मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायः
तृतीयः खण्डः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (छान्दोग्य)
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥
यस्यामृचि तत्साम तां च ऋचम् उपधावेत् देवतादिभिः ; यदार्षेयं साम तं च ऋषिम् ; यां देवतामभिष्टोष्यन्स्यात् तां देवतामुपधावेत् ॥
देवतादिभिरिति
;
देवतादिभिरिति ।
आदिपदेनाऽऽर्षेयादिग्रहः ॥ ९ ॥