अथ यदेवैतदित्यादेस्तात्पर्यमाह –
ते एवेति ।
अङ्गोपासनानि समाप्यानन्तरमाधिदैविकीं प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति –
अथेत्यादिना ।
किमिति हिरण्मयपदमुपमार्थं व्याख्यायते हिरण्यविकारत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –
न हीति ।
अपहतपाप्मत्वासम्भवं साधयति –
न हीत्यादिना ।
पाप्मादीत्यादिपदं तत्कार्यसङ्ग्रहार्थम् ।
किञ्च चक्षुष्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गौणमेव हिरण्मयपदमित्याह –
चाक्षुषे चेति ।
न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगेष्णत्वादिना तादृशेन विरोधात्तस्माