोकास्त उच्यन्ते पितरो दिव्यभोगिनः || १८५६ ||
य एष दक्षिणः पन्थाः पितृलोकः स उच्यते ||
मनुष्यानन्दतः सोऽयं गुणितः स्याच्छताधिकः || १८५७ ||
उत्तरेष्वपि वाक्येषु यथोक्तमुपपादयेत् ||
शताधिकोऽयमानन्दः पूर्वस्मादुत्तरः क्रमात् || १८५८ ||
नक्षत्रलोकशब्देन ये पूर्वं प्रतिपादिताः ||
देवलोकगिरा तेऽत्र भण्यन्ते सूक्ष्ममूर्तयः || १८५९ ||
सर्गस्य जननादादौ देवत्वं ये प्रपेदिरे ||
आजानदेवास्तेऽत्र स्युः पूर्वेभ्यः सूक्ष्ममूर्तयः || १८६० ||
व्यापीनि तेषां सूक्ष्माणि शरीराणि महात्मनाम् ||
पूर्वानन्देभ्य एतेषामानन्दोऽतो महान्मतः || १८६१ ||
नानाद्वंद्वोपघातार्थहेतूनां बहुलत्वतः ||
आजानदेवानन्दोऽतः पूर्वेभ्यः स्याच्छताधिकः || १८६२ ||
श्रोत्रियोऽधीतवेदः स्याज्ज्ञातवेदार्थ एव यः ||
कृत्स्नचोदितकारित्वात्सर्वपापविवर्जितः || १८६३ ||
आजानदेवावधिककामानुपहताशयः ||
ततः परेषु भोगेषु जाततृष्णश्च यः पुमान् || १८६४ ||
आजानदेवानन्देन समं तस्य च यत्सुखम् ||
अस्याकामहतत्वेन सुखोत्कृष्टिरिहोच्यते || १८६५ ||
श्रोत्रियावृजिनत्वे द्वे तुल्ये एवाऽऽविरिञ्चितः ||
अकामहतताहेतोर्वृद्धौ ह्लादो विवर्धते || १८६६ ||
पूर्वपूर्वोपभोगेभ्यो यावद्यावन्निवर्तते ||
कामो, विवर्धते पुंसस्तावत्तावत्सुखं हृदि || १८६७ ||
कामैकक्षयतन्त्रैव यस्मात्पुंसः सुखोन्नतिः ||
अकामहततैवातः पूर्वाभ्यां साधनं परम् || १८६८ ||
साधनत्वं समानं स्यात्र्रयाणामिह यद्यपि ||
कामक्षयप्रकर्षोऽत्र ह्युत्कृष्टाह्लादसाधनम् || १८६९ ||
समुच्चयविवक्षाऽत्र न मनागपि युज्यते ||
कर्तृत्वादिसमुच्छेदिंज्ञानस्येहाऽऽश्रितत्वतः || १८७० ||
समुच्चयनिवृत्त्यर्थं न्यायश्चापि पुरोदितः ||
नातः समुच्चयाशेह कर्तव्या सूक्ष्मदर्शिभिः || १८७१ ||
साधनत्वं यतस्तुल्यं श्रोत्रियावृजिनत्वयोः ||
अवरेष्वपि भोगेषु न चोत्तमसुखं ततः || १८७२ ||
अकामहततैवात्र तारतम्यात्मकत्वतः ||
भेदादुत्तमसौख्यस्य साधनं चोत्तमा भवेत् || १८७३ ||
युवा साधुयुवेत्येवं तैत्तिरीयश्रुतीरणात् ||
अधरेष्वपि वाक्येषु श्रोत्रियादि विवक्षितम् || १८७४ ||
विराट्प्रजापतिर्ज्ञेयस्रैलोक्यात्मकदेहभृत् ||
हिरण्यगर्भो ब्रह्माऽत्र तथा ब्रह्मागिरोच्यते || १८७५ ||
अतः परमनन्तत्वाद्गणितं विनिवर्तते ||
यत एवमतः प्राहाथैष एवेति नः श्रुतिः || १८७६ ||
