कर्मानुतिष्ठतां देवानां मृत्युवश्यता न व्यावृत्तेत्याह –
तानिति ।
तत्रेति वैदिककर्मप्रारम्भोक्तिः । उशब्दोऽप्यर्थः । यथोक्तकर्मपरानपि तान्मृत्युः पर्यपश्यदिति सम्बन्धः ।
कर्मणां मृत्युपदगोचरत्वं दृष्टान्तेनाऽऽह –
यथेति ।
दार्ष्टान्तिकभागस्य विवक्षितमर्थं सङ्गृह्णाति –
मृत्युरिति ।
दार्ष्टान्तिके क्षुद्रोदकस्थानीयं किं स्यादिति प्रश्नपूर्वकं दर्शयति –
क्वासावित्यादिना ।
ऋगादीनां नित्यत्वेन क्षयाभावान्न क्षुद्रोदकस्थानीयतेत्याशङ्क्य विवक्षितमर्थमाह –
ऋगिति ।
कर्मणश्च कृतकत्वेन फलतः स्वरूपतश्च क्षयिता प्रसिद्धेति भावः ।
मृत्युपरिहारोपायमुपदिशति –
ते नु देवा इत्यादिना ।
कर्मभ्यः सकाशादूर्ध्वा व्यावृत्ता इत्यर्थः । सर्वकर्मसङ्ग्रहार्थं कर्मभ्य इति बहुवचनम् ।
अवैदिककर्मत्यागस्य कर्मिष्वपि सिद्धत्वाद्वैदिककर्मत्यागार्थं विशिनष्टि –
ऋच इति ।
कर्मत्यागमात्रात्कृतकृत्यताशङ्कां वारयति –
तेनेति ।
किं तदक्षरं तदाह –
ओङ्कारेति ॥ ३ ॥