ओङ्कारस्य गुणत्रयवतः सफलमुपासनमुक्तम् । तथा वक्तव्याभावात्तेनेयमित्यादिवाक्यमनर्थकमित्याशङ्क्याऽऽह –
अथेति ।
स्तुतेरानर्थक्यमाशङ्क्याऽऽह –
उपास्यत्वादिति ।
प्ररोचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
त्रयि विद्या वर्तत इति सम्बन्धः ।
त्रयी विद्येत्यस्योपचरितार्थत्वं कथयति –
त्रयी विद्येति ।
किमिति श्रुतं त्यक्त्वा व्याख्यायते तत्राऽऽह –
न हीति ।
तस्याः स्वरूपलाभस्यानादित्वेन हेत्वनपेक्षत्वादित्यर्थः ।
कर्मापि कथमाश्रावणादिभिरात्मानं लभते तत्राऽऽह –
कर्म त्विति ।
प्रसिद्धिमेव प्रपञ्चयति –
कथमित्यादिना ।
आध्वर्यवहौत्रौद्गात्रसमाहारस्य दर्शपूर्णमासादिष्वसम्भवादग्निष्टोमादिषु च सम्भवात्तत्त्रितयसमाहाराल्लिङ्गादोङ्कारेण प्रवर्तमानं त्रयविहित कर्म सोमयाग इति प्रतिभातीत्याह –
लिङ्गाच्चेति ।
स्रवत्यनोङ्कृतं कर्मेति न्यायादोङ्कारेण वैदिकस्य कर्मणः स्थितिरिति स्तुतिं विधाय स्तुत्यन्तरमाह –
तच्चेति ।
कथं पुनरक्षरं कर्मणा पूज्यते तत्राऽह –
परमात्मेति ।
तस्य तत्प्रतीकत्वे किं स्यादिति चेत्तदाह –
तदपचितिरिति ।
ननु कर्मणा परमात्मा चेदाराध्यते तर्हि तत्प्रतीकत्वादक्षरस्यापि तेनाऽऽराधनं स्यात् । न चेश्वरस्तेनाऽऽराध्यत इति प्रमाणमस्ति तत्राऽऽह –
स्वकर्मणेति ।
वर्णाश्रमविहितेन कर्मणेश्वरं प्रसाद्य तत्प्रसादवशात्तत्फलं कर्ता प्राप्नोतीति भगवतोक्तत्वादीश्वरपूजार्थं कर्मेति गम्यते । तथा च तत्प्रतीकत्वादोङ्कारस्य तत्पूजार्थं कर्मेति युक्तमित्यर्थः ।
वैदिकं कर्माक्षरपूजार्थमित्यक्षरं स्तुत्वा विधान्तरेण स्तौति –
किञ्चेति ।
यजमानादीत्यादिपदेन पत्नी गृह्यते । प्राणैस्त्रयीविहितं कर्म वर्तत इति सम्बन्धः ।
स्तुत्यन्तरमाह –
तथेति ।
यथाऽक्षरविकारैर्यजमानादिप्राणैर्वैदिकं कर्म प्रवर्तते तथेति यावत् । हविषेत्यत्रापि पूर्ववदन्वयः ।
कथमृत्विगादिप्राणानां हविषश्चाक्षरविकारत्वमत आह –
यागेति ।
आदिशब्दोऽनुक्तवैदिककर्मसङ्ग्रहार्थः ।
“तस्मादोमित्युदाहृत्य” (भ. गी. १७ । २४) इत्यादिस्मृतेरित्यर्थः । “अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।” (म.स्मृ. ३ । ७६) इति स्मृतिमाश्रित्याह –
तच्चेति ।
वृष्ट्यादीत्यादिशब्देनान्नस्य प्रजानां चोत्पत्त्युपकरणं सर्वमुच्यते ।
तथाऽपि कथमेतस्यैवाक्षरस्य महिम्नेत्यादि तत्राऽऽह –
प्राणैरिति ॥ ९ ॥