यदि समुच्चयासम्भवात्केवलमेवाऽऽत्मज्ञानं कैवल्यसाधनमिति तादर्थ्येनोपनिषदारभ्यते हन्त किमित्यस्यामुपनिषदि त्रिविधान्युपासनान्युपन्यस्यन्ते तत्राऽऽह -
तत्रेति ।
उक्तया रीत्योपनिषदारम्भे सतीति यावत् । स यो वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितीत्यादीन्यभ्युदयफलान्युपासनानि । कैवल्येन सनिकृष्टफलत्वं नाम क्रममुक्तिफलत्वम् । अद्वैतान्निष्प्रपञ्चादीषद्विकृतं सगुणं ब्रह्म । कर्मसमृद्धिफलानि कर्मफलगतातिशयफलान्युद्गीथाद्युपासनानीत्यर्थः ।
आत्मविद्याप्रकरणे त्रिविधोपासनोपन्यासे हेतुमाह –
रहस्येति ।
उपनिषत्पदवेदनीयत्वस्याऽऽत्मविद्यायामुपासनेषु चाविशेषादित्यर्थः ।
तत्रैव हेत्वन्तरमुद्भाव्य विभजते –
मनोवृत्तीत्यादिना ।
आत्मज्ञानस्योपासनानां च यथोक्तं सामान्यमिष्यते चेत्तर्हि फलतोऽपि विशेषो न स्यादिति मन्वानः शङ्कते –
कस्तर्हीति ।
फलतो विशेषं दर्शयन्नुत्तरमाह –
उच्यत इति ।
तत्र प्रथममात्मज्ञानस्योपासनाभ्यो विशेषमादर्शयति –
स्वाभाविकस्येति ।
प्रत्यगात्मनि क्रियाकारकफलविभागविकले कूटस्थे स्वभावशब्दिताविद्याकृतमध्यारोपितं कर्त्राद्याकारविज्ञानम् । तस्याद्वितीयत्वादिलक्षणाधिष्ठानयाथात्म्यज्ञानं निवर्तकम् । यथा रज्ज्वादावधिष्ठाने सर्पादिसमारोपरूपस्य मिथ्याज्ञानस्य प्रकाशादिकारणप्रसूतो रज्ज्वाद्यधिष्ठानस्वरूपनिश्चयो निवर्तकस्तथेत्यर्थः ।
संप्रत्युपासनानामद्वैतज्ञानाद्विशेषं दर्शयति –
उपासनं त्विति ।
शास्त्रं “मनो ब्रह्मेत्युपासीत” (छा. उ. ३ । १८ । १) इत्यादि, किञ्चिदालम्बनं मनःप्रभृति विवक्षितम् ।
समानजातीयप्रत्ययसन्तानकरणं विच्छिद्य विच्छिद्य ध्यायिनोऽपि सिध्यतीति विशिनष्टि –
तद्विलक्षणेति ।
आत्मज्ञानस्योपासनानां चावान्तरविशेषमुपसंहरति –
इति विशेष इति ।
ननु विद्याप्रकरणे यथोक्तोपासनानामुपदेशसम्भवेऽपि विद्यैव प्राधान्यात्प्राथम्येनोच्यतामुपासनानि पुनरप्रधानत्वात्पाश्चात्येन वाच्यानीत्याशङ्क्याऽऽह –
तानीति ।
उपासनानामीश्वरार्पणबुद्ध्याऽनुष्ठितनित्यादिकर्मवच्चित्तशुद्धिद्वारा ज्ञानकारणत्वात्कार्याच्च कारणस्य प्राथम्यप्रसिद्धेः साकारवस्तुविषयत्वेन सुसाध्यत्वाच्च मन्दानां सहसा तेषु प्रवृत्त्युपपत्तेरादावुपदेशः सम्भवतीत्यर्थः ।
तथाऽपि बहुविधेषूपासनेषु किमित्यङ्गावबद्धमेवोपासनं प्रथममुच्यते तत्राऽऽह –
तत्रेति ।
प्राकृते पुरुषे कर्माभ्यासस्यानादिवासनया दृढीकृतत्वादभ्यस्ततत्तत्कर्मत्यागेऽतत्सम्बन्धिनि केवलोपासने चेतसः समर्पणं दुःखं कर्तुमित्यङ्गावबद्धमेव तावदुपासनमुच्यते । एवमादावुक्त्वा पुनरुपासनान्तराणि क्रमेण वक्तव्यानीत्यर्थः ।