अन्तरिक्षमाकाशस्तदन्तःप्रतिष्ठा लोकास्तेन गीर्णा इवेति मत्वाऽऽह –
गिरणादिति ।
अग्न्यादीनां गिरणादिति संवर्गविद्यायां द्रष्टव्यम् ।
“सामवेदो वै स्वर्गो लोक” इति स्वर्गलोकत्वेन सामवेदस्य संस्तुतत्वादिति हेतुमाह –
स्वर्गेति ।
यजुषा स्वाहास्वधादिनेति यावत् ।
अध्यात्ममधिलोकमधिदैवमधिवेदं च नामाक्षरोपासनमुक्त्वा तत्फलोक्तिमवतार्य व्याकरोति –
उद्गीथेति ।
यो वाचो दोह इत्यत्र षष्ठी कर्मणि द्रष्टव्या ।
तमेव वाग्दोहं प्रकटयति –
ऋग्वेदादीति ।
तत्साध्यं फलं स्वाधीनोच्चरणक्षमत्वं तदनायासेनास्य सम्भवतीत्यर्थः । तदिति प्रकृतफलपरामर्शः । षष्ठी पूर्ववत् । तमिति दोहोक्तिः ।
वाच एव दोहे कर्मत्वं कर्तृत्वं चेत्याह –
आत्मानमेवेति ।
यो दोग्धा सा वागेव सा चाऽऽत्मानमेव तं दोग्धीति योजना । यथोक्तानि प्राणवागन्नादिरूपत्वेनोक्तानीति यावत् । यथोक्तगुणान्युत्थानगिरणस्थित्यादिधर्मकाणीत्यर्थः ।
उद्गीथाक्षराणीत्युक्तं विशेषणानुवादेन स्फुटयति –
उद्गीथ इति ।
उद्गीथ इत्येवंरूपस्य नाम्नोऽक्षराणीति यावत् ॥ ७ ॥