छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥
वाच ऋग्रसः . . . इत्युक्तम् ; कतमा सा ऋक् ? कतमत्तत्सामः ? कतमो वा स उद्गीथः ? कतमा कतमेति वीप्सा आदरार्था । ननु ‘वा बहूनां जातिपरिप्रश्ने डतमच्’ (पा. सू. ५ । ३ । ९३) इति डतमच्प्रत्ययः इष्टः ; न हि अत्र ऋग्जातिबहुत्वम् ; कथं डतमच्प्रयोगः ? नैष दोषः ; जातौ परिप्रश्नो जातिपरिप्रश्नः — इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते । ननु जातेः परिप्रश्नः — इत्यस्मिन्विग्रहे ‘कतमः कठः’ इत्याद्युदाहरणमुपपन्नम् , जातौ परिप्रश्न इत्यत्र तु न युज्यते — तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यदोषः । यदि जातेः परिप्रश्नः स्यात् , ‘कतमा कतमर्क्’ इत्यादावुपसङ्ख्यानं कर्तव्यं स्यात् । विमृष्टं भवति विमर्शः कृतो भवति ॥

अथ गुणान्तरविधानार्थं प्रश्नमवतारयन्वृत्तमनुवदति –

वाच इति ।

ऋचः साम रसः साम्न उद्गीथो रस इति चोक्तमिति द्रष्टव्यम् ।

इदानीमृगादिजातिं जिज्ञासमानः पृच्छति –

कतमेति ।

वीप्सात्रयं प्रश्ने तत्तज्जातिज्ञाने श्रद्धातिरेकं दर्शयितुमित्याह –

कतमा कतमेति ।

प्रश्नत्रयमाक्षिपति –

नन्विति ।

अनेकजात्यवच्छिन्नानां मध्ये यदैकस्या जातेर्निर्धारणार्थः परिप्रश्नो भवति तदा तस्मिन्विषये विकल्पेन डतमच्प्रत्ययः स्याद्यथा बहूनां कठादीनां मध्ये कठजातिनिर्णयार्थं कतमे कठा इति प्रश्नो दृश्यते तथाऽन्यत्रापीति सूत्रार्थः ।

बहूनामेकस्या निर्धारणे डतमज्विधानेऽपि प्रकृते प्रश्नत्रये काऽनुपपत्तिरित्याशङ्क्याऽऽह –

न हीति ।

अत्रेत्यध्यापकाध्येतृव्यवहारभूमिरुक्ता । ऋग्जातिग्रहणं सामजातेरुद्गीथजातेश्चोपलक्षणम् ।

तद्बहुत्वाभावेऽपि किं नश्छिद्यते तत्राऽऽह –

कथमिति ।

ऋगादिजातयो यदि भूयस्यः स्युस्तदा तासां मध्ये कतमर्ग जातिः कतमा सामजातिर्वा कतमा सामजातिर्वा कतमा वोद्गीथजातिरत्र विवक्षितेति प्रश्नो युज्यते । न चास्ति तत्र जातिबहुत्वं प्रमाणाभावादतोऽनुपपन्नं प्रश्नत्रयमित्यर्थः ।

प्रश्नानुपपत्तिं दूषयति –

नैष दोष इति ।

बहूनां तत्तज्जात्यवच्छिन्नानां सन्निधाने जातौ सत्यां व्यक्तिबहुत्वसम्भवात्तदन्यतमनिर्धारणार्थं परिप्रश्ने विकल्पेन डतमाजति सूत्रार्थाङ्गीकारादृगादिजातौ तद्व्यक्तिबाहुल्यात्कतमा तद्व्यक्तिर्वाच ऋग्रस इत्यादौ विवक्षितेति प्रश्नपर्यवसानादुपपन्नं प्रश्नत्रयमित्यर्थः ।

यत्तु विग्रहान्तरं गृहीत्वा प्रश्नानुपपत्तिरित्युक्तं तत्राऽऽह –

न त्विति ।

तत्र चानुपपत्तिं यदि जातेरित्यत्र व्यक्तीकरिष्यति । अस्मदिष्टविग्रहापरिग्रहे वृत्तिकारीयमुदाहरणं विरुद्ध्यते ।

कठशब्दस्य व्यक्तिविशेषत्वाभावादिति शङ्कते –

नन्विति ।

उदाहरणेऽपि सत्यां कठजातौ तद्व्यक्तिबाहुल्यात्तदन्यतमनिर्धारणाभिप्रायेण परिप्रश्ने डतमजित्यङ्गीकारान्न परोक्तोदाहरणविरोधोऽस्मत्पक्षेऽस्तीति परिहरति –

तत्रापीति ।

ननु द्विधाऽपि विग्रहोपपत्तौ किमिति त्वदिष्टो विग्रहो नियम्यते तत्राऽऽह –

यदीति ।

त्वदिष्टविग्रहपरिग्रहश्चेदृगादिजातेरेकत्वात्प्रत्येकं बहुत्वायोगात् वा बहूनामित्यादिसूत्रेण कतमर्क्कतमत्सामेत्युदाहरणं न सिद्ध्येत् । तथा च तत्सिद्ध्यर्थं पृथग्विधानं प्रसज्येत । न हि वैदिकमुदाहरणं प्रमत्तगीतमिव हातुं शक्यं तस्मादृगादिव्यक्तिरेवात्र प्रष्टुं युक्तेत्यर्थः ॥ ४ ॥