छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाक्षिपति —

अक्षरस्य स्तुत्या महीकृतत्वादुपासने सिद्धे किमुत्तरेण ग्रन्थेनेत्याशङ्क्याऽऽह –

तत्रेति ।

पूर्वस्मिन्सन्दर्भे स्तुतिवशादक्षरविज्ञाने कर्तव्ये तन्निष्पाद्यं कर्म तद्विज्ञानवतोऽनुष्ठेयमिति स्थितिं तदाक्षेप्तुमुत्तरं वाक्यमित्यर्थः ।