नमो जन्मादिसम्बन्धबन्धविध्वंसहेतवे ।
हरये परमानन्दवपुषे परमात्मने ॥ १ ॥
नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥ २ ॥
छन्दोगानामुपनिषद्भ्वेदं व्याचिख्यासुर्भगवान्भाष्यकारश्चिकीर्षितग्रन्थपरिसमाप्तिप्रचयपरिपन्थिदुरितनिबर्हणसिद्ध्यर्थमोङ्कारोच्चारणलक्षणं मङ्गलाचरणं सम्पादयन्व्याख्येयस्वरूपं दर्शयति –
ओमित्येतदिति ।
व्याख्यानं सप्रयोजनं प्रतिजानीते –
तस्या इति ।
ननु शारीरके भूयःसु प्रदेशेषु विस्तरेण व्याख्यातत्वादमुष्य भाष्यं किमिति संप्रत्यारभ्यते तत्राऽऽह –
सङ्क्षेपत इति ।
विस्तरेण व्याख्यातत्वेऽपि सङ्ग्रहतो व्याख्यानमस्याः सम्प्रणीयते विस्तृतस्य सङ्क्षिप्य ग्रहणे सुग्रहत्वादित्यर्थः । किञ्च न चेयं यथापाठक्रमं व्याख्याता ।
प्रकृते तु पाठक्रममनतिक्रम्य व्याख्यायते तद्युक्तमिदं भाष्यमित्याऽऽह –
ऋजुविवरणमिति ।
ऋजु पाठक्रमानुसारि विवरणमर्थस्फुटीकरणं प्रकृतोपनिषदो यस्मिन्भाष्ये तत्तथेति यावत् ।
अथ पाठक्रममाश्रित्यापि द्राविडं भाष्यं प्रणीतं तत्किमनेनेत्याशङ्क्याऽऽह –
अल्पग्रन्थमिति ।
तथाऽपि विशिष्टाधिकार्यभावे कथमिदमारभ्यते तत्राऽह –
अर्थजिज्ञासुभ्य इति ।
ये हि मुमुक्षवोऽस्या विवक्षितमर्थं जिज्ञासन्ते तेभ्यो भाष्यमिदं प्रस्तूयते । तथा च विशिष्टाधिकारिसम्भवे तदारम्भः सम्भवति तस्य च प्रकृतोपनिषदर्थपरिज्ञानमवान्तरफलं तद्द्वारा कैवल्यं परमं फलमिति भावः ।
ननु कर्मविधिशेषत्वादुपनिषदस्तद्व्याख्यानेनैव कृतव्याख्यानत्वात्पिष्टपिष्टिप्रसङ्गात्कृतं तद्भाष्येणेत्याशङ्क्य शेषशेषित्वे प्रमाणाभावान्मैवमित्यभिप्रेत्य पूर्वोत्तरकाण्डयोर्नियतपूर्वापरभावप्रयुक्तं सम्बन्धं प्रतिजानीते –
तत्रेति ।
तस्या व्याख्येयत्वेन प्रस्तुताया उपनिषदः कर्मकाण्डेन सह सम्बन्धोऽभिधीयत इत्यर्थः ।
कोऽसावित्यपेक्षायां तदभिधित्सया कर्मकाण्डार्थमनुवदति –
समस्तमिति ।
विहितं प्रतिषिद्धं च कर्म पूर्वस्मिन्काण्डे प्रतिपन्नमित्यर्थः ।
तत्र हि विहितं समुच्चितमसमुच्चितं चेति द्विविधमित्यङ्गीकृत्य समुच्चितस्य फलमनुवदति –
प्राणादीति ।
प्राणश्चाग्निश्चेत्याद्या देवता तद्विज्ञानं तदुपासनं तेन समुच्चितमग्निहोत्रादिकर्मार्चिराद्युपलक्षितेन देवयानेन पथा कार्यब्रह्मप्राप्तौ कारणं न तु ब्रह्मप्राप्तौ तस्य गन्तव्यत्वाभावात्कार्यस्यैव गन्तव्यताया बादर्यधिकरणे राद्धान्तितत्वात् । तस्मान्न समुच्चितं विहितं कर्म परमपुरुषार्थहेतुरित्यर्थः ।
