छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तꣳ हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १० ॥
तं ह अङ्गिराः — तं मुख्यं प्राणं ह अङ्गिरा इत्येवंगुणम् उद्गीथम् उपासाञ्चक्रे उपासनं कृतवान् , बको दाल्भ्य इति वक्ष्यमाणेन सम्बध्यते ; तथा बृहस्पतिरिति, आयास्य इति च उपासाञ्चक्रे बकः इत्येवं सम्बन्धं कृतवन्तः केचित् , एतमु एवाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते — इति वचनात् । भवत्येवं यथाश्रुतासम्भवे ; सम्भवति तु यथाश्रुतम् ऋषिचोदनायामपि — श्रुत्यन्तरवत् — ’ तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तम्’ ऋषिमपि ; तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिः इत्यादीन् ऋषीनेव प्राणमापादयति श्रुतिः ; तथा तानपि ऋषीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय — ‘प्राणो ह पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादिवच्च । तस्मात् ऋषिः अङ्गिरा नाम, प्राण एव सन् , आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासाञ्चक्रे इत्येतत् ; यत् यस्मात् सः अङ्गानां प्राणः सन् रसः, तेनासौ अङ्गिरसः ॥

विशुद्धिगुणकमुख्यप्राणात्मोद्गातृदृष्ट्योद्गीथावयवभूतमोङ्काराख्यमक्षरमुपास्यमित्युक्तमिदानीं तत्रैवाऽऽङ्गिरसबृहस्पत्ययास्यगुणत्रयविधानार्थमुत्तरग्रन्थमुत्थापयति –

तं हेति ।

तत्र वृत्तिकाराभिप्रेतं सम्बन्धं दर्शयति –

तं मुख्यमिति ।

पराभिप्रेतसम्बन्धे गमकमाह –

एतमिति ।

अव्यवहितसम्बन्धसम्भवे व्यवहितसम्बन्धकल्पना न युक्तेति परिहरति –

भवत्येवमिति ।

ऋषीणामङ्गिरोबृहस्पत्यादिशब्दैरुपदेशेऽपि गुणत्रयविशिष्टप्राणोपासनं न विरुध्यते ततश्च प्रधानानामबाधे प्राणोपासकानामृषीणामुपदेशो न त्यागमर्हत्यङ्गिरोबृहस्पत्यादिशब्देभ्योऽपि प्रथमप्रतिपन्नानृषीन्विहाय यौगिकवृत्तिप्रतिपत्तव्यगुणमात्रप्रतिपत्त्यनुपपत्तेरित्यर्थः ।

प्राणोपासकानामृषीणामभिधानमैतरेयकश्रुत्या द्रढयति –

श्रुत्यन्तरवदिति ।

तदेव स्पष्टयति –

तस्मादिति ।

शतर्चिनो नाम प्रथममण्डलदृश ऋषयः । एष च प्राणो यस्मात्पुरुषं सङ्गाताख्यं शतवर्षाण्यभिगतवांस्तस्मादेतमेव प्राणं सन्तमृषिशरीरस्थितमपि शतर्चिनशब्दवाच्यं वदन्तीति योजना ।

शतर्चिशब्दवदुभयविषयाणि शब्दान्तराण्यपि सन्तीत्याह –

तथेति ।

आद्यन्ते मण्डले मुक्त्वा मध्यमानां मण्डलानां द्रष्टारो माध्यमा ऋषयस्तेऽपि प्राणस्तस्य स्वात्मनि मध्ये सर्वजगद्विधारकत्वात् । गृत्समदस्तु द्वितीयमण्डलदर्शी स्वापकाले वागादीनां गिरणात्प्राणो गृत्सो रेतोविसर्गकारणमदहेतुत्वादपानो मदः प्राणापानात्मकत्वात्प्राणोऽपि तथोच्यते । तृतीयमण्डलदर्शी विश्वामित्रः प्राणोऽपि तथा व्यपदिश्यते । तस्य हि विश्वं भोज्यजातं स्थितिहेतुतया स्निग्धमासीत् । वामदेवस्तु चतुर्थमण्डलद्रष्टा प्राणोऽपि तच्छब्दवाच्यस्तस्य वागादिदेवतासम्भजनीयत्वात् । पञ्चममण्डलद्रष्टाऽत्रिरित्युच्यते प्राणोऽपि तथैव कथ्यते । तस्य पाप्मनोऽनर्थरूपान्प्रति सर्वत्रात्तृत्वात् । आदिपदेन भरद्वाजादिपदानि गृहीतानि ।

दृष्टान्तमेवं व्याख्याय दार्ष्टान्तिकमाह –

तथेति ।

किमित्यङ्गिरःप्रभृतीन्प्राणं करोति श्रुतिरत आह –

अभेदेति ।

तथा च सप्तमे प्राणस्य सार्वात्म्यं वक्ष्यते तथाऽत्रापि तस्य तत्तदृषिरूपत्वं विवक्षितमित्याह –

प्राणो हेति ।

अव्यवहितसम्बन्धसम्भवे फलितं वाक्यार्थं कथयति –

तस्मादिति ।

प्राणस्याङ्गिरसत्वं व्युत्पादयति –

यस्मादिति ॥ १० ॥