छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥
ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासाञ्चक्रिरे उपासनं कृतवन्त इत्यर्थः ; नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिरे इत्यर्थः । एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् — ‘खल्वेतस्याक्षरस्य ’ इत्योङ्कारो हि उपास्यतया प्रकृतः । ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः ; इदानीमेव कथं नासिक्यप्राणदृष्ट्या उद्गीथाख्यमक्षरमोङ्कारम् उपासाञ्चक्रिर इत्यात्थ ? नैष दोषः ; उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्या उद्गीथभक्त्यवयवश्च ओङ्कारः उपास्यत्वेन विवक्षितः, न स्वतन्त्रः ; अतः तादर्थ्येन कर्म आहृतवन्त इति युक्तमेवोक्तम् । तम् एवं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतमआत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मासङ्गरूपेण विविधुः विद्धवन्तः, संसर्गं कृतवन्त इत्यर्थः । स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव ; स तेन दोषेण पाप्मसंसर्गी बभूव ; तदिदमुक्तमसुराः पाप्मना विविधुरिति । यस्मादासुरेण पाप्मना विद्धः, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम् । अतः तेन उभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च, पाप्मना हि एषः यस्मात् विद्धः । उभयग्रहणम् अविवक्षितम् — ‘यस्योभयं हविरार्तिमार्च्छति’ (तै. ब्रा. ३ । ७ । १) इति यद्वत् ; ‘यदेवेदमप्रतिरूपं जिघ्रति’ (बृ. उ. १ । ३ । ३) इति समानप्रकरणश्रुतेः ॥

अचेतनस्य करणस्योद्गातृत्वासम्भवाद्विशिनष्टि –

चेतनावन्तमिति ।

मुख्यं प्राणं व्यावर्तयति –

घ्राणमिति ।

त्वं न उद्गाये वाजसनेयकश्रुतिमाश्रित्याऽऽह –

उद्गीथ कर्तारमिति ।

अथोद्गीथभक्तिरेव श्रूयते न तूद्गाता तत्कथं तदुपासनमित्याशङ्क्याऽऽह –

उद्गीथभक्त्येति ।

तयोपलक्षितमुद्गातारमुपासत इति यावत् ।

कथमुपासनमित्यपेक्षायामुद्गीथेन कर्तृत्वप्रार्थनयेत्याह –

कृतवन्त इति ।

ते ह नासिक्यमित्यक्षरोक्तमर्थमुक्त्वा वाक्यार्थमाह –

नासिक्येति ।

किमित्यक्षरमोङ्काराख्यमिहोपास्यत्वेन व्याख्यायते तत्राऽऽह –

एवं हीति ।

उक्तमेव स्फुटयति –

खल्विति ।

तथा च प्राणस्योद्गातृदृष्ट्योपासने प्रकृतस्य परित्यागो भक्तेश्च घ्राणप्राणदृष्ट्योपास्वत्वाङ्गीकारेऽप्रकृतोपादानमिति शेषः ।

पूर्वापरविरोधमाशङ्कते –

नन्विति ।

उद्गीथोपलक्षितेनौद्गात्रेणोपलक्षितं ज्योतिष्टोमादि कर्माऽऽहृतमित्युक्तं तदाहरणं च तस्योपासनं तद्विरुद्धं नासिक्यप्राणदृष्ट्याऽक्षरोपासनवचनमित्यर्थः ।

स्वोक्तेर्मिथो विरोधं परिहरति –

नैष दोष इति ।

उद्गीथोपलक्षितकर्मोपलक्षिते ज्योतिष्टोमादौ कर्मणि सत्येवोद्गातृप्राणदृष्ट्योपास्यत्वेनाक्षरं विवक्षितम् । ओङ्कारश्चोद्गीथावयवो ध्येयत्वेनेष्टो न स्वतन्त्रो व्यापकः । तथा चाक्षरोपासनार्थत्वेन कर्माहरणं न ध्येयत्वेनेत्यविरोध इत्यर्थः ।

आश्रित्य विधानार्थं कर्माहरणमित्युक्त्वा तं हेत्यादि व्याचष्टे –

तमेवमिति ।

स्वोत्थेन चाऽऽसुरेण नासिकासम्बद्धेनेति यावत् ।

अधर्मादासङ्गस्तद्रूपेणेत्येतस्याऽऽङ्गवेधं साधयति –

स हीति ।

कल्याणो गन्धः सुरभिरुक्तस्तस्य ग्रहणं ममैवेत्यभिमानात्मा योऽयमासङ्गस्तेनाभिभूतमुपकारो गन्धाघ्राणकृतस्तुल्यः सर्वस्य कार्यकारणसङ्घातस्येति विवेकविज्ञानं यस्य स तथेति विग्रहः ।

ननु कथं यथोक्तासङ्गस्पर्शितेत्याशङ्क्याऽऽह –

स तेनेति ।

उक्तेऽर्थे वाक्यं पातयति –

तदिदमिति ।

घ्राणप्राणस्याऽऽसुरपाप्मविद्धत्वे कार्यलिङ्गकमनुमानं सूचयति –

यस्मादिति ।

उक्तानुमानावद्योति वाक्यं व्याकरोति –

अत इति ।

अतःशब्दार्थमेव स्पष्टयति –

पाप्मनेति ।

ननु पाप्मना विद्वत्वात्तेन लोको दुर्गन्धं जानातीत्येव वक्तव्यं सुरभिज्ञानस्य पाप्मकर्मत्वाभावात् । तथा च कथं तेनोभयं जिघ्रतीत्युक्तं तत्राऽऽह –

उभयग्रहणमिति ।

एकस्यापि हविषो द्रावात्मकस्य पुरोडाशादेर्वा काकादिसम्बन्धाद्भ्रंशे प्रायश्चित्तसत्त्वेऽपि यस्योभयं हविरार्तिमार्छति स ऐन्द्रं पञ्चशरावमोदनं निर्वपेदित्यत्रोभयग्रहणमविवक्षितमिति स्थितं प्रथमे तन्त्रे तथाऽत्रापीत्याह –

यस्येति ।

न केवलं पाप्मना हीति वाक्यशेषादत्रोभयग्रहणामविवक्षितं किन्तु वाजसनेयके यथोक्तोद्गीथविद्याविषयत्वेन समानप्रकरणे यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मेति श्रुतेरत्रापि पाप्मवेधवशाद्दुर्गन्धं जानातीत्येव वक्तव्यत्वादविवक्षितमुभयग्रहणमित्याह –

यदेवेति ॥ २ ॥