अनन्तरमाध्यात्मिकप्राणदृष्ट्योद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमुद्गीथोपासनं प्रस्तूयते तत्राऽऽह –
अनेकधेति ।
प्राणरूपेणाऽऽदित्यादिरूपेण चोद्गीथस्योपास्यत्वाद्देवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः ।
आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति –
आदित्यदृष्ट्येति ।
“तमादित्यमुद्गीथमुपासीत” इत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषयत्वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते –
तमुद्गीथमितीति ।
आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह –
उच्यत इति ।
प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति –
प्रजानामिति ।
अन्नोत्पत्त्यर्थमुद्गायतीति पूर्वेण सम्बन्धः ।
तदेव व्यतिरेकद्वारा साधयति –
न हीति ।
आदित्यस्यान्नार्थमागानमतःशब्दार्थः ।
न तस्योद्गातुरिव प्रत्यक्षमुद्गानमुपलब्धमित्याशङ्क्याऽऽह –
उद्गायतीवेति ।
उपमामेवोपपादयति –
यथेति ।
’अथाऽऽत्मनेऽन्नाद्यमागायेदि”तिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानामन्नार्थमागायतीत्यर्थः ।
उद्गीथशब्दस्याऽऽदित्ये सम्भवं परामृश्य फलिर्तमाह –
अत इति ।
आदित्यदृष्ट्योद्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे –
किञ्चेत्यादिना ।
एवंगुण तमस्तज्जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