छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते सङ्कल्पनीयं चासङ्कल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ ६ ॥
मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्वानुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः । अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्मना विद्धा इत्यपोह्यन्ते । समानमन्यत् — अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि । अनुक्ता अप्यन्याः त्वग्रसनादिदेवताः द्रष्टव्याः, ‘एवमु खल्वेता देवताः पाप्मभिः’ (बृ. उ. १ । ३ । ६) इति श्रुत्यन्तरात् ॥

ननु नासिक्यस्य प्राणस्य पाप्मविद्धत्वादनुपास्यत्वे सिद्धे न्यायसाम्याद्वागादीनामपि नोपास्यत्वमिति सिद्ध्यति तत्किमुत्तरग्रन्थेनेत्यत आह –

मुख्यप्राणस्येति ।

न्यायसाम्येऽपि मुखतो निराकरणाभावे मुख्यप्राणस्यैवोपास्यत्वमित्यनिश्चयात्तदुपास्यतादार्ढ्यार्थं मुखतो वागादीनामुपास्यत्वमपाकर्तुमुत्तरग्रन्थ इत्यर्थः । विद्धा इति विचार्य क्रमेणापोह्यन्त इति सम्बन्धः ।

उत्तरवाक्येष्वक्षरव्याख्यानमनपेक्षितं पूर्वेण समानत्वादित्याह –

समानमिति ।

अवशिष्टवाक्यैकदेशग्रहणार्थमादिपदम् ।

ननु घ्राणादीनां पाप्मविद्धत्वादनुपास्यत्वेऽपि त्वगादीनां तद्विद्धत्वेनानुपास्यत्वावचनान्मुख्यस्यैव प्राणस्योपास्यत्वं नावसीयते तत्राऽऽह –

अनुक्ता इति ।

उक्तानामनुक्तोपलक्षणत्वे बृहदारण्यकश्रुतिं सम्वादयति –

एवमु खल्विति ॥ ३ – ४ – ५ – ६ ॥