तस्यैवासमुच्चितस्य फलमाह –
केवलं चेति ।
विहितस्य गतिमुक्त्वा प्रतिषिद्धस्य गतिमाह –
स्वभावेति ।
स्वभावेन शास्त्रापेक्षामन्तरेण प्रकृतिवशादेव प्रवृत्ता यथेष्टचेष्टारसिकास्तेषां कर्मज्ञानाभावाद्देवयाने पितृयाणे च पथ्यनधिकृतानामधोगतिस्तिर्यगवस्था क्षुद्रजन्तुलक्षणा अपुनरावृत्तिदुर्लभा वाक्येन ।
अन्यतरस्मिन्वाऽधिकृतानां परमः पुरुषार्थः सेत्स्यति । “शुक्लकृष्णे गती ह्येते जगतः शाश्वते मतेे” (भ.गी. ८ । २६) इति स्मृत्या तयोर्नित्यफलत्वप्रतिपत्तेरत आह –
न चोभयोरित्यादि ।
ननु मार्गद्वयभ्रष्टानां पुरुषार्थाभावेऽपि द्वयोः पथोरन्यतरस्मिन्वा भविष्यतीति चेत्तत्र न तावद्देवयानपथि निमित्ते निरतिशयपुरुषार्थसिद्धिः । “इमं मानवमावर्तं नावर्तन्ते” (छा.उ. ४ । १५ । ५) “तेषामिह न पुनरावृत्तिः” इत्यत्रेममिहेति विशेषणाद् “एकया यात्यनावृत्तिम्” (भ.गी. ८ । २६) इति स्मृतावनावृत्तेरेतत्कल्पविषयत्वात् कल्पान्तरेऽप्यनावृत्तावपि विशेषणानर्थक्यात् । नापि पितृयाणपथि निरतिशयपुरुषार्थसिद्धिः । “एतमेवाध्वानं पुनर्निवर्तन्ते” (छा.उ. ५ । १० । ५) । “अन्ययाऽऽवर्तते पुनः” (भ.गी. ८ । २६) इति चन्द्रस्थलस्खलनावगमात् । तस्मान्न कर्मवशादात्यन्तिकपुरुषार्थप्राप्तिरित्यर्थः ।
एवमनूद्य कर्मफलं फलितं सम्बन्धमाह –
इत्यत इति ।
उक्तरीत्या कर्म यतो न निरतिशयपुरुषार्थहेतुरतः ससाधनात्कर्मणस्तत्फलाच्च विरक्तस्य निरतिशयपुरुषार्थं काङ्क्षतस्तत्साधनं केवलमात्मज्ञानं संसारान्तर्भूतपूर्वोक्तगतित्रयहेतुकर्मतद्धेतुनिराकरणेन वक्तव्यमित्यभिप्रायेणोपनिषदेषाऽऽरभ्यते । न हि कर्मानुष्ठानात्पुमर्थो निरतिशयो लभ्यते । तस्य “तद्यथेह” (छा.उ. ८ । १ । ६) इत्यादौ क्षयिष्णुफलत्वश्रुतेः । तथा चेश्वरार्पणबुद्ध्याऽनुष्ठितशुभकर्मवशादुपजातशुद्धबुद्धेर्विरक्तस्य मुमुक्षोर्मोक्षसाधनज्ञानार्थोऽयमुपनिषदारम्भत इति हेतुहेतुमद्भावः सम्बन्ध इत्यर्थः ।
ननु “मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ॥” इति वृद्धैरुक्तत्वात्काम्यनिषिद्धे वर्जनीये । नित्यनैमित्तिके च कृत्वा व्यवस्थितस्य मुमुक्षोर्वर्तमानदेहपाते पुनर्देहान्तरग्रहे हेत्वभावादनायाससिद्धा ज्ञानादृतेऽपि मुक्तिरिति कथं तादर्थ्येनोपनिषदारभ्यते तत्राऽऽह -
