बृहदारण्यकोपनिषद्भाष्यम्
बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
 
ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
पूर्णमद इत्यादि खिलकाण्डमारभ्यते । अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् — अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुद्धानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च ; तानि वक्तव्यानीति परः सन्दर्भः ; सर्वोपासनशेषत्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि । पूर्णमदः — पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत् ; निष्ठा च कर्तरि द्रष्टव्या ; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः ; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च ; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपाधिपरिच्छिन्नेन विशेषात्मना ; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत् । यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम् , आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते । यदुक्तम् — ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति — एषः अस्य मन्त्रस्यार्थः ; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति ; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः ; तथा च श्रुत्यन्तरम् — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ (क. उ. २ । १ । १०) इति ; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव प्रत्यवभासमानम् — तत् , यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा — अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम् , पूर्णमादाय, तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसम्पर्कजाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते ; तथा चोक्तम् ‘तस्मात्तत्सर्वमभवत्’ इति । यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्तरसम्बन्धार्थम् । ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनानि ओङ्कारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसम्बन्धात् सर्वोपासनाङ्गभूतानि च ॥
अत्रैके वर्णयन्ति — पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते ; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम् ; एवम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ; सा च एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ; एवं च द्वैताद्वैतात्मकमेकं ब्रह्म । यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्माणः परमार्थसत्या एव — एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम् , समुद्रजलस्थानीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम् , यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम् , अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति ; तथा च विरोध एव स्यात् । वेदैकदेशभूता उपनिषत् प्रमाणम् , परमार्थाद्वैतवस्तुप्रतिपादकत्वात् ; अप्रमाणं कर्मकाण्डम् , असद्द्वैतविषयत्वात् । तद्विरोधपरिजिहीर्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति । तदसत् , विशिष्टविषयापवादविकल्पयोरसम्भवात् । न हि इयं सुविवक्षिता कल्पना । कस्मात् ? यथा क्रियाविषये उत्सर्गप्राप्तस्य एकदेशे अपवादः क्रियते, यथा ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः । तथा विकल्पानुपपत्तेश्च ; यथा ‘अतिरात्रे षोडशिनं गृह्णाति’ ( ? ) ‘नातिरात्रे षोडशिनं गृह्णाति’ ( ? ) इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति ; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य । तस्मात् न सुविवक्षिता इयं कल्पना । श्रुतिन्यायविरोधाच्च । सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् — इत्येवमाद्याः श्रुतयः निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिञ्चित्करत्वात् । तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते ; तद्विरोधश्च प्राप्नोति अनित्यत्वे ; भवत्कल्पनानर्थक्यं च ; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम् , अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते ; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात् ; नित्यनिरवयववस्तुविषयं हि विरुद्धत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे । तस्मात् श्रुतिस्मृतिन्यायविरोधात् अनुपपन्नेयं कल्पना । अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव । अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना ; न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते ; प्रज्ञानघनतां च उपदिशति ; ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च ; अनेकधादर्शनापवादाच्च ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति ; यच्च श्रुत्या निन्दितम् , तन्न कर्तव्यम् ; यच्च न क्रियते, न स शास्त्रार्थः ; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम् ; अतो न शास्त्रार्थः ; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम् , प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात् , अद्वैते च प्रामाण्यमिति — तन्न, यथाप्राप्तोपदेशार्थत्वात् ; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम् ; न च उपदेशार्हं द्वैतम् , जातमात्रप्राणिबुद्धिगम्यत्वात् ; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात् , येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम् । नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः । तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म उपदिशत्यग्रे ; पश्चात् प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम् आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति । अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते ; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य ; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य ; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते ; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे ; नाप्यविरोधता, अत एव । अथापि अभ्युपगम्य