छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥
न केवलमङ्गिरःप्रभृतय उपासाञ्चक्रिरे ; तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् ; विदात्वा च स ह नैमिशीयानां सत्रिणाम् उद्गाता बभूव ; स च प्राणविज्ञानसामर्थ्यात् एभ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः ॥

यथोक्तोपासनस्य त्रिषु नियमाभावे गमकं दर्शयति –

न केवलमिति ।

सम्प्रति विहितोपासनस्य दृष्टफलमादेष्टुं पातनिकां करोति –

विदित्वेति ॥ १३ ॥