अनेनातिशयवता ह्यस्मद्गोचरवर्तिना ||
अपास्तातिशयानन्दं सुखेनेहानुमीयते || १८७७ ||
ध्वस्तातिशयनिष्ठत्वाल्लोके सातिशयात्मनः ||
यतोऽतोऽतिशयवता गम्यतेऽनतिशयं सुखम् || १८७८ ||
यत्रैतानि समस्तानि निष्ठां यान्ति परात्मनि ||
परमोऽसाविहाऽऽनन्दः सर्वानन्दातिलङ्घनात् || १८७९ ||
एषोऽस्येति प्रतिज्ञात आनन्दः सोऽनुमानतः ||
निष्ठां प्रतीचिगमित उत्तरोत्तरवृद्धितः || १८८० ||
अविज्ञातपरानन्दान्प्रत्येषाऽनुमितिर्मता ||
साक्षाज्ज्ञातात्मतत्त्वानां प्रत्यक्षतममेव तत् || १८८१ ||
अकामहतधीगम्य आनन्दः प्रत्यगात्मनि ||
यः स एव यथोक्तेभ्यः परमः स्यादनन्ततः || १८८२ ||
तथाच भगवान्व्यासः सर्ववेदार्थतत्त्ववित् ||
स्वयं प्राहेममेवार्थं कामानर्थजिहासया || १८८३ ||
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ||
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् || १८८४ ||
यतो यतो निवर्तते ततस्ततो विमुच्यते ||
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि || १८८५ ||
सलिलादिगिरा योऽर्थः प्रत्यज्ञायि पुराऽखिलः ||
ब्रह्मलोकान्तवाक्येन तस्य स्यादुपसंहृतिः || १८८६ ||
प्रश्नार्थेऽस्मिन्समाप्तेऽपि पूर्ववत्तं मुनिं नृपः ||
अन्वयुङ्कात ऊर्ध्वं त्वं मुक्तये ब्रूहि यत्परम् || १८८७ ||
याज्ञवल्क्योऽपि राज्ञैवं पृष्टः सन्पूर्ववत्तदा ||
अविभेदन्यतो हेतोर्न त्वसामर्थ्यकारणात् || १८८८ ||
सर्वज्ञत्वान्मुनेर्नाभूत्प्रश्नार्थाज्ञानतो भयम् ||
कारणं त्वन्यदेवातो यतः श्रुतिरभाषत || १८८९ ||
अविवक्षुमयं राजा कामप्रश्नबलाश्रयात् ||
किंज्योतिरित्येवमादिमप्राक्षीन्मां पुनः पुनः || १८९० ||
अप्रत्याख्येयो ह्यर्थश्च सत्यस्यावश्यरक्षणात् ||
स्वयंज्योतिष्ट्वनिर्णीतिः कृताऽतोऽनवशेषतः || १८९१ ||
निर्णीतेऽप्यथ मां राजा पुनः पुनरपृच्छत ||
अत ऊर्ध्वमिति गिरा निरुणद्ध्येव मां नृपः || १८९२ ||
कामप्रश्नाङ्कुशेनैव मां वशीकृत्य मद्गतम् ||
समादित्सति निःशेषं ज्ञानं राजाऽतिपण्डितः || १८९३ ||
इत्येष भयहेतुः स्याद्याज्ञवल्क्यस्य नान्यतः ||
भयहेतोरविद्यायाः सर्वज्ञत्वादसंभवात् || १८९४ ||
असकृन्निर्णयोऽकारि पृष्टे वस्तुन्यशेषतः ||
अरौत्सीन्मां तथाऽप्येष सर्वस्वादित्सया नृपः || १८९५ ||
मेधावी पण्डितोऽतोऽयं ब्रह्मस्वादानकारणात् ||
न बिभेति यतस्तस्माद्भेतव्यं जनकाद्भृशम् || १८९६ ||