ब्रूमः — द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात् ; यदापि समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम् , तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे ; कथम् ? एकं हि परं ब्रह्म द्वैताद्वैतात्मकम् ; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति ; न च उपदेष्टा अन्यः ब्रह्मणः ; द्वैताद्वैतरूपस्य ब्रह्मणः एकस्यैव अभ्युपगमात् । अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् — तदा द्वैताद्वैतात्मकम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते । यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समुद्रदृष्टान्तो विरुद्धः । न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना सम्भवति ; न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता — इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् एकविज्ञानवत्त्वात् देवदत्तस्य । तस्मात् श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिद्धिश्च एवंकल्पनायां स्यात् । तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः ॥
ओं खं ब्रह्म इति मन्त्रः ; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानम् , खमिति विशेषणम् । विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् — खं ब्रह्मेति ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते — खं ब्रह्मेति ; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम् , ओंशब्दस्वरूपमेव वा ; उभयथापि सामानाधिकरण्यम् अविरुद्धम् । इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्’ (क. उ. १ । २ । १७) ‘ओमित्यात्मानं युञ्जीत’ (तै. ना. २४ । १) ‘ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्यादेः । अन्यार्थासम्भवाच्च उपदेशस्य । यथा अन्यत्र ‘ओमिति शंसति ओमित्युद्गायति’ (छा. उ. १ । १ । ९) इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते । तस्मात् ध्यानसाधनत्वेनैव इह ओङ्कारशब्दस्य उपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः । अत एव ब्रह्मप्रतिपत्तौ इदं परं साधनम् । तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च । प्रतीकत्वेन — यथा विष्ण्वादिप्रतिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति, ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’ (क. उ. १ । २ । १७) इति श्रुतेः ॥
तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह — खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः । यत्तत्परमात्माकाशं पुराणं खम् , तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत इति वायुरम् , खं खमात्रं खमित्युच्यते, न पुराणं खम् — इत्येवम् आह स्म । कोऽसौ ? कौरव्यायणीपुत्रः । वायुरे हि खे मुख्यः खशब्दव्यवहारः ; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम् , यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ (प्र. उ. ५ । २) इति श्रुत्यन्तरात् । केवलं खशब्दार्थे विप्रतिपत्तिः । वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम् ; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः ; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओङ्कारस्य । अथवा वेदोऽयमित्यादि अर्थवादः ; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः ; ओं खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन ; सर्वो हि अयं वेद ओङ्कार एव ; एतत्प्रभवः एतदात्मकः सर्वः ऋग्यजुःसामादिभेदभिन्नः एष ओङ्कारः, ‘तद्यथा शङ्कुना सर्वाणि पर्णानि’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् ; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम् , तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन ; अतः अयमोङ्कारो वेदः ; इतरस्यापि वेदस्य वेदत्वम् अत एव ; तस्मात् विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः ; कोऽसौ ? यं ब्राह्मणा विदुः ओङ्कारम् ; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः ; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥
इति पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥
समाप्तं याज्ञवल्कीयं काण्डमैकात्म्यनिष्ठितम् ।।
खिलकाण्डमथेदानीं यथावदुपवर्ण्यते ।। १ ।।
संभावितं न यत्पूर्वं कर्मविज्ञानकाण्डयोः ।।
तदत्र भण्यते सर्वं खिलकाण्डत्वहेतुतः ।। २ ।।
अपास्तनिखिलध्वान्ततज्जं ब्रह्मोपवर्णितम् ।।
पूर्वैश्चतुर्भिरध्यायैर्यद्धीः कैवल्यसिद्धये ।। ३ ।। ।।
सोपाधकस्य तस्यैव व्यवाहारानुपातिनः
उपासनानि वाच्यानि यान्यनुक्तान्यतः परम् ।। ४ ।।
प्रकृष्टाभ्युदयार्थानि क्रममुक्तिकराणि च ।।
सर्वोास्त्यङ्गभूतानि वक्तव्यानीति यत्यते ।। ६ ।।
कार्यकारणसंबन्धव्याजमाश्रित्य तत्परम् ।।
व्याख्यातं यत्नतः पूर्वमात्मज्ञानप्रसिद्धये ।। ७ ।।
चरितार्थत्वतस्तस्य कार्यकारणवस्तुनः ।।
निषेधायेयमुक्तिः स्यात्पूर्णमित्येवमादिना ।। ८ ।।
न व्यावृत्तमिदं सर्वं पराक्प्रत्ययमानगम् ।।
नानुवृत्तं तथैवैतन्नाप्यभावैकनिष्ठितम् ।। ९ ।।
अव्यावृत्ताननुगतमात्मप्रत्ययमीरितम् ।।
यस्मात्पूर्णमिदं साक्षात्तादात्म्यं तेन वर्ण्यते ।। १० ।।
अज्ञातामिथ्याविज्ञाततत्त्वमात्रैकनिष्ठितम् ।।
सम्यग्ज्ञानं यतस्तस्मात्पूर्णं तज्ज्ञेयमुच्यते ।। ११ ।।
गोत्ववन्नानुवृत्तं यन्न व्यावृत्तं च खण्डवत् ।।
अनन्यमानमानन्दं पूर्णं तदभिधीयते ।। १२ ।।
अदः परोक्षमत्यन्तं सर्वकार्यस्य कारणम् ।।
कार्यानुमेयं तद्विद्यात्पूर्णमात्रसतत्त्वकम् ।। १३ ।।
इदं यज्जनिमत्किंचिन्नामरूपक्रियात्मकम् ।।
प्रत्यक्षाद्यवसेयं यत्पूर्णं तदपि पूर्ववत् ।। १४ ।।
कार्यकारणयोश्चेष्टा पूर्णात्पूर्णमितीर्यते ।।
वस्तुवृत्तमिदं तावत्प्रगपि ज्ञानसंगतेः ।। १५ ।।
अथ हेतुफलावेशनिषेधाय परं वचः ।।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। १६ ।।
ब्रह्म वा इदमित्यादि मधुकाण्डे यदीरितम् ।।
तदेव पूर्णमित्यादिवाक्येनेहोपसंहृतम् ।। १७ ।।
अपीताखिलकार्यं सत्तमोमात्रावशेषगम् ।।
भास्वत्स्वार्थं चिदेकस्थमदः पूर्णामिहोच्यते ।। १८ ।।
तमोन्वितं च यत्कार्यं साक्षिणः साक्ष्यतां गतम् ।।
प्रत्यक्षमागमापायि विद्यात्पूर्णमिदं तथा ।। १९ ।।
