छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते ॥ ५ ॥
अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैव ऋक् । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम । तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते ॥

अङ्गोपासनानि कानिचिदुक्त्वा तादृगेवोपासनान्तरमाह –

अथेति ।

आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।

तदेव रूपं विशिनष्टि –

भा इति ।

तामेव व्याचष्टे –

शुक्ला दीप्तिरिति ।

ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा साम्नि वक्ष्यमाणरूपदृष्टिरनुष्ठेयेत्याह –

अथेति ।

नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्माभिरनुभूयते तत्राऽऽह –

तद्धीति ।

एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्यादित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