ननु प्रश्ना यथोक्ताश्चेन्निर्णीतार्थाः पुरोक्तिभिः ||
अनिर्णीतं किमुद्धिश्य नृपोऽप्रक्षीन्मुनिं पुनः || १८९७ ||
स्वप्नबुद्धान्तसंचार आत्मनो यः पुरोदितः ||
दृष्टान्तत्वेन राज्ञाऽसौ सर्वोऽपीह विवक्षितः || १८९८ ||
तस्य दार्ष्टान्तिको योऽर्थो यावत्साक्षान्न कथ्यते ||
मुमुक्षति न तावत्तं राजा प्रश्नार्थशेषतः || १८९९ ||
दृष्टान्तस्य सुषुप्तेश्च नार्थं दार्ष्टान्तिकं जगौ ||
ब्रह्मास्मीत्यागमाद्बोधः सुषुप्तोदाहृतेर्मतः ||
दार्ष्टान्तिकोऽर्थः प्राज्ञस्य दृष्टान्तस्यावशेषतः || १९०० ||
उक्ते दार्ष्टान्तिकेऽर्थेऽस्मिन्प्रश्नार्थस्य समाप्तितः ||
सर्वमुक्तं भवेद्यस्मादतः सोऽर्थोऽधुनोच्यते || १९०१ ||
असङ्गो मत्स्यवत्प्रत्यङ्कामकर्मादिभिः क्रमात् ||
समेति स्वप्नबुद्धान्तौ यथाऽयं स्ववशस्तथा || १९०२ ||
सहेतुरस्य संसारः परलोकेहलोकयोः ||
सविस्तरः स वक्तव्य इत्यर्थेयं परा श्रुतिः || १९०३ ||
बन्धो बन्धनहेतुश्च मोक्षस्तद्धेतुरेव च ||
सविस्तरः प्रवक्तव्यस्तदुक्त्यर्था परा श्रुतिः || १९०४ ||
जाग्रत्स्थानात्ततः पूर्वं स्वप्नमात्मा प्रवेशितः ||
जाग्रद्भूमिं स नेतव्यो दार्ष्टान्तिकविवक्षया || १९०५ ||
आनन्दनिर्णयान्तं तु संप्रसादवचो यदा ||
तदा निगमनार्थं तत्प्रतिज्ञातार्थगोचरम् || १९०६ ||
अलुप्तदृष्टिरात्माऽयं यथोक्तं स्वप्नबोधयोः ||
प्राज्ञेऽपि च तथैवायं यद्वै तदितिवाक्यतः || १९०७ ||
अतिकारकहेतुश्च यथाऽऽत्माऽयं सुषुप्तगः ||
कूटस्थदृष्टिमात्रत्वात्तथा स्वप्नप्रबोधयोः || १९०८ ||
इत्येवं पूर्वसिद्धेऽर्थे निगमार्थं पुनर्वचः ||
स वा इत्यादिकं ज्ञेयं न तु नाशादिशङ्कया || १९०९ ||
इत आरभ्य संसार आत्मानो वर्णयेऽधुना ||
स्वप्नाद्बोधाप्तिवच्चास्माल्लोकाल्लोकान्तरं गतः || १९१० ||
इत्यर्थप्रतिपत्त्यर्थं दृष्टान्तोऽत्राभिधीयते ||
सुखावबोधसिद्ध्यर्थं श्रोतुरर्थे विवक्षिते || १९११ ||
नानार्थसाधनैर्मार्गे यथाऽनः सुसमाहितम् ||
शब्दान्नानाविधान्कुर्वद्गुरुभारप्रपीडनात् || १९१२ ||
व्रजेच्छाकटिकेनेह देशान्तरमधिष्ठितम् ||
अनसस्तद्गताच्चार्थाद्विलक्षणवपुर्भृता || १९१३ ||
स्वार्थेनाधिष्ठितं गच्छेत्पथि शाकटिकेन तत् ||
दृष्टान्तार्थेन संबन्ध एवमेवेति भण्यते || १९१४ ||
भुक्तदेहादिदं लिङ्गमुत्क्रान्तं भोगसंक्षयात् ||
याति देहान्तरं तद्वत्कर्मविद्यादिसंभृतम् || १९१५ ||
