तदेवोपव्याख्यानमनुवर्तयन्नोङ्कारस्य रसतमत्वं गुणं विधातुं पातनिकां करोति –
एषामिति ।
गतिरित्युत्पत्तिकारणत्वं परायणमिति स्थितिहेतुत्वमवष्टम्भ इति प्रलयनिदानत्वमुच्यत इति भेदः । वैपरीत्येन वाऽमूनि पदानि नेयानि ।
अपां पृथिवीरसत्वं साधयति –
अप्सु हीति ।
अस्यार्थस्य श्रुत्यन्तरप्रसिद्धिं द्योतयितुं हिशब्दः ।
ओषधीनामपः प्रति कारणत्वाभावात्कथं तत्र रसशब्दस्तत्राऽऽह –
अप्परिणामत्वादिति ।
कारणपरतया पूर्वत्र व्याख्यातोऽपि रसशब्दो गोरस इतिवदुत्तरत्र कार्यपरतया व्याख्येय इत्यर्थः ।
कथमोषधीनां पुरुषो रसः । न हि ताभिरसौ क्रियते तत्राऽह –
अन्नेति ।
पुरुषरसत्वं वाचः समर्थयते –
पुरुषेति ।
वाग्विहीनं हि प्रतिपुरुषान्तरं विनिन्दन्ति । अतो वाचः सारतमत्वं प्रसिद्धमिति हिशब्दार्थः । तस्याः सारिष्ठत्वप्रसिद्धिरतःशब्दार्थः ।
वाङ्निर्वर्त्यत्वादृचस्तद्रसत्वमित्यभिप्रेत्याऽऽह –
सारतरेति ।
ऋचः सकाशादपि तद्ध्यूढं साम गीयमानं वक्तृश्रोत्रोः सुखकरमिति मत्वाऽऽह –
सारतरमिति ।
उद्गीथशब्दं चावयवे प्रकरणान्नियमयति –
प्रकृतत्वादिति ।
न हि सामानोङ्कृतं फलाय भवतीति मन्वानो ब्रूते –
सारतर इति ॥ २ ॥