ईशक्षेत्रज्ञयोरेवं तमस्तज्जाभिसंस्थयोः ।।
सामानाधिकरण्यादेर्वाक्यादैकात्म्यमुच्यते ।। २० ।।
क्षेत्रज्ञेश्वरभेदेन ह्यभिन्नं वस्त्वविद्यया ।।
भिन्नं बोधात्तमोध्वस्तौ नेतीत्यात्माऽवशिष्यते ।। २१ ।।
न भेदो न च संसर्गो नाप्यभावोऽवसीयते ।।
तन्मूलाज्ञानविध्वस्तेर्यथोक्तागममानतः ।। २२ ।।
स्रगज्ञानमनादाय तदुत्थैः संगतिः स्रजः ।।
नैव संभाव्यते यद्वत्तथेहाऽऽत्मनि वीक्ष्यताम् ।। २३ ।।
कार्यकारणयोर्ध्वस्तावपूर्वाद्युक्तिबोधतः ।।
आत्मप्रत्ययमागम्यः स्वार्थ आत्माऽवशिष्यते ।। २४ ।।
यादृगस्य द्वये रूपमात्मनैवावगम्यते ।।
तावदेव हतान्ध्यस्य तदन्यानवशेषतः ।। २५ ।।
यदेवेहेति च तथा मन्त्रोऽप्युच्चैर्जगाद नः ।।
अन्यदेवेति च श्रुतिः कार्येतरनिषेधिनी ।। २६ ।।
आत्मेतिदृष्टेर्मेयत्वं स्वार्यावगतितोऽपरम् ।।
नान्यदुत्सहते वोढुमिति पूर्वमवादिषम् ।। २७ ।।
एवं यथोदिते तावत्प्रमाणार्थेऽप्यवस्थिते ।।
अन्यथेदं वचः केचिद्व्याचख्युरतिनैपुणात् ।। २८ ।।
पूर्णमित्यादिवाक्यस्य षष्ठान्त्यवचसा सह ।।
वक्तुकामो हि संबन्धमेवं यत्नादचीक्लृपत् ।। २९ ।।
द्वैताद्वैतात्मकं ब्रह्म मैत्रेय्यै वर्णितं किल ।।
यत्र हि द्वैतमित्युक्त्या यत्र त्वस्येति चाऽऽदरात् ।। ३० ।।
यद्यद्वैतं परं ब्रह्म तत्र स्यात्परमार्थतः ।।
कल्पितं प्रसजेद्दूैतं तोयबुद्धिरिवोषरे ।। ३१ ।।
मृषात्वाद्भेदजातस्य सर्गस्थित्याद्यसंभवात् ।।
सर्गस्थितिलयानां स्यादन्वाख्यानं मृषैव तु ।। ३२ ।।
श्रवणप्रतिपत्ती च व्यर्थे स्यातां तथाऽद्वये ।।
अथ स्वेनैव रूपेण द्वैतमस्तीति भण्यते ।। ३३ ।।
अन्वाख्यानं सतामेव सर्गादीनां तथा भवेत् ।।
तथाऽप्यद्वैतसंदृष्टेर्मृषात्वं स्याद्विरोधतः ।। ३४ ।।
परिकल्पिततादोष एवमत्र प्रसज्यते ।।
तद्दोषापनुनुत्सायै पूर्णमित्यादिका श्रुतिः ।। ३५ ।।
न कश्चिदपि दोषोऽत्र यथा तदभिधीयते ।।
स्वानुभूत्यनुसारेण सर्वं सुस्थं भवेदतः ।। ३६ ।।
ब्रह्मणो याऽद्वयावस्था सैव तावदिहोदिता ।।
एवं चेदद्वयं ब्रह्म द्वैतावस्था न सिध्यति ।। ३८ ।।
इतिदोषनिषेधार्थमिदं पूर्णमितीर्यते ।।
यथोक्तावस्थयोर्मा भून्मृषात्वं ब्रह्मणः सदा ।। ३९ ।।
पूर्णब्रह्मपरिज्ञानाव्यतिरेकत्वहेतुतः ।।
अदोवत्कार्यमप्येतत्पूर्णमेवावसीयताम् ।। ४० ।।
पूर्णेनाभेदतः कार्यं पूर्णं स्यान्न मृषा श्रुतेः ।।
यद्यते नातिरेकेण तत्तदेवेति निश्चितिः ।। ४१ ।।
एवं तर्ह्येकरूपेऽस्मिंस्तत्त्वे सत्ये समर्थिते ।।
ततः सर्गाद्यभावः स्यादेकरूपतया स्थितेः ।। ४२ ।।
नैवं यतः श्रुतिः प्राह पूर्णात्पूर्णमुदच्यते ।।
पूर्णात्कारणतः पूर्णं द्वैतमेतदुदच्यते ।। ४३ ।।
यस्मादुद्रिच्यमानं हि द्वैतं नैवातिरिच्यते ।।
तदेवोद्रेचनं चेत्स्याद्वैतस्येति मतं यदि ।। ४४ ।।
नैतदेवं कुतो यस्माद्दृष्टहानं प्रसज्यते ।।
प्रत्यक्षतो हि दृष्टोऽयं द्वैताख्यो विषयः स्फुटः ।। ४५ ।।
तथा दर्शनतः सिद्धो विधितश्चावसीयते ।।
प्रामाण्योच्छेद एव स्याच्छ्रुतेरेवं समर्थते ।। ४६ ।।
पारमार्थ्यं क्वचिच्छास्रं कच्चिच्चाप्यनृतात्मताम् ।।
विदधन्मानतां जह्यात्परस्परविरोधतः ।। ४७ ।।
पूर्णत्वेनाजहद् वृत्त्या त्रिष्वप्यध्वसु वर्तते ।।
द्वैताद्वैतात्मकं ब्रह्म पूर्णत्वेनाविभागतः ।। ४८ ।।
