छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥
नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ॥

कथं पुनर्नक्षत्रपर्याये तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह –

नक्षत्राणामिति ।

नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थितेरित्यतःशब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