छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम ॥ १ ॥
इयमेव पृथिवी ऋक् ; ऋचि पृथिविदृष्टिः कार्या । तथा अग्निः साम ; साम्नि अग्निदृष्टिः । कथं पृथिव्यग्न्योः ऋक्सामत्वमिति, उच्यते — तदेतत् अग्न्याख्यं साम एतस्यां पृथिव्याम् ऋचि अध्यूढम् अधिगतम् उपरिभावेन स्थितमित्यर्थः ; ऋचीव साम ; तस्मात् अत एव कारणात् ऋच्यध्यूढमेव साम गीयते इदानीमपि सामगैः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यम् , तथैतौ पृथिव्यग्नी ; कथम् ? इयमेव पृथिवी सा सामनामार्धशब्दवाच्या ; इतरार्धशब्दवाच्यः अग्निः अमः ; तत् एतत्पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम ; तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव । तस्माच्च पृथिव्यग्न्योर्‌ऋक्सामत्वमित्यर्थः । सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव सा अग्निरम इति केचित् ॥

तत्र तदङ्गभूतमुपासनमादौ विदधाति –

इयमेवेति ।

पृथिव्यामृग्दृष्टिरत्र नेष्टा कर्माङ्गस्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह –

ऋचीति ।

ऋचि यथा पृथिवीदृष्टिरनन्तरवाक्ये विहिता तथाग्निः सामेत्यत्राग्निदृष्टिः साम्नि विधीयते पूर्ववदित्याह –

तथेति ।

ऋक्त्वं पृथिव्याः सामत्वं चाग्नेरप्रसिद्धमिति शङ्कते –

कथमिति ।

ऋक्सामत्वसिद्धावित्युत्तरमाह –

उच्यत इति ।

तयोराधाराधेयभावे गमकं दर्शयति –

तस्मादिति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरित्यत्र हेत्वन्तरमाह –

यथा चेति ।

पृथिव्यग्न्योरत्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमव्यभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यत्वान्नात्यन्तं भिन्नतेत्यर्थः ।

तयोरत्यन्तभेदाभावे फलितमाह –

तस्माच्चेति ।

पृथिवी साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् ।

पक्षान्तरमुत्थाप्याङ्गीकरोति –

सामाक्षरयोरिति ॥ १ ॥