छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १२ ॥
तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आयास्यः ऋषिः प्राण एव सन् इत्यर्थः । तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥

अङ्गरःशब्दवद्बृहस्पतिशब्दोऽप्युभयत्र नेतव्य इत्याह –

तथेति ।

प्राणस्य बृहस्पतित्वं साधयति –

वाच इति ।

अङ्गिरोबृहस्पतिशब्दवदस्यशब्दोऽप्युभयत्र द्रष्टव्य इत्याह –

तथेति ।

तस्योभयत्र वृत्तिं विशदयति –

यद्यस्मादिति ।

यस्मादास्यादयते तेनाऽयास्यः प्राणः स एवात्रोपासकत्वादृषिरपि तथेति योजना ।

यथोक्तानामृषीणामेवोक्तगुणकमुपासनं नान्येषां विशेषवचनादित्याशङ्क्याऽऽह –

तथेति ।

विशेषस्य न शेषनिवर्तकत्वं प्रदर्शनार्थत्वादित्यर्थः ॥ ११ – १२ ॥