छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥
ओमित्येतत् इत्यादिप्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ; प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः । ओमित्यादि व्याख्यातम् ॥

प्रासङ्गिकं हित्वा प्रकृतमनुसन्धत्ते –

ओमित्येतदित्यादीति ।

पुनरुपादानस्य तात्पर्यमाह –

उद्गीथेति ।

आदिशब्देन पूर्वोक्तान्युपसरणानि गृह्यन्ते । उद्गीथस्य तैर्व्यवहितत्वात्प्रकरणविच्छेदशङ्कायां ततोऽन्यस्मिन्नर्थे प्रसङ्गः स्यात्स मा भूदित्येवमर्थं पुनरुपादानमित्यर्थः ।

देवा वै मृत्योरित्यादेस्तात्पर्यमाह –

प्रकृतस्येति ।

अक्षरव्याख्यानप्राप्तावनुवादभागं प्रत्याह –

ओमित्यादीति ।

देवासुरा ह वै यत्रेत्यत व्याख्याता देवा मारकादासुरात्पाप्मनः सकाशादिति यावत् ॥ १ ॥