छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १४ ॥
तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवति ; य एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरमुद्गीथमुपास्ते, तस्य एतद्दृष्टं फलम् उक्तम् , प्राणात्मभावसत्वदृष्टम् — ‘देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २)(बृ. उ. ४ । १ । ३)(बृ. उ. ४ । १ । ४)(बृ. उ. ४ । १ । ५)(बृ. उ. ४ । १ । ६)(बृ. उ. ४ । १ । ७) इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः । इत्यध्यात्मम् — एतत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसंहारः, अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुद्धिसमाधानार्थः ॥

भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति –

तथेति ।

दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे –

प्राणेति ।

आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् ।

उपसंहारस्य प्रयोजनमाह –

आधिदैवेति ॥ १४ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य द्वितीयः खण्डः ॥