छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣳ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ ५ ॥
स यः अन्योऽपि देववदेव एतदक्षरम् एवम् अमृताभयगुणं विद्वान् प्रणौति स्तौति ; उपासनमेवात्र स्तुतिरभिप्रेता, स तथैव एतदेवाक्षरं स्वरममृतमभयं प्रविशति ; तत्प्रविश्य च — राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावत् न परस्य ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः — किं तर्हि ? यदमृता देवाः येनामृतत्वेन यदमृता अभूवन् , तेनैवामृतत्वेन विशिष्टः तदमृतो भवति ; न न्यूनता नाप्यधिकता अमृतत्वे इत्यर्थः ॥

भवतु देवानामेवमस्माकं तु किमायातमित्याशङ्क्याऽऽह –

स योऽन्योऽपीति ।

राजगृहं प्रविष्टस्य विशेषदर्शनादक्षरं प्रविष्टस्यापि फले विशेषः स्यादित्याशङ्क्याऽऽह –

तत्प्रविश्येति ।

अमृतत्वेन विशिष्टा इति शेषः ॥ ५ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य चतुर्थः खण्डः ॥