छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
यथाश्मानमाखणमृत्वा विध्वꣳ सत एवꣳ हैव स विध्वꣳ सते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः ॥ ८ ॥
एवंविदः प्राणात्मभूतस्य इदं फलमाह — यथाश्मानमिति । एष एव दृष्टान्तः ; एवं हैव स विध्वंसते विनश्यति ; कोऽसाविति, आह — य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तुं कामयते इच्छति यश्चापि एनम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः ; यस्मात् स एष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्माखणः अधर्षणीय इत्यर्थः । ननु नासिक्योऽपि प्राणः वाय्वात्मा, यथा मुख्यः ; तत्र नासिक्यः प्राणः पाप्मना विद्धः — प्राण एव सन् , न मुख्यः — कथम् ? नैष दोषः ; नासिक्यस्तु स्थानकरणवैगुण्यात् असुरैः पाप्मना विद्धः, वाय्वात्मापि सन् ; मुख्यस्तु तदसम्भवात् स्थानदेवताबलीयस्त्वात् न विद्ध इति श्लिष्टम् — यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवद्ध्राणसचिवत्वाद्विद्धा घ्राणदेवता, न मुख्यः ॥

तर्हि यस्य कस्यचिदेवंविधस्य सम्भवादलं लोष्टग्रहणेनेत्याशङ्क्य “यथाऽश्मानमृत्वा लोष्टो विध्वंसेत” (बृ.उ. १ । ३ । ७) इति बृहदारण्यकश्रुतेस्तस्यैवात्र ग्रहणमित्याह –

श्रुत्यन्तराच्चेति ॥ ७ ॥

दृष्टान्तदार्ष्टान्तिकाभ्यां सिद्धमर्थं निगमयति –

एवमिति ।

प्राणस्य विशुद्धत्वात्तदुपासनं कर्तव्यमिति शेषः ।

फलवचनमवतार्य व्याकरोति –

एवंविद इत्यादिना ।

प्राणवित्प्रत्तिस्पर्धिनो विनाशे हेतुमाह –

यस्मादिति ।

नासिक्यप्राणस्य मुख्यप्राणस्य च वायुविकारत्वेन प्राणत्वाविशेषात्पाप्मना वेधावेधौ तुल्यावेव स्यातामिति शङ्कते –

नन्विति ।

स्थानविशेषसम्बन्धासम्बन्धाभ्यां द्वयोरपि पाप्मवेधावेधव्यवस्था युक्तेति परिहरति –

नैष दोष इति ।

स्थानावस्थावच्छिन्ने करणे वैगुण्यं विषयविशेषासक्तत्वं तस्मात्तद्रूपस्य नासिक्यप्राणस्यापि विद्धता स्यादिति यावत् । तदसम्भवाद्विशेषसम्बन्धप्रयुक्तवैगुण्यायोगादित्येतच्छ्लिष्टमुक्तमुपपन्नम् ।

स्थानसम्बन्धविशेषाद्घ्राणप्राणस्य पाप्मविद्धत्वं तदभावाच्च मुख्यप्राणस्य तदविद्धत्वमित्येतद्दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

न मुख्यो दोषवद्घ्राणसचिवत्वाभावादिति शेषः ॥ ८ ॥