वागादिसमृद्धिफलमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिकं विधीयत इत्याह –
अथ खल्विति ।
वागादिसमृद्धिफलकोपासनानन्तर्यमथशब्दार्थः ।
वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थं खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति –
इदानीमिति ।
कामशब्दः फलविषयः । तच्छब्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः ।
ध्यानप्रकारं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
इतिशब्दार्थमभिनयति –
एवमिति ।
एवंशब्दार्थमुदाहरणनिष्ठतया स्पष्टयति –
तद्यथेति ।
उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८ ॥