घ्राणदेवता विद्धा प्राणदेवता तु न विद्धेत्यत्र गमकत्वेनानन्तरवाक्यं व्याचष्टे –
यस्मादिति ।
मुख्यप्राणस्य पाप्मवेधाभावमुपसंहरति –
अतश्चेति ।
पाप्मकार्यमासङ्गस्तस्य प्राणेऽनुपलम्भादित्यतःशब्दस्यैवार्थः ।
हिशब्देनोक्तं पाप्मावेधं विशुद्धत्वे हेतूकृत्य मुख्यप्राणविशुद्धिमुपसंहरति –
ह्येष इति ।
तस्य विशुद्धत्वे हेत्वन्तरमाह –
यस्माच्चेति ।
अतो विशुद्ध इत्युत्तरत्र सम्बन्धः ।
सर्वार्थत्वं प्राणस्य प्रश्नपूर्वकं प्रतिपादयति –
कथमित्यादिना ।
घ्राणादीत्यादिशब्देन कार्यमप्युच्यते ।
तेनैतास्तृप्यन्तीति श्रुत्यन्तरमाश्रित्याऽऽह –
तेन हीति ।
प्राणवृत्तिहेतुभ्यामन्नपानाभ्यां सङ्घातस्थितिरतःशब्दार्थः । सर्वार्थत्वं द्वितीयस्यातःशब्दस्यार्थः ।
मुख्यप्राणोपयुक्तत्वादन्नपानानां सङ्घातस्थितिहेतुत्वमित्यत्र प्रश्नपूर्वकं लिङ्गं दर्शयति –
कथमित्यादिना ।
वृत्तिमेव विशिनष्टि –
अन्नपाने इति ।
अन्वहमुपभुज्यमाने अन्नपाने प्राणस्थितिहेतू इति यावत् ।
प्राणस्योच्चिक्रमिषायामपि सङ्घातः स्वयमशनपाने कृत्वा स्थास्यतीत्याशङ्क्याऽह –
अप्राणो हीति ।
तदा प्राणोच्चिक्रमिषावस्थायामिति यावत् ।
ननूत्क्रान्त्यवस्थायामशिशिषाद्यभावादेव सङ्घातस्योत्क्रान्तिर्न त्वशनाद्यभावात्तत्र प्रमाणाभावादत आह –
दृश्यते हीति ।
तदिति मुखव्यादानमुच्यते । अन्नग्रहणं पानोपलक्षणार्थम् ॥ ९ ॥