उत्तरग्रन्थस्य गुणान्तरविधाने तात्पर्यं दर्शयति –
समृद्धीति ।
तस्य समृद्धिगुणवत्त्वमप्रामाणिकमित्याशङ्क्य परिहरति –
स्वयमित्यादिना ।
तदेतत्पदयोरोङ्काराख्यमक्षरं विषयत्वेन निर्दिशति –
प्रकृतमिति ।
तस्य स्मृत्यर्थो वैशब्दः ।
अनुज्ञाक्षरमित्येतद्विगृह्य विवक्षितेनार्थेन घटयति –
अनुज्ञा चेति ।
तस्यानुज्ञात्वे प्रश्नपूर्वकं प्रसिद्धिमुपन्यस्यति –
कथमिति ।
तत्रेति ज्ञानधनयोरुक्तिस्तदित्यनुमन्तव्यसाधारण्येनोच्यते ।
ओङ्कारस्यानुज्ञाक्षरत्वे लोकप्रसिद्धिवद्वेदप्रसिद्धिं समुच्चिनोति –
तथा चेति ।
कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे त्रयस्त्रिंशदिति याज्ञवल्क्येन प्रयुक्ते सत्योमिति शाकल्योऽनुज्ञां कृतवान् । पुनश्च कत्येवेति प्रश्ने षडिति प्रतिवचने सत्योमिति होवाचेत्यादि वाक्यं बृहदारण्यके यथोक्तार्थानुसारि प्रसिद्धमित्यर्थः ।
यद्धि किञ्चेत्यादावुक्तां लोकप्रसिद्धिमेव प्रकटयति –
तथा च लोकेऽपीति ।
ओङ्कारस्य लोकवेदप्रसिद्धिभ्यामनुज्ञात्वेऽपि कथं समृद्धिगुणकत्वमित्याशङ्क्याऽऽह –
अत इति ।
उशब्दोऽप्यर्थः समृद्धिशब्दादुपरि सम्बध्यते ।
तस्याः समृद्धिमूलत्वं साधयति –
समृद्धो हीति ।
अनुज्ञायाः समृद्धिं प्रति कारणत्वेन समृद्धित्वे सत्योङ्कारस्यापि तदात्मकस्य समृद्धिगुणवत्त्वं सिद्धमित्युपसंहरति –
तस्मादिति ।
समर्धयितेत्यादिफलवाक्यं प्रत्याह –
समृद्धीति ।
अस्मिन्वाक्ये समर्धयितेत्यादिपदजातमापयितेत्यादिपूर्ववद्व्याख्येयमित्याह –
इत्यादि पूर्ववदिति ॥ ८ ॥