छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अत एव न कर्मसहभावि अद्वैतात्मदर्शनम् ; क्रियाकारकफलभेदोपमर्देन ‘सत् . . . एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १), (छा. उ. ६ । २ । २) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः । कर्मविधिप्रत्यय इति चेत् , न ; कर्तृभोक्तृस्वभावविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् । अधिगतसकलवेदार्थस्य कर्मविधानात् अद्वैतज्ञानवतोऽपि कर्मेति चेत् , न ; कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य ‘सत . . . एकमेवाद्वितीयम्’ ‘आत्मैवेदं सर्वम्’ इत्यनेनोपमर्दितत्वात् । तस्मात् अविद्यादिदोषवत एव कर्माणि विधीयन्ते ; न अद्वैतज्ञानवतः । अत एव हि वक्ष्यति — ‘सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इति ॥

स्वयूथ्यास्तु कर्मसमुच्चितमात्मानं मोक्षसाधनं तादर्थ्येनोपनिषदारम्भ इत्याहुस्तान्प्रत्याह –

अत एवेति ।

यत्कृतकं तदनित्यमितिव्याप्त्यनुगृहीतया “तद्यथेह” (गौ. ध. सू. २ । २ । २९) इत्यादिश्रुत्या कर्मफलस्यानित्यत्वावगमाद् “ब्रह्मविदाप्नोति परम्” ( तै. उ. २ । १ । १ ) इत्यादिश्रुत्या च ज्ञानफलस्य नित्यत्वसिद्धेर्ज्ञानकर्मणोर्विरुद्धफलत्वाध्यवसायादद्वैतस्याऽऽत्मनो दर्शनं नैव कर्मणा सह भवितुमुत्सहते । न हि विरुद्धयोस्तमःप्रकाशयोः समुच्चयः सङ्गच्छते । तन्न समुच्चितज्ञानार्थत्वेनोपनिषदारम्भ इत्यर्थः ।

किं चाद्वैतात्मज्ञानं स्वसाध्यसिद्ध्यर्थं वा कर्मापेक्षते स्वबाधकविधूननार्थं वा ? नाऽऽद्यः । तस्यासाध्यफलत्वादिति मन्वानो द्वितीयं प्रत्याह –

क्रियेति ।

वाक्यजनितस्याद्वैतात्मज्ञानस्येति शेषः । तस्य बाधकाभावेन तत्परिहारार्थं सहकार्यपेक्षा नास्तीत्यर्थः ।

बाधकप्रत्ययाभावस्यासिद्धिमाशङ्कते –

कर्मेति ।

तद्विषयो विधिप्रत्ययो यजेतेत्यादिविधिजनितः कर्तव्यताबोधः । स चाऽऽत्मनि कर्तृत्वादिकमाकाङ्क्षन्नकर्त्राद्यात्मज्ञानस्य बाधको भवतीत्यर्थः ।

कस्यायं कर्मविधिरज्ञस्य विदुषो वेति विकल्प्याऽऽद्यं प्रत्याऽह –

नेत्यादिना ।

कर्त्राद्याकारं प्रमाणनिरपेक्षप्रकृतिप्रसूतं मिथ्याज्ञानं तद्वतस्तेन मिथ्याज्ञानेन जनितकर्मफलविषयो रागादिदोषस्तद्वतश्च कर्म विधीयते । न हि कर्ताऽहमित्यादिमिथ्याधियो रागादेश्चाभावे कर्म विधातुं शक्यम् । “यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्” (म.स्मृ. २ । ४) इति स्मृतेः । अतोऽज्ञस्य कर्मविधिपक्षे न तत्प्रत्ययो बाधकः प्राप्त्यभावादित्यर्थः ।

द्वितीयं शङ्कते –

अधिगतेति ।

अधीतस्वाध्यायो हि वैदिके कर्मण्यधिक्रियते । अध्ययनं चार्थावबोधफलमिति मीमांसकमर्यादा । तथा चाध्ययनवतो ज्ञातसर्ववेदार्थस्य यजेतेत्यादिना कर्मविधानादात्मज्ञानस्यापि कर्माङ्गत्वं गम्यते । न चाऽऽत्मज्ञानमपबाध्यते । अविरोधादित्यर्थः ।

न तावदर्थावबोधफलमध्ययनमिति प्रामाणिकमक्षरावाप्तिफलं तदिति चाध्येतृप्रसिद्धं तत्राध्ययनविधिवशेन नाऽऽत्मज्ञानस्य कर्मविधिसम्बन्धः सम्भवतीति परिहरति –

नेति ।

किञ्च ममेदं कर्मेति कर्मण्यैश्वर्यं प्रतिपद्य व्यवस्थितं विषयीकृत्य प्रवृत्तस्य कर्त्राद्याकारविज्ञानस्य प्रमाणापेक्षामन्तरेण स्वभावप्राप्तस्य वाक्योत्थेन सम्यग्ज्ञानेनापहृतत्वात्कर्मफलविषयरागाद्ययोगात्तन्निबन्धनस्य कर्मणोऽपि दुरनुष्ठानत्वान्नाऽऽत्मज्ञस्य कर्मोपपत्तिरित्याह –

कर्माधिकृतेति ।

अद्वैतात्मज्ञानस्य कर्मप्रवृत्तिविरोधित्वे फलितमुपसंहरति –

तस्मादिति ।

अज्ञस्य कर्मविधिर्न त्वात्मज्ञानस्येत्यत्र श्रुतिं सम्वादयति –

अत एवेति ।

एते त्रयोऽप्याश्रमिणः कर्माधिकृता इति यावत् ।

यथा ब्रह्माचारी गृहस्थो वानप्रस्थश्चेत्येते कर्मिणस्तथा ब्रह्मविदपि कर्मी चेन्न पृथक्क्रियेत । पृथक्करणाच्च न तस्य कर्मविधिरिति मत्वोक्तम् –

ब्रह्मसंस्थ इति ।