छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
ओमित्येतदक्षरमुद्गीथमुपासीत — ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम् ; तस्मिन्हि प्रयुज्यमाने स प्रसीदति, प्रियनामग्रहण इव लोकः ; तदिह इतिपरं प्रयुक्तम् अभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ; तथा च अर्चादिवत् परस्यात्मनः प्रतीकं सम्पद्यते ; एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्ववगतम् ; जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसिद्धमस्य श्रैष्ठ्यम् ; अतः तदेतत् , अक्षरं वर्णात्मकम् , उद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यम् , उपासीत — कर्माङ्गावयवभूते ओङ्कारेपरमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् । स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दवाच्यत्वे हेतुमाह — ओमिति ह्युद्गायति ; ओमित्यारभ्य, हि यस्मात् , उद्गायति, अत उद्गीथ ओङ्कार इत्यर्थः । तस्य उपव्याख्यानम् — तस्य अक्षरस्य, उपव्याख्यानम् एवमुपासनमेवंविभूत्येवंफलमित्यादिकथनम् उपव्याख्यानम् , प्रवर्तत इति वाक्यशेषः ॥

काण्डद्वयस्य नियतपौर्वापर्यप्रयुक्तसम्बन्धमुपनिषत्तात्पर्यं चोक्त्वा प्रत्यक्षरं व्याख्यातुकामः प्रतीकमादत्ते –

ओमित्येतदक्षरमिति ।

तत्र प्रथममोङ्कारस्याभिधायकत्वपक्षमेवावलम्बते –

परमात्मन इति ।

अभिधानान्तरेभ्यो विशेषं दर्शयति –

नेदिष्ठमिति ।

निकटतममतिशयेन प्रियमिति यावत् ।

ओङ्कारस्य नेदिष्ठत्वं समर्थयते –

तस्मिन्निति ।

ओङ्कारस्यान्यत्र परमात्मनामत्वेऽपि प्रकृते किं विवक्षितमित्याशङ्क्याऽऽह –

तदिहेति ।

प्रकृते हि वाक्ये तदोमिति पदमितिशब्दशिरस्कं प्रयुक्तमिति शब्दसामर्थ्यादेव वाचकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रमुपास्यं गम्यते । यत्र हातिपरः प्रयोगो न तत्राभिधेयविवक्षास्ति यथा गौरित्ययमाहेति । तथा चात्रेतिपरत्वादोङ्कारस्य स्वरूपमात्रमुपास्यं विवक्षितमित्यर्थः ।

तथोपास्यत्वार्थं श्रैष्ठ्यं साधयति –

तथा चेति ।

इतिपरप्रयोगवशादभिधायकत्वाभावे सत्यर्चाशब्दितप्रतिमाया भगवत्प्रतीकत्ववदोङ्कारस्यापि परमात्मप्रतीकत्वेन श्रेष्ठत्वादुपास्यत्वसिद्धिरित्यर्थः ।

तदीय श्रैष्ठ्यं सप्रमाणकं निगमयति –

एवमिति ।

सर्ववेदान्तेष्वेतदालम्बनं परमित्यादिषु ।

किञ्च नास्य श्रैष्ठ्यं समर्थनीयं प्रसिद्धत्वादित्याह –

जपेति ।

गायत्र्यादिजपे यज्ञादौ कर्मणि स्वाध्यायस्याऽऽदावन्ते चोङ्कारस्य प्रयोगो दृश्यते ।
“तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥” (भ.गी. १७ । २४)

“ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥” (म.स्मृ. २ । ७४)
इति स्मृतेः । “ओमिति ब्राह्मणः प्रवक्ष्यन्नाह” (तै.उ. १ । ८) इत्यादिश्रुतेश्चेत्यर्थः ।

ओमितीत्ययं भागो व्याख्यातः संप्रत्येतदक्षरमित्यस्यार्थमाह –

अत इति ।

श्रेष्ठत्वमुपास्यत्वार्थमनुकृष्यते ।

व्याप्तेश्च समञ्जसमिति न्यायेन विशेषणस्यार्थवत्त्वमभिप्रेत्य रूढिर्योगमपहरतीति न्यायेनाक्षरशब्दस्य प्रकरणमनुसृत्य प्रसिद्धमर्थमाह –

वर्णात्मकमिति ।

ग्रामो दग्धः पटो दग्ध इतिवदेकदेशे समुदायविषयं पदं प्रवृत्तमित्याह –

उद्गीथेति ।

उपास्तिं विभजते –

कर्मेति ।

उद्गीथावयवत्वादोङ्कारे तच्छब्दप्रवृत्तिरित्युक्तत्वादनन्तरवाक्यमकिञ्चित्करमित्याशङ्क्य श्रुत्युक्तो योऽस्मदुक्तो हेतुस्तेन स्फुटीक्रियते ततश्चोत्कृष्यास्माभिर्दर्शित इत्यभिप्रेत्याऽऽह –

स्वयमेवेति ।

ओमित्येतदक्षरमित्यत्रोपासनोत्पत्तिविधिरुक्तः ।

सम्प्रति गुणं विवक्षुर्वाक्यान्तरमादाय व्याचष्टे –

तस्येति ।

एवमुपासनमिति ।

रसतमत्वमाप्तिः समृद्धिरित्येवंगुणकमुपासनं यस्याक्षरस्य तत्तथेत्यर्थः ।

एवंविभूतीति ।

परमः परार्ध्यस्तेनेयं त्रयी विद्या वर्तत इत्याद्या विभूतिः स्तुतिर्यस्य तत्तथेति यावत् ।

एवंफलमिति ।

“आपयिता ह वै कामानाम्” (छा.उ. १ । १ । ७) इत्यादि फलं यस्योपास्यसाक्षात्कारस्य तत्तथोक्तमित्यर्थः । गोदोहनवदाश्रित्य विधानादधिकृताधिकारमिदमुपासनं तथाऽपि पृथगेव पृथग्घ्यप्रतिबन्धः फलमिति न्यायेन फलवत् । फलं याजमानमुद्गातुर्यजमानेन कर्मार्थं क्रीतत्वात्तत्कर्तृकस्योपासनस्यापि यजमानस्य स्वामिनः फलमिति वचनमादिशब्दार्थः ।

वाक्यस्य साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयति –

प्रवर्तत इति ॥ १ ॥