छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशꣳ स्ते छन्दोभिरच्छादयन्यदेभिरच्छादयꣳ स्तच्छन्दसां छन्दस्त्वम् ॥ २ ॥
देवा वै मृत्योः मारकात् बिभ्यतः किं कृतवन्त इति, उच्यते — त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टवन्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत् मृत्योस्त्राणं मन्यमानाः । किञ्च, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जपहोमादि कुर्वन्तः आत्मानं कर्मान्तरेष्वच्छादयन् छादितवन्तः । यत् यस्मात् एभिः मन्त्रैः अच्छादयन् , तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धमेव ॥

कोऽयं कर्मणि प्रवेशो नाम तत्राऽह –

वैदिकमिति ।

तदिति वैदिकं कर्मोच्यते ।

ते छन्दोभिरित्यादि व्याचष्टे –

किञ्चेति ।

न हि सर्वे मन्त्राः सर्वत्र विनियुज्यन्ते । तथा चैकस्मिन्कर्मण्यनुष्ठीयमाने विनियुक्तान्मन्त्रान्हित्वा कर्मान्तरेष्ववशिष्टैर्जपादि कुर्वन्तः स्वात्मानं देवाश्छादितवन्तः । तस्मान्न मृत्युवश्यता तेषामित्यर्थः ।

तेषां छन्दोभिश्छादितत्वे छन्दसां छन्दस्त्वप्रसिद्धिप्रकारमभिनयति –

तत्तस्मादिति ॥ २ ॥