कुतोऽविभागो मानाच्चेदुभयोरप्यवस्थयोः ।।
पूर्णादित्यादिवचनान्महाप्रलय आत्मनि ।। ४९ ।।
इदं च द्वैतस्त्येव तथाऽदोऽद्वैतमेव च ।।
पूर्णत्वाख्याजहद्वृत्त्या समुद्रोर्मिवदीक्ष्यताम् ।। ५० ।।
अग्ने चलत्वमूर्मीणां मध्य ईषच्चलात्मता ।।
निष्कम्पत्वं तथा मूले समुद्रः सर्वरूपभृत् ।। ५१ ।।
यथैता यौगपद्येन वृत्तीरूर्मिभिरात्मनः ।।
अनुभूयन्त एकत्र देवदत्तादिके तथा ।। ५२ ।।
निष्कम्पा देवदत्तस्य वृत्तिः स्यात्परमात्मना ।।
ईषत्प्रचलिता प्राणभावेनेत्यवगम्यते ।। ५३ ।।
विराड् भावेनातितरां चण्डप्रचलितोर्मिवत् ।।
ऊर्म्यग्रवत्पिण्डभावे नामरूपक्रियात्मना ।। ५४ ।।
जनिस्थितिलयेष्वेवं त्रिषु कालेषु पूर्णता ।।
कार्यकारणयोर्ज्ञेया द्वैताद्वैतस्वभावयोः ।। ५५ ।।
सा चैैकैवाविभागत्वात्कार्यकारणभेदतः ।।
भेदेन व्यपदेशार्हा सर्वमेवं समञ्जसम् ।। ५६ ।।
आविर्भावतिरोभावैः कार्यकारणरूपिभिः ।।
समुद्रवन्नृत्यति च प्रत्यवस्थं विभुः स्थितः ।। ५७ ।।
एवं द्वैतस्य सत्यत्वे कर्मकाण्डस्य मानता ।।
अनन्तपुरुषार्थाप्तिरिष्यते कर्मकाण्डतः ।। ५८ ।।
यदा तु कल्पितं द्वैतमद्वैतं परमार्थतः ।।
उच्छिन्नं कर्मकाण्डस्य प्रामाण्यं विषयादृते । ५९ ।।
एकदेशस्य चामात्वे वेदस्याप्यप्रमाणता ।।
सर्वनाशो भवेदेवं सर्वाप्रामाण्यहेतुतः ।। ६० ।।
अतो विरोधनुत्त्यर्थं सत्यत्वप्रतिपत्तये ।।
कार्यकारणयोः शास्रं पूर्णमित्यादिनाऽवदत् ।। ६१ ।।
प्रत्यक्षादीनि मानानि भेदग्राहीणि सर्वदा ।।
तेषां चाप्यप्रमाणत्वं प्रापदद्वैतवादिनः ।। ६२ ।।
इति वेदविदः केचिद्भिन्नाभिन्नसतत्त्वकम् ।।
सर्वं वस्त्वभिवाञ्छन्ति तत्तु युक्त्या न युज्यते ।। ६३ ।।
न युक्तिमदिदं गीतं ह्यपवादविकल्पनम् ।।
न्यायासंभवतः स्पष्टं स च न्यायो विभाव्यते ।। ६४ ।।
अहिंसन्सर्वभूतानीत्यहिंसा सर्वभूतगा ।।
शास्त्रेणोत्सर्गतः प्राप्ता तीर्थे साऽपोद्यते यथा ।। ६५ ।।
न तथेहाद्वावस्था श्रुत्योत्सर्गेण यत्नतः ।।
प्रापिता तद्विशेषेऽसौ निर्भागत्वान्निषेधभाक् ।। ६६ ।।
विकल्पानुपपत्तेश्च पोडशग्रहणादिवत् ।।
वस्तुतन्त्रं हि नो मानं कर्तृतन्त्रं विकल्पते ।। ६७ ।।
यत्कर्तुं वाऽप्यकर्तुं वाऽप्यन्यथा कर्तुमेव वा ।।
कारकैः शक्यते लोके तद्विकल्पस्य गोचरः ।। ६८ ।।
पस्स्परविरोधाच्च नैकदैकत्र संभवः ।।
द्वयोरवस्थयोर्यद्वत्प्रकाशतमसोरिह ।। ६९ ।।
श्रुतिन्यायविरोधाच्च कल्पनेयमशोभना ।।
अपूर्वानपरानन्तप्रज्ञानैकरसाद्वयम् ।। ७० ।।
अपूर्वानपराबाह्यं भेदसंसर्गवर्जितम् ।।
अस्थूलं नेति नेतीति यथोक्तार्थे वचांसि हि ।। ७१ ।।
अमात्वाशङ्कासद्भावाद्यथोक्तार्थविनिश्चितौ ।।
अब्धौ क्षिप्तानि तानि स्युरन्यार्थासंभवत्वतः ।। ७२ ।।
तथा न्यायविरोधोऽपि क्रियाकारकरूपिणः ।।
जडाध्रुवानात्मनो हि त्वत्कृता कल्पनेष्यते ।। ७३ ।।
न तु चिन्मात्ररूपस्य ध्रुवानंशात्मनः स्वतः ।।
नित्यत्वं चाऽऽत्मनः सिद्धं प्रत्यभिज्ञादिमानतः ।। ७४ ।।
प्रसजेत्तद्विरोधश्च भिन्नाभिन्नत्ववादिनः ।।
कल्पनायाश्च वैफल्यमनित्यत्वे परात्मनः ।। ७५ ।।
अकृताभ्यागमः प्राप्तः कृतनाशश्च सत्वरः ।।
कर्मकाण्डस्य वैफल्यमेवं कल्पयतो भवेत् ।। ७६ ।।
