छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ ३ ॥
एवम् — स एषः उद्गीथाख्य ओङ्कारः, भूतादीनामुत्तरोत्तररसानाम् , अतिशयेन रसः रसतमः ; परमः, परमात्मप्रतीकत्वात् ; परार्ध्यः — अर्धं स्थानम् , परं च तदर्धं च परार्धम् , तदर्हतीति परार्ध्यः, — परमात्मस्थानार्हः, परमात्मवदुपास्यत्वादित्यभिप्रायः ; अष्टमः — पृथिव्यादिरससङ्ख्यायाम् ; यदुद्गीथः य उद्गीथः ॥

तदर्थं पृथिव्यादीनां रसत्वमुक्तं तदिदानीं दर्शयति –

एवमिति ।

रसतमत्वगुणकमोङ्कारमुपास्यत्वार्थं विशेषणाभ्यां महीकरोति –

परम इति ।

तस्य परमात्मस्थानयोग्यत्वं समर्थयते –

परमात्मवदिति ।

यथा परमात्मा स्वरूपत्वेनानुसन्धीयते तथाऽस्यापि तदात्मनाऽनुसन्धेयत्वाद्विष्णुबुद्ध्यालम्बनार्हप्रतिमावदयमपि परमात्मत्वबुद्ध्यालम्बनयोग्यो भवतीत्यर्थः ।

ओङ्कारात्पराचीनो रसो नास्तीति तदीयरसतमत्वस्फुटीकरणार्थं परिगणनातः सिद्धमष्टमत्वमनुवदति –

अष्टम इति ।

ननु भूतान्यारभ्य नवमत्वे प्रतीयमाने कथमोङ्कारस्याष्टमत्वं प्रतिज्ञायते तत्राऽऽह –

पृथिव्यादीति ।

स एष इत्युक्तं व्यक्तीकर्तुं यदुद्गीथ इत्येतद्व्याचष्टे –

य इति ।

पूर्ववदुद्गीथशब्दोऽवयवपरो नेतव्यः ॥ ३ ॥