छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तꣳ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वं सेतैवम् ॥ ७ ॥
आसुरेण पाप्मना विद्धत्वात् प्राणादिदेवताः अपोह्य, अथ अनन्तरम् , ह, य एवायं प्रसिद्धः, मुखे भवः मुख्यः प्राणः, तम् उद्गीथम् उपासाञ्चक्रिरे, तं ह असुराः पूर्ववत् ऋत्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किञ्चिदपि प्राणस्य ; कथं विनष्टा इति, अत्र दृष्टान्तमाह — यथा लोके अश्मानम् आखणम् — न शक्यते खनितुं कुद्दालादिभिरपि, टङ्कैश्च छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम् — ऋत्वा सामर्थ्यात् लोष्टः पांसुपिण्डः, श्रुत्यन्तराच्च — अश्मनि क्षिप्तः अश्मभेदनाभिप्रायेण, तस्य अश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत — एवं विदध्वंसुरित्यर्थः । एवं विशुद्धः असुरैरधर्षितत्वात् प्राणः इति ॥

अथ हेत्यादि मुख्यप्राणविषयं वाक्यमुत्थाप्य व्याकरोति –

आसुरेणेत्यादिना ।

पूर्ववद्वागादिष्विवेति यावत् । टङ्कैश्च विदारकैर्लोहविशेषैरित्यर्थः ।

अश्रुतस्य लोष्टस्यात्रोपादाने हेतुमाह –

सामर्थ्यादिति ।

तस्य ध्वंसनयोग्यत्वाद्ध्वंसतेश्च कर्त्रपेक्षत्वादित्यर्थः ।