मकरी ननु दृष्टान्तो भिन्नाभिन्नत्वसिद्धिकृत् ।।
ब्रह्मणः प्रागुपन्यस्तोऽसाध्वीयं कल्पना कथम् ।। ७७ ।।
अतोऽन्यविषयत्वात्सोऽविरोधः प्रागुदीरितः ।।
नतु चिन्मात्ररूपस्य ह्यत्रावोचं विरुद्धताम् ।। ७८ ।।
नाध्येयत्वाच्च शास्रार्थकल्पनेयं त्वया कृता ।।
षड्भावविक्रियं वस्तु ध्येयं वक्ति न हि श्रुतिः ।। ७९ ।।
स्वतस्तस्य च संप्राप्तेर्विनाऽप्यागमाशासनम् ।।
ध्येयत्वेनेह सर्वेषां खारोष्ट्रादेरपीक्षणात् ।। ८० ।।
एकधैवानुविज्ञेयमिति च श्रुतिशासनम् ।।
भेददृष्ट्यपवादाच्च मृत्योरिति विनिन्दनात् ।। ८१ ।।
यत्तूक्तं वेदभागत्वाद्भिन्नवस्त्ववबोधिनः ।।
नामात्वं कर्मकाण्डस्येत्यत्र प्रतिविधीयते ।। ८२ ।।
न हि जात्यादिसंभेदसंसिद्धौ मानता श्रुतेः ।।
प्रत्यक्षाद्यनवष्टब्धे तस्यामात्वं यतः स्थितम् ।। ८३ ।।
भेदग्राहि न नो मानं लौकिकं वैदिकं च यत् ।।
अविचारितसंसिद्धिस्तस्माद्भेदोऽवसीयताम् ।। ८४ ।।
न स्वतः परतो वाऽयं भेदो वस्तुन ईक्ष्यते ।।
सर्वस्यैव स्वतोऽभित्तेस्तदन्यस्याप्यभेदतः ।। ८५ ।।
वस्तु वस्त्वन्तरं भिन्द्याद्योगाद्यद्वा विभागतः ।।
योगोे नातिशयैकत्वात्तयोश्चाप्येकरूपतः ।। ८६ ।।
विभागेऽपि न भेदः स्यात्तयोरेकात्मना स्थितेः ।।
अन्यदीयोऽपि नान्यस्य भेदः स्यात्कल्पनां विना ।। ८७ ।।
मेययाथात्म्यसंलेहि मानं मानत्वमश्नुते ।।
भेदं न लभते मेये, मेयादन्यत्र न प्रमा ।। ८८ ।।
सतो न व्यतिरेकेण भेदो नापि सदन्वयात् ।।
यथैवं नासतोऽप्येवं भेदो नैवावसीयते ।। ८९ ।।
सर्वं सदेव यस्येष्टमथवाऽ सदिदं जगत् ।।
भेदः किमाश्रयस्तस्य विरोधान्न द्वयाश्रयः ।। ९० ।।
अन्यापेक्षं गृथक्त्वं चेत्स्वत एवापृथग्घटः ।।
बलीयानन्तरङ्गत्वाद्वहिरङ्गं प्रबोधते ।। ९१ ।।
द्रव्याद्भिन्नं पृथक्त्वं चेदनवस्थैति सत्वरा ।।
द्रव्यमेव पृथक्त्वं चेदपृथक्स्यादिदंं जगत् ।। ९२ ।।
स्वतश्चेद्वस्तुनो भेदो वस्तु शून्यं प्रसज्यते ।।
आपेक्षिकोऽपि क्लृप्तत्वान्न भेदो रज्जुसर्पवत् ।। ९३ ।।
इत्येवमादि बहुशो भिन्नाभिन्नत्वदुषणम् ।।
प्रागप्यक्तं तदत्रापि संधेयं वस्तुसिद्धये ।। ९४ ।।
अपि वेद्वैकदेशस्य प्रामाण्यं यदि नेष्यते ।।
कर्मकाण्डस्य सर्वस्य वेदस्यापि प्रसज्यते ।। ९५ ।।
इति यत्प्रागुपन्यस्तं तस्य दूषणमुच्यते ।।
साध्यसाधतसंवन्धे तस्यापाीष्टा प्रमाणता ।। ९६ ।।
भेदः प्रमान्तरैः सिद्धो न त्वागमसमाश्रयात् ।।
पशवोऽपि हि जानन्ति भेदमक्षादिमानतः ।। ९७ ।।
न च मिथ्यात्वधीर्भेदे जन्मनैवेह कस्यचित् ।।
अप्युत्थापितबुद्धीनां भेदेऽसंभावना न च ।। ९८ ।।
क्रियाकारकसंभित्तौ वस्तुतत्त्वेन मा श्रुतिः ।।
साध्यसाधनसंबन्धमात्रैकविषयत्वतः ।। ९९ ।।
लोकसिद्धमतो भेदमादायेष्टार्थसिद्धये ।।
इदं कार्यमिदं नेति वेदशास्रं प्रवर्तते ।। १०० ।।
सर्वतस्तु विरक्तो यः कर्मभिः शुद्धधीर्नरः ।।
कामयानः पूर्णफलमुत्पत्त्यादिविलक्षणम् ।। १०१ ।।
तमोमात्रान्तरायत्वात्प्रतीचः पूर्णरूपिणः ।।
स्वतःसिद्धत्वतस्तस्य व्यञ्जकान्नान्यदीक्ष्यते ।। १०२ ।।
स्वतः प्राप्तस्य संप्राप्तौ वाक्यान्मोहप्रहाणतः ।।
मानापेक्षा न भूयः स्यात्फलाप्तेस्तत्कृतार्थतः ।। १०३ ।।
साध्ये हि साधनापेक्षा सिद्धेऽसौ विनिवर्तते ।।
