छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥
तेन अक्षरेण उभौ कुरुतः, यश्च एतत् अक्षरम् एवं यथाव्याख्यातं वेद, यश्च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, तावुभौ कुरुतः कर्म ; तेयोश्च कर्मसामर्थ्यादेव फलं स्यात् , किं तत्राक्षरयाथात्म्यविज्ञानेन इति ; दृष्टं हि लोके हरीतकीं भक्षयतोः तद्रसाभिज्ञेतरयोः विरेचनम् — नैवम् ; यस्मात् नाना तु विद्या च अविद्या च, भिन्ने हि विद्याविद्ये, तु — शब्दः पक्षव्यावृत्त्यर्थः ; न ओङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानम् ; किं तर्हि ? ततोऽभ्यधिकम् ; तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभिप्रायः ; दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम् ; तस्मात् यदेव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रद्धया श्रद्दधानश्च सन् , उपनिषदा योगेन युक्तश्चेत्यर्थः, तदेव कर्म वीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं भवतीति ; विद्वत्कर्मणो वीर्यवत्तरत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः । न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे अविदुषामप्यार्त्विज्यदर्शनात् । रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् , मध्ये प्रयत्नान्तरादर्शनात् ; अनेकैर्हि विशेषणैः अनेकधा उपास्यत्वात् खलु एतस्यैव प्रकृतस्य उद्गीथाख्यस्य अक्षरस्य उपव्याख्यानं भवति ॥

आक्षेपाक्षराणि व्याचष्टे –

तेनेत्यादिना ।

ननु कर्मकर्तृत्वे विद्वदविदुषोर्विद्वानेव तत्फलमश्नुते नाविद्वानिति कथमित्याशङ्क्याऽऽह –

तयोश्चेति ।

इतिशब्दस्त्वाक्षिपतीत्यनेन सम्बध्यते ।

कथं विद्वदविदुषोरविशिष्टं फलमित्याशङ्क्य दृष्टान्तमाह –

दृष्टं हीति ।

विमतं न स्वतन्त्रफलमङ्गज्ञानत्वादाज्यावेक्षणवदिति प्राप्ते प्रत्याह –

नैवमिति ।

हेतुत्वेनावतारितं वाक्यं व्याचष्टे –

भिन्ने हीति ।

विद्योपासना कर्माविद्या तयोर्भिन्नत्वं तन्न विद्यावैयर्थ्यमित्यर्थः ।

विद्यायाः स्वतन्त्रफलवत्त्वं नास्तीति पक्षस्य व्यावृत्तिप्रकारमेव प्रपञ्चयति –

नेत्यादिना ।

अङ्गज्ञानाद्गुणवदक्षरज्ञानस्याऽऽधिक्ये फलितमाह –

तस्मादिति ।

तदङ्गं कर्माङ्गमुद्गीथमात्रज्ञानं तस्मादाधिक्याद्विशिष्टाक्षरज्ञानस्येति यावत् ।

यत्तु पुनरुक्तं तयोश्च कर्मसामर्थ्यादेव फलं स्यादिति तत्राऽऽह –

दृष्टं हीति ।

यत्त्वङ्गज्ञानत्वादिति तत्किमङ्गत्वे सति ज्ञानत्वं वाऽऽश्रित्य विहितत्वमथवैतदेव ज्ञानत्वविशेषितम् ? नाऽऽद्यः । तन्निर्धारणानियमन्यायेनासिद्धेः । न द्वितीयो गोदोहने व्यभिचारात् । त तृतीयो दृष्टान्तस्य साधनविकलत्वादाज्यावेक्षणस्याऽऽश्रित्य विध्युदाहरणबहिर्भूतत्वादङ्गसम्बन्धज्ञानत्वमात्रेण दृष्टान्तत्वे सत्यङ्गत्वोपाधेः सम्भवादित्यभिप्रेत्य ज्ञानाधिक्ये फलाधिक्यमित्यत्रानन्तरवाक्यं योजयति –

तस्मादिति ।

विज्ञानमुद्गीथाद्यङ्गमात्रविषयमुपासनातिरिक्तं तेनेति यावत् । योगो देवतादिविषयमुपासनम् । इतिशब्दस्तदर्थसमाप्त्यर्थः ।

तत्रैवार्थसिद्धमर्थं कथयति –

विद्वदिति ।

नन्वर्थी समर्थो विद्वानपर्युदस्तश्च कर्मण्यधिकारीत्यङ्गीकारादविदुषस्तल्लक्षणानाक्रान्तस्यानधिकारात्कथं तत्कर्म वीर्यवदिति प्रतिज्ञायते तत्राऽऽह –

न चेति ।

औषस्त्य उषस्तिसम्बन्धे मटचीहतेष्वित्यादिके तस्मिन्ग्रन्थजाते विद्याहीनानामपि कर्मानुष्ठानं दृश्यते प्रस्तोतर्या देवतेत्यादौ तां चेदविद्वानित्यादिलिङ्गात् । तस्मादविदुषोऽपि कर्मण्यधिकारः । अधिकारिलक्षणे तु ज्ञानाभावेऽपि द्रव्यादिज्ञानमात्रेण विशेषणसिद्धिरित्यर्थः ।

गुणवदक्षरज्ञानं स्वतन्त्रमित्युक्तम् । तत्तु रसतमगुणवदक्षरविषयमेकमुपासनम् । तत्र च विध्युद्देशे फलस्याश्रुतत्वेऽपि विश्वजिन्न्यायेन वा तत्कल्प्यते । आप्तिगुणवतः समृद्धिगुणवतश्चाक्षरस्य द्वे विज्ञाने प्रत्येकं फलश्रुतेः । तथा चात्र त्रीण्युपासनानि पृथक्फलानि विवक्षितानीत्यत आह –

रसतमेति ।

न तावदिहोपासीतेतिविधिव्यतिरेकेण मध्ये विध्यन्तरमुपलभ्यते । न चाऽऽपयिता ह वै कामानामित्यादिवाक्ये फलश्रुत्या विधिरुन्नेयः । रसतमगुणवदक्षरविज्ञानविधौ फलाकाङ्क्षिण्यर्थवादस्थफलांशान्वयेनानेकगुणवदेकविज्ञानविधिसम्भवे विधिभेदकल्पनायोगात् । नो खल्वर्थवादिकफलवदनेकविशेषणकैकोपासनविषयविध्यभ्युपगमेन वाक्यैक्यसम्भवे वाक्यं भेत्तुमुचितम् । एतेन विश्वजिन्न्यायो निरस्तः । रात्रिसत्रन्यायस्तु प्रकृताविरोधीति भावः ।

तस्योपव्याख्यानमित्युक्तस्योपसंहारवाक्यं खल्वेतस्येत्यादि, तत्रैतच्छब्देन प्रकृताकर्षणे कारणमाह –

अनेकैरिति ।

रसतमाप्तिसमृद्धिरूपाण्यनेकानि विशेषणानि तैर्विशिष्टत्वेनाक्षरस्यानेकप्रकारेणोपास्यत्वात् । प्रकारभेदेऽप्युपासनैक्यस्य प्रागेवोक्तत्वात्प्रकृतस्यैवाक्षरस्यैतदुपव्याख्यानं यत्खलु विहितमित्यर्थः ॥ १० ॥

इति प्रथमाध्यायस्य प्रथमः खण्डः ॥