छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥
समृद्धिगुणवांश्च ओङ्कारः ; कथम् ? तत् वै एतत् प्रकृतम् , अनुज्ञाक्षरम् अनुज्ञा च सा अक्षरं च तत् ; अनुज्ञा च अनुमतिः, ओङ्कार इत्यर्थः । कथमनुज्ञेति, आह श्रुतिरेव — यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओमित्येव तदाह ; तथा च वेदे ‘त्रयस्त्रिंशदित्योमिति होवाच’ (बृ. उ. ३ । ९ । १) इत्यादि ; तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह । अत एषा उ एव एषैव हि समृद्धिः यदनुज्ञा या अनुज्ञा सा समृद्धिः, तन्मूलत्वादनुज्ञायाः ; समृद्धो हि ओमित्यनुज्ञां ददाति ; तस्यात् समृद्धिगुणवानोङ्कार इत्यर्थः । समृद्धिगुणोपासकत्वात् तद्धर्मा सन् समर्धयिता ह वै कामानां यजमानस्य भवति ; य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादि पूर्ववत् ॥

उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति –

समृद्धीति ।

तस्य समृद्धिगुणवत्त्वमप्रामाणिकमित्याशङ्क्य परिहरति –

स्वयमित्यादिना ।

तदेतत्पदयोरोङ्काराख्यमक्षरं विषयत्वेन निर्दिशति –

प्रकृतमिति ।

तस्य स्मृत्यर्थो वैशब्दः ।

अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति –

अनुज्ञा चेति ।

तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति –

कथमिति ।

तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यसाधारण्येनोच्यते ।

ओङ्कारस्यानुज्ञाक्षरत्वे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति –

तथा चेति ।

कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथोक्तार्थानुसारि प्रसिद्धमित्यर्थः ।

यद्धि किञ्चेत्यादावुक्तां लोकप्रसिद्धिमेव प्रकटयति –

तथा च लोकेऽपीति ।

ओङ्कारस्य लोकवेदप्रसिद्धिभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्क्याऽऽह –

अत इति ।

उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि सम्बध्यते ।

तस्याः समृद्धिमूलत्वं साधयति –

समृद्धो हीति ।

अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्योङ्कारस्यापि तदात्मकस्य समृद्धिगुणवत्त्वं सिद्धमित्युपसंहरति –

तस्मादिति ।

समर्धयितेत्यादिफलवाक्यं प्रत्याह –

समृद्धीति ।

अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्व्याख्येयमित्याह –

इत्यादि पूर्ववदिति ॥ ८ ॥