छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ ५ ॥
विमर्शे हि कृते सति, प्रतिवचनोक्तिरुपपन्ना — वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्गीथः इति । वागृचोरेकत्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात् ; आप्तिगुणसिद्धये हि ओमित्येतदक्षरमुद्गीथः इति । वाक्प्राणौ ऋक्सामयोनी इति वागेव ऋक् प्राणः साम इत्युच्यते ; यथा क्रमम् ऋक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् ; सर्वर्क्सामावरोधे च ऋक्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ; तदवरोधे च सर्वे कामा अवरुद्धाः स्युः । ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते । तद्वा एतत् इति मिथुनं निर्दिश्यते । किं तन्मिथुनमिति, आह — यद्वाक्च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम् ; ऋक्च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्तावित्यर्थः ; न तु स्वातन्त्र्येण ऋक्च साम च मिथुनम् । अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम् , ऋक्साम च अपरम् , इति द्वे मिथुने स्याताम् ; तथा च तद्वा एतन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात् ; तस्मात् ऋक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् ॥

किमिति यथोक्तरीत्या विमृश्यते । विवक्षितमृगादिस्वरूपमेवाऽऽदावुपन्यस्यतां लाघवादित्याशङ्क्याऽऽह –

विमर्शे हीति ।

शिष्यभूतया श्रुत्या चोदिते सैवाऽऽचार्यभूता परिहरति –

वागेवेति ।

नन्वाद्ये प्रतिवचने वागृचोरेकत्वावगमादोङ्कारस्य रसतमवाक्योपदिष्टमष्टमत्वं व्याहन्येतेत्याशङ्क्याऽऽह –

वागृचोरिति ।

कथं पुना रसतमवाक्यादिदं प्रश्नप्रतिवचनरूपवाक्यं भिद्यतेऽर्थाधिक्याभावात्तत्राऽऽह –

आप्तीति ।

पूर्वं हि वाक्यमोङ्कारस्य रसतमत्वं विदधाति । इदं तु तस्यैवाऽऽप्तिगुणं विधत्ते । तथा च तादृग्गुणविध्यर्थत्वेनास्य वाक्यान्तरत्वादेतद्वाक्यवशादष्टमत्वाभावेऽपि पूर्ववाक्यादोङ्कारस्याष्टमत्वमविरुद्धमित्यर्थः ।

तथाऽपि कथमृगादिजातीये पृष्टे वागेवर्गित्यादिप्रतिवचनमुचितं तद्व्यक्तिविशेषवचनमेव प्रश्नानुसारीत्याशङ्क्याऽऽह –

वाक्प्राणाविति ।

वागृचो योनिस्तन्निर्वर्तकत्वात् । प्राणश्च साम्नोतो हेतुर्बलेन हि गीतिरुत्पाद्यते । तथा च वागेवेत्यादिना कार्यकारणयोरभेदोपदेशादृङ्मात्रं साममात्रं वा तत्तत्कारणात्मकं प्रतीयते तेन पूर्वत्रापि व्यक्तिरविवक्षिता । प्रश्नप्रतिवचनयोरेकार्थत्वात् । न चैवमृगादिजातेरेकत्वाडुतमच्प्रत्ययानुपपत्तिः । तत्तज्जात्यवच्छिन्नानामृक्सामोद्गीथानां सन्निधावृगादिजातेरेकस्या निर्धारणार्थं परिप्रश्ने तत्प्रयोगसम्भवादृगादिषु प्रत्येकं भेदविवक्षया षष्ठीसमासे दूषणमुक्तम् । तत्र प्रत्येकमेकत्वमुपेत्योक्तरीत्या षष्ठीसमासे तु न किञ्चिद्दुष्यतीति भावः ।

ऋगात्मिकाया वाचः सामात्मकस्य प्राणस्य ग्रहणे फलितं दर्शयन्नुक्तमेव व्यक्तीकरोति –

यथाक्रममिति ।

ऋक्साममात्रावरोधेऽपि सिध्यतीत्याशङ्क्याऽऽह –

सर्वेति ।

तथाऽपि किं स्यादिति चेत्तदाह –

सर्वे कामा इति ।

उक्तप्रक्रियया सर्वकामावाप्तिहेतुरोङ्कारो विवक्षिताप्तिगुणकः सिध्यतीत्यर्थः ।

तृतीये वचने तात्पर्यमाह –

ओमित्येतदिति ।

अत्रापि पूर्ववज्जातिगृहीतौ तद्व्यक्तित्वेन भक्तिरेवोक्तेति शङ्कां निरसितुमोमित्येतदक्षरमिति विशेषणम् । तथा चोद्गीथस्तदवयवो विशेषणात्प्रकरणाच्चेत्यर्थः ।

पारम्पर्येण वाक्प्राणयोः सर्वकामसम्बन्धादुद्गीथस्यापि तथाभूतवागादिसम्बन्धादस्ति सर्वकामसम्बन्ध इत्युक्तम् । इदानीमोङ्कारस्य वाक्प्राणद्वारा सर्वकामसम्बन्धे हेत्वन्तरमाह –

तद्वा इति ।

तदेतत्पदयोरक्षरविषयत्वं व्यावर्त्य वक्ष्यमाणविषयत्वं दर्शयति –

मिथुनमिति ।

वैशब्दो मिथुनप्रसिद्ध्यर्थः ।

वाक्च प्राणश्चेति यदुभयमुपलभ्यते तदेतन्मिथुनमिति योजनामङ्गीकृत्य वाक्यार्थमाह –

ऋक्सामेति ।

वाक्प्राणयोरृक्सामकारणत्वमुत्तरवाक्येन स्पष्टयति –

ऋक्चेति ।

यथा वाक्प्राणौ मिथुनमेवमृक्सामे च स्वातन्त्र्येण मिथुनं निर्देशसामान्यादित्याशङ्क्याऽऽह –

न त्विति ।

विपक्षे दोषमाह –

अन्यथेति ।

इष्टमेव मिथुनद्वयमिति चेन्नेत्याह –

तथा चेति ।

ननु मिथुनयोरनुगतं मिथुनत्वमादायैकवचनमुपपत्स्यते चेन्नेत्याह –

तस्मादिति ।

उपक्रमभङ्गान्न स्वतन्त्रमिथुनद्वयमस्तीत्यर्थः ॥ ५ ॥