ननु नासिक्यस्य प्राणस्य पाप्मविद्धत्वादनुपास्यत्वे सिद्धे न्यायसाम्याद्वागादीनामपि नोपास्यत्वमिति सिद्ध्यति तत्किमुत्तरग्रन्थेनेत्यत आह –
मुख्यप्राणस्येति ।
न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्यप्राणस्यैवोपास्यत्वमित्यनिश्चयात्तदुपास्यतादार्ढ्यार्थं मुखतो वागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः ।
उत्तरवाक्येष्वक्षरव्याख्यानमनपेक्षितं पूर्वेण समानत्वादित्याह –
समानमिति ।
अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् ।
ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि त्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्यैव प्राणस्योपास्यत्वं नावसीयते तत्राऽऽह –
अनुक्ता इति ।
उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुतिं सम्वादयति –
एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