न चेति ।
न हि त्वदुत्प्रेक्षितो मोक्षोपायो विना प्रमाणं प्रकल्पते । न च पौरुषेयं वाक्यं मूलप्रमाणमन्तरेण प्रमाणम् । न चात्र श्रुतिस्मृती प्रत्यक्षादि वा मूलमालोक्यते । सम्भवति च यथावर्णितचरितस्यापि कर्मशेषवशाद्देहान्तरं ; न चैकभाविकः कर्माशयः । “तद्य इह रमणीयचरणाः” (छा.उ. ५ । १० । ७) “ततः शेषेण” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुतिस्मृतिविरोधात्तस्मादात्मज्ञानादेव मुक्तिरिति भावः ।
अद्वैतात्मज्ञानविधुराणां भेदज्ञानभाजां कर्मानुष्ठायिनां क्षय्यफलशालित्वे वाक्यशेषं प्रमाणयति –
वक्ष्यति हीति ।
अद्वैतात्मोपदेशानन्तर्यमथशब्दार्थः । ये पुनरनुपासितगुरवस्तदुपदेशशून्या यथामति यथोक्तादद्वैतादन्यथा द्वैतमेव तत्त्वं विदन्ति ते परतन्त्राः सन्तो रागादिना कर्मानुतिष्ठन्तो विनाशिफलशालिनः स्युरिति श्रुत्यर्थः ।
अद्वैतात्मज्ञानादात्यन्तिकपुरुषार्थसिद्धिरित्यत्रापि वाक्यशेषमनुकूलयति –
विपर्यये चेति ।
चकारात्क्रियापदमनुकृष्यते । स हि विद्वान्विद्यया निरस्ताविद्यादिमलः स्वपरिज्ञानात्स्वयमेव परमात्मा भवति । भेदप्रतिपत्तिहेतोरुच्छिन्नत्वादित्यर्थः ।
भेदनिष्ठानां कर्मिणां पुरुषार्थो निरतिशयो न सिद्ध्यति । अद्वैतनिष्ठानां तु कर्म त्यजतां पुमर्थः सेत्स्यतीत्यत्र वाक्यशेषस्थं लिङ्गं दर्शयति –
तथेत्यादिना ।
द्वैतमेव विषयस्तस्मिन्वाचारम्भणश्रुतेरनृतेऽभिसन्धा यस्याभिसन्धा सत्यत्वाभिमानस्तस्य बन्धनं परमानन्दस्याऽऽविर्भावराहित्यं संसारात्मकस्य दुःखस्य प्राप्तिश्च । यथा वस्तुतः तस्करस्य नाहं तस्करोऽस्मीति मिथ्यैवाभिमन्यमानस्य परिशोधनार्थं तप्तपरशोर्ग्रहणे दाहो बन्धनं दुःखप्राप्तिश्च प्रतीयते, तथैव द्वैताभिनिवेशवतोऽपीति प्रथममुक्त्वा वस्तुतोऽतस्करस्य परैरारोपिततस्करत्वस्य परिशुशुत्सया तप्तपरशुग्रहणे दाहाद्यभाववद्द्वैताभावोपलक्षिते प्रत्यगात्मनि परमार्थसत्येऽभिमानवतो द्वैताच्च व्यावृत्तचित्तस्यानर्थध्वंसो निरतिशयानन्दाविर्भावश्चेति यथोक्तार्थानुरोधेनाग्रे श्रुतिर्वक्ष्यतीति योजना । केवलमात्मज्ञानं कैवल्यहेतुस्तत्सिद्ध्यर्थमुपनिषदारम्भ इति स्वपक्षो दर्शितः ।