वियुक्तं देवताभिः सत्कर्मसंभारसंभृतम् ||
अनोवल्लिङ्गमेत्येतत्प्रत्यगात्मार्थसिद्धये || १९१६ ||
शारीरवचसा चात्र लिङ्गमेवाभिधीयते ||
शरीरदेशसंस्थत्वान्न तु प्रत्यङ्ङसंहते || १९१७ ||
प्राज्ञेनाधिष्ठितं गच्छेद्रथिना स्वार्थरूपिणा ||
प्रत्यग्धियः समारोहमन्वात्माऽऽरूढवद्यतः || १९१८ ||
प्राज्ञेनेहाऽऽत्मना तस्मादन्वारूढोऽभिधीयते ||
भानुनेवोदपात्रादेरारोहो नाऽऽत्मनः स्वतः || १९१९ ||
प्राक्चोक्तमात्मनैवायं ज्योतिषेत्यादिकं वचः ||
आत्मानं रथिनं विद्धीत्यपि श्रुत्यन्तरे वचः || १९२० ||
मर्मकृन्तनसंभूतवेदनार्दितमानसम् ||
बिक्किकालक्षणं शब्दं मृतिकाल उपस्थिते || १९२१ ||
उत्सर्जद्याति लिङ्गं तदिति प्रत्यक्षगोचरः ||
तदिदं भण्यते श्रुत्या पुंसां वैराग्यजन्मने || १९२२ ||
मर्मसूत्कृत्यमानेषु मुच्यमानेषु संधिषु ||
मुमूर्षतोऽत्र यद्दुःखं स्मर्यतां तन्मुमुक्षुभिः || १९२३ ||
कस्मिन्काल इदं जन्तोः किंनिमित्तं च जायते ||
इत्यस्य प्रतिपत्त्यर्थं परो ग्रन्थोऽवतार्यते || १९२४ ||
उदानवायौ प्रबले यत्रैतत्स्यान्मुमूर्षतः ||
ऊर्ध्वोच्छ्वासी पुमांस्तत्र यथोक्तं जायते मृतौ || १९२५ ||
पिण्डोऽणुत्वं यदाऽभ्येति जरयाऽभ्यर्दितस्तदा ||
उपतापान्वितो वा सन्यथोक्तं प्रतिपद्यते || १९२६ ||
अणिमानमणोर्भावं कार्श्यं देहो यदैत्ययम् ||
जरया रोगहेतोर्वा ऊर्ध्वोच्छ्वासी तदा भवेत् || १९२७ ||
जरया रोगतो वाऽस्य जायते विषमाग्निता ||
सम्यक्पक्तिस्ततोऽन्नस्य मन्दाग्नेर्नोपजायते || १९२८ ||
रसादिधातुभिर्देहस्ततोऽनुपचयादयम् ||
अबलः सन्पतत्येष जीर्णमन्दिरवत्क्षितौ || १९२९ ||
अथैवं कृशतापन्ने देहेऽन्तरुपजायते ||
या वृत्तिः सोच्यते साक्षाद्दृष्टान्तोक्त्या प्रयत्नतः || १९३० ||
आम्रं यथा रसादार्ड्ये स्वस्माद्वृन्तात्प्रमुच्यते ||
तथेहान्नरसग्लानौ लिङ्गं देहात्प्रमुच्यते || १९३१ ||
वृन्ते निबध्यते येन रसेनाऽऽपरिपाकतः ||
स रसो बन्धनं ज्ञेयो वृन्तं वा बन्धनं मतम् || १९३२ ||
वृन्तेनाऽऽम्रस्य संबन्धो रसस्याऽऽपरिपाकतः ||
बाल्ये दृढो यथा तद्वन्नैवं पक्वरसस्य सः १९३३ ||
क्लैद्यमापद्यमानोऽथ पाककाल उपस्थिते ||
रस आम्रं धारयितुं नैवेहोत्सहतेऽबलः || १९३४ ||
गुरुत्वाद्बन्धनाद्वृन्ताद्रसाद्वाऽथ प्रमुच्यते || १९३५ ||
नानाहेतुकपातस्य फ़लस्य प्रतिपत्तये ||
