छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते —

उदात्तादिरूपत्वाभावादक्षरस्य न स्वरशब्दत्वमित्याशङ्क्य परिहरति –

कथमित्यादिना ।

ऋचमाप्नोत्यध्ययनेन स्वाधीनां करोतीत्यर्थः । अतिस्वरत्यतिशयेनाऽऽदरधियोच्चारयतीति यावत् । ऋग्यजुःसाम्नां प्रत्येकमोङ्कारोच्चारणद्वारेणैवाऽऽप्तिदर्शनादित्यतिशब्दार्थः । उशब्दोऽपिपर्यायः । सम्प्रतिपन्नस्वरवदिति दृष्टान्तार्थः । अमृतमभयं तथाविधब्रह्मप्रतीकत्वादित्यर्थः । तत्प्रविश्य ब्रह्मबुद्ध्या तद्ध्यानं कृत्वेत्यर्थः ॥ ४ ॥