गुणत्रयविशिष्टमुद्गीथावयवभूतमोङ्काराख्यमक्षरं परमात्मप्रतीकं तद्बुद्ध्योपास्यमित्युपदिष्टमिदानीं तस्यैवाक्षरस्याध्यात्माधिदैवभेदेनाऽऽदित्यप्राणदृष्ट्योपासनं विवक्षन्कण्डिकान्तरमवतारयति –
देवासुरा इति ।
तत्राक्षराणि व्याचिख्यासुरप्रतिभाव्युदासार्थं विवक्षितं समासं दर्शयति –
देवाश्चेति ।
देवशब्दनिष्पत्तिप्रकारं सूचयति –
देवा इति ।
दीव्यतिर्द्योतनार्थः “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु” इति दर्शनात्तस्य चाजन्तस्य सति गुणे कर्तरि यथोक्तरूपसिद्धिरित्यर्थः ।
ते च द्योतका देवा रूढेरिन्द्रादयो भविष्यन्तीत्याशङ्क्याह –
शास्त्रेति ।
इत्यध्यात्ममित्युपसंहारविरोधात्प्रसिद्धेरेव हेयत्वादुपासकशरीरस्थकरणावस्थादिवाः सत्त्वात्मकाः शास्त्रानुसारिणो देवशब्दवाच्या इत्यर्थः ।
तथाऽध्यात्ममसुरा विरोचनादयः स्युरित्याशङ्क्य पूर्ववदुपसंहारविरोधमभिप्रेत्याऽऽह –
असुरा इति ।
असुरा इन्द्रियवत्तय एवेति सम्बन्धः ।
सात्त्विकेन्द्रियवृत्तिभ्यो वैपरीत्यं तासामसुरत्वसिद्ध्यर्थं दर्शयति –
तद्विपरीता इति ।
तासामसुरशब्दवाच्यत्वे निमित्तान्तरमाह –
स्वेष्वेवेति ।
विष्वग्विषयासु विष्वञ्चो नानागतयो विषया यासां तास्विति यावत् । प्राणनक्रियासु जीवानानुकूलप्राणचेष्टास्वित्यर्थः ।
तदेव स्फोरयति –
स्वाभाविक्य इति ।
शास्त्रापेक्षामन्तरेणैव स्वभाववशात्प्रवर्तमानत्वं स्वाभाविकत्वम् । तथा च शास्त्रीयेन्द्रियवृत्तिभ्यो वैपरीत्यममूषामतिविशदमित्यर्थः ।
वैपरीत्यान्तरमाह –
तम आत्मिका इति ।
कथं मिथो विषयापहारं निमित्तीकृत्य देवानामसुराणां च सङ्ग्रामोऽभूदित्यपेक्षायामासुरीं वृत्तिं प्रकटयति –
शास्त्रीयेति ।
दैवीं वृत्तिं प्रथयति –
तथेति ।
देवानामुक्तासुरवैपरीत्यं स्फुटयति –
शास्त्रेति ।
स्वाभाविकः शास्त्रानपेक्षस्तमोरूपपाप्मासुरः परिच्छेदाभिमानस्तस्य तिरस्करणार्थमिति यावत् ।
उक्तमाध्यात्मिकसङ्ग्रामं निगमयति –
इत्यन्योन्येति ।
उक्तरीत्या यथोक्तानां देवानामसुराणां च पराभिभवः स्वोद्भवश्चेत्येवंरूपः सङ्ग्रामः प्रतिदेहमनादिकालप्रवृत्तो यथा देवासुरसङ्ग्रामस्तथेति योजना ।
किमर्थं पुनरपुरुषार्थरूपो देवासुरसङ्ग्रामः श्रुत्या श्राव्यते तत्राऽऽह –
स इहेति ।
स हि सङ्ग्रामोऽस्मिन्प्रकरणे प्राणस्य विशुद्धिविषयं विज्ञानं विधातुं प्रवृत्तः । तथा श्रुत्या कथारूपेणाऽऽख्यायते । इन्द्रियाणां वषयवैमुख्ये धर्मः स्यात्तेषां तदाभिमुख्ये पापस्योत्पत्तिरिति विवेकविज्ञानसिद्ध्यर्थं चाऽऽख्यायिका प्रणीयते । तस्मादिन्द्रियाणां प्रयत्नतो विषयप्रावण्यं परिहर्तव्यम् । तद्वैमुख्यं च तेषां श्रेयोर्थिभिर्यत्नादाधेयमिति भावः । यजमानप्राणानामेव देवासुरभावस्योक्तत्वमतःशब्दार्थः ।
प्रजापतिशब्दस्य रूढमर्थमपाकृत्य विवक्षितमर्थमाह –
प्रजापतिरिति ।
उक्तरूपः पुरुषः प्रजापतिरित्यत्र गमकमाह –
पुरुष एवेति ।
कथं पुनर्यथोक्तानां देवासुराणां तदपत्यत्वं तत्राऽऽह –
तस्य हीति ।
यत्रेत्युक्तं सङ्ग्रामनिमित्तं परामृशति –
तत्तत्रेति ।
देवानामुत्कर्षोऽपकर्षश्चासुराणामित्यस्मिन्निमित्ते कथमुद्गीथभक्त्याहरणमित्याशङ्क्याऽऽह –
उद्गीथेति ।
लक्षितलक्षणान्यायं सूचयति –
तस्यापीति ।
उद्गीथभक्तेरिवेत्यपेरर्थः ।
तदाहरणप्रयोजनं प्रश्नपूर्वकं कथयति –
तत्किमर्थमित्यादिना ॥ १ ॥