किम्वसाध्ये समस्तस्य पूर्णत्वेन समाप्तितः ।। १०४ ।।
द्वैताद्वैतात्मकं ब्रह्म यदाऽण्वभ्युपगम्यते ।
तदाऽपि न विरोधोऽयं केनचिद्विनिवार्यते ।। १०५ ।।
समस्तव्यस्तभूतस्य ब्रह्मण्यवसितात्मनः ।।
बूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ।। १०६ ।।
सर्वजात्यादिमत्त्वे च परस्परविरोधतः ।।
व्याघातान्न प्रवृत्तिः स्यान्निषेधेऽथ विधौ तथा ।। १०७ ।।
न चावच्छेदमानित्वं विदुषोऽस्त्यासुरत्वतः ।।
विदुषोऽप्यासुरत्वे स्यान्निष्फलं ब्रह्मदर्शनम् ।। १०८ ।।
तस्मादसदिदं गीतं भिन्नाभिन्नत्वसिद्धये ।।
श्रुतिन्यायविरुद्धत्वात्प्रकृतं त्वधुनोच्यते ।। १०९ ।।
ओं खं ब्रह्मेति मन्त्रोऽयं श्रुत्येह ध्यानकर्मणि ।।
नियुज्यते फलप्राप्तौ यथा तदभिधीयते ।। ११० ।।
परस्य ब्रह्मणः साक्षाद्याथात्म्याधिगमो यथा ।।
पूर्वैश्चतुर्भिरध्यायैस्तथा श्रुत्योदितोऽञ्जसा ।। १११ ।।
अस्यैव प्रतिपत्त्यर्थमुपासनमथोक्तते ।।
ओं खं ब्रह्मेति वचसा पुंसां श्रेयोभिवाञ्छताम् ।। ११२ ।।
ब्रह्मेतीह विशेष्यार्थः खमित्यपि विशेषणम् ।।
सामानाधिकरण्योक्तेस्तदुवृत्तिः कृष्णसर्पवत् ।। ११३ ।।
प्रवृत्तिर्ब्रह्मशब्दस्य बृहद्वस्त्वेकगोचरा ।।
खेन तद्विशिनष्ट्यत्र सामान्यांशैकपातिना ।। ११४ ।।
अनाकाशस्वभावेभ्यः खेन ब्रह्म निवर्त्यते ।।
तथाऽब्रह्मस्वभावेभ्यः सामर्थ्याद्ब्रह्मणा च खम् ।। ११५ ।।
सामान्यमात्रवाचित्वात्खशब्दस्य विशेषणम् ।।
पुराणमिति निर्वक्ति कारणप्रतिपत्तये ।। ११६ ।।
यत्तद्ब्रह्म खमित्युक्तं तदोंशब्दाभिधानकम् ।।
चिन्तयेत्सततं धीमानोमालम्बनमेव वा ।। ११७ ।।
एतदालम्बनं श्रेष्ठमिति च श्रुतिशासनम् ।।
एतेनैवाक्षरेणेति ह्यथर्वाणोऽप्यधीयते ।। ११८ ।।
अतीन्द्रित्स्वात्तस्यापि कथं स्यात्तदुपासनम् ।
वायुरं खमिति प्राह तदालम्बनसिद्धये ।। ११९ ।।
खं पुराणं न विज्ञेयं मन्त्रेऽस्मिन्निति मन्यते ।।
कौरव्यायणिजो धीमान्वायुरेतिप्रसिद्धितः ।। १२० ।।
रूढ्या वृत्तिः खशब्दस्य वायुरे व्योम्नि लक्ष्यते ।।
बहुशश्च प्रयोगोऽतो वायुरं खं प्रतीयताम् ।। १२१ ।।
पुराणं यदि तद्व्योम यदि वा वायुरं भवेत् ।।
ध्येयं तदोमिति सदा पक्षयोरुभयोरपि ।। १२२ ।।
आलम्बनतर्योकार उपास्तिविषयो भवेत् ।।
चतुर्भुजाङ्कितं दारु विष्णोरिव निगच्छति ।। १२३ ।।
नेदीयो ब्रह्मणः स्थानमोमितीदं प्रतीयताम् ।।
शालग्रामो हरेर्यद्वत्सर्वानर्थापहारिणः ।। १२४ ।।
यद्वाऽभिधानमों विद्यात्तस्यैव परमात्मनः ।।
तस्मिन्निविष्टचित्तस्य तद्ब्रह्माऽऽशु प्रसीदति ।। १२५ ।।
ओंकारो वेद एवेति ब्राह्मणास्तु प्रचक्षते ।।
वेदैनेन यतो वेद्यं ब्रह्म वेदस्ततो मतः ।। १२६ ।।
अभिधानतयैवैनमोंकारं विदुरञ्जसा ।।
ब्राह्मणास्तदभिध्यानाद्विदन्ति ब्रह्म निर्भयम् ।। १२७ ।।
वेदोऽयमिति चोक्तिः स्याद्यथोक्तोपासनं प्रति ।।
स्तुतित्वादर्थवादोऽयं नातोऽन्योऽर्थोऽवसीयते ।। १२८ ।।
उद्गीथादिप्रभेदेन यं वा संविद्रते द्विजाः ।।
वेदोऽसाविति विज्ञेयस्त्रय्यास्तत्र समाप्तितः ।। १२९ ।।
तस्मिन्प्रयुज्यमानेऽतः सर्वो वेदः ससंग्रहः ।।
प्रयुक्तः स्यादतो वेद ओंकार इति गम्यताम् ।। १३० ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्