दृष्टान्तानामिहोक्तिः स्याद्भूयसां भिन्नरूपिणाम् || १९३६ ||
वृन्तादेवाऽऽम्रपातोऽत्र वृन्तेनोदुम्बरं सह ||
पतत्यश्वत्थपातस्तु पाकेऽप्यन्यनिमित्ततः || १९३७ ||
बहुप्रकारसिद्ध्यर्थं वाशब्दव्याहृतिस्त्विह ||
बहुहेतुर्मृतिर्यस्मात्प्राणिनां जगतीक्ष्यते || १९३८ ||
यथाऽयमुक्तो दृष्टान्तः पुरुषोऽप्येवमेव हि ||
लिङ्गात्मा पुरुषो ज्ञेयस्तस्यैवेहाङ्गसंगतेः || १९३९ ||
श्रोत्रत्वगादिनाड्यश्च प्रोच्यन्तेऽत्राङ्गसंज्ञया ||
तेषु व्युह्यैव लिङ्गात्मा यतोऽलं स्यात्स्वकर्मणे || १९४० ||
अङ्गस्य कृष्णसारस्य चक्षुषः करणस्य च ||
आश्रयाश्रयिसंबन्धे हेतुरन्नरसो भवेत् || १९४१ ||
अन्नं दामेति चाप्युक्तं रसादिपरिणामतः ||
तद्यावकत्कठिनं देहे तावल्लिङ्गं स्थिरं भवेत् || १९४२ ||
जरादिहेतुपाके तु पतत्याम्रादिवद् द्रुतम् ||
एभ्योऽङ्गेभ्य इति गिरा तदेतदभिधीयते || १९४३ ||
उपसर्गः समित्येष एकीभावप्रसिद्धये ||
तथा प्रकर्षसिद्ध्यर्थं प्रोपसर्गः प्रयुज्यते || १९४४ ||
व्यस्तानि स्थानसंबन्धात्करणानि यतस्ततः ||
स्वस्थानेभ्योऽपकृष्टानि मरणे यान्त्यथैकताम् || १९४५ ||
स्वप्ने प्राणावशेषत्वात्स्थानात्करणसंहृतेः ||
मृतौ सहैव चानेन प्रकर्षोऽत्रात ईक्ष्यते || १९४६ ||
देहान्तरादमुं देहं पूर्वमागाद्यतस्ततः ||
तदपेक्ष्य पुनःशब्दः श्रुत्यैवेहाभिधीयते || १९४७ ||
स्वप्नाद्यथेतो बुद्धान्तं स्वप्नं बुद्धान्ततः पुनः ||
पूर्वदेहात्तथैवाऽऽत्मा याति देहान्तरं पुनः || १९४८ ||
बाह्याद्देहात्तथैवान्तर्लिङ्गं स्वाप्नं प्रपद्यते ||
यथान्यायप्रतिन्यायौ यथा तत्रोदितौ पुरा || १९४९ ||
देहाद्देहान्तरप्राप्तौ तथैवेति विनिर्दिशेत् ||
प्रतियोनि यथास्थानमित्यत्रापि तथैव तत् || १९५० ||
श्रुतकर्मानुरूपेण चक्षुराद्यनुरूपतः ||
प्रतियोनि यथास्थानमाद्रवत्येष जन्मने || १९५१ ||
देहान्तरगृहीत्यर्थं प्राणिनां मरणं यतः ||
प्राणायेति ततो वक्ति जन्मन्यसति नो मृतिः || १९५२ ||
प्राणव्यूहाय चैवायमाद्रवत्यन्यदेहतः ||
स्थानेष्वव्यूढकरणो नालं स्यात्कर्मणे यतः || १९५३ ||
प्राणव्यूहस्य संसिद्धिः कथमस्येति शङ्क्यते ||
शरीरग्रहणाशक्तेरव्यूढकरणत्वतः || १९५४ ||
न च देहान्तरं कृत्वा राज्ञो भृत्या इवाऽऽसते ||
यतः कर्मसहायोऽयमेकाक्येवेह गच्छति || १९५५ ||
इत्यस्य परिहारार्थं दृष्टान्तोऽत्राभिधीयते ||
कृत्स्नं जगत्स्वभोगार्थं पुंसोपात्तं स्वकर्मणा || १९५६ ||
तत्कर्मफ़लभोगार्थं कृत्वा देहं प्रतीक्षते ||
शुभं वा यदि वा पापं श्रुतकर्मानुरूपतः || १९५७ ||
कर्मोपात्तानि भूतानि तत्प्रयुक्तानि देहिनः ||
कृत्वा देहान्तरं योग्यं तस्थू राज्ञोऽग्रगा इव || १९५८ ||
तत्रैतस्मिन्यथोक्तेऽर्थे दृष्टान्तोऽप्यभिधीयते ||
विवक्षितार्थविज्ञानप्रसिद्धिः स्यात्कथं न्विति || १९५९ ||
यथा राजानमायान्तं सद्मपानादिसाधनैः ||
बुद्ध्वा क्लृप्तैः प्रतीक्षन्त उग्राः सूतादयो जनाः || १९६० ||
उग्रे कर्मणि ये राज्ञा नियुक्ताः पापकारिषु ||
उग्रास्तेऽत्राभिधीयन्ते जातितो वाऽभिधा भवेत् || १९६१ ||
एन एनः प्रति तथा नियुक्ता ये नराधिपैः ||
प्रत्येनसोऽत्र ते ज्ञेया भिन्नास्ते स्वाधिकारतः || १९६२ ||
रथवाहाश्च सूताः स्यू रथवाहनकोविदाः ||
ग्रामण्यो ग्रामनेतारः सेनाधिपतयो मताः || १९६३ ||
ते यथा कर्मणोपात्ता राज्ञः प्रागेव चाऽऽगमात् ||
अन्नपानगृहाद्यर्थान्कृत्वा राजप्रतीक्षिणः ||
राजाऽयं नः समायातीत्यासते यत्नमास्थिताः || १९६४ ||
यथैवं सर्वभूतानि भोक्त्रा कर्मादिकारणैः ||
अर्जितान्युचितं देहं भोक्तुर्भोगक्षमं तथा || १९६५ ||
कृत्वा तत्प्राप्तितः पूर्वं यथा सूतादयो नृपम् ||
प्रतीक्षन्ते प्रयत्नेन ब्रह्मैतीत्यभिकाङ्क्षया || १९६६ ||
विज्ञानात्मन्युपक्रान्ते ब्रह्मेति यदिहोच्यते ||
स्वतो ब्रह्मत्वतस्तस्य संसारित्वमविद्यया || १९६७ ||
कथं नाम मतिस्तस्य ब्रह्मास्मीति भवेदिह ||
श्रुतिस्तत्तत्त्वबोधार्थं ब्रह्मेत्याह ततो नरम् || १९६८ ||
अनुवादो न तु विधिरेवंविदमितीर्यते || १९६९ ||
सर्वान्प्रत्यविशिष्टत्वादेवंविदमितीरणम् || ||
नानुवादः फ़लोक्तिर्वा यथाव्याख्यातवेदिनः || १९७० ||
करणानुग्रहीतृणि भूतानि च मुमूर्षतः ||
कृत्वा देहं प्रतीक्षन्ते नृपस्येव गृहं नराः || १९७१ ||
एवं जिगमिषुं देवमनुगच्छन्ति के तु तम् ||
गच्छन्तः कस्य गत्या वा स्वातन्त्र्येणाऽऽत्मनोऽथवा || १९७२ ||
इत्यर्थमपि दृष्टान्तः पूर्ववद्भण्यते पुनः ||
इतः प्रवसतो देहाद्देहिनः कर्मसंक्षयात् || १९७३ ||
यथेह प्रयियासन्तमुग्रसूतादयो जनाः ||
राजानमभिसंयान्ति प्राणास्तद्वन्मृतौ नरम् || १९७४ ||
यदोर्ध्वोच्छ्वासितैवास्य पुरुषस्य भवत्यथ ||
सुखयन्तस्तदा प्राणाः संयान्त्युत्क्रान्तिवेदिनम् || १९७५ ||