छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥
आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभिः — सामादीन् क्रमेण स्वं च आत्मानम् — अन्ततः अन्ते उपसृत्य स्तुवीत, कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन् । ततः अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् । कोऽसौ ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति । द्विरुक्तिरादरार्था ॥

आत्मानं स्वं रूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति सम्बन्धः । नामादिभिरित्यादिशब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थमाह –

सामादीनिति ।

पूर्वोक्तान्सामादीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि सञ्चिन्त्यापेक्षितफलमनुसन्दधानः स्वरादिभ्यः प्रमादमकुर्वन्नुद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स कामः समृद्धिं गच्छेद्यत्कामः सन्यः स्तुवीतेत्यन्वयः । इतिशब्दः प्रासङ्गिकोपासनसमाप्त्यर्थः ॥ १२ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य तृतीयः खण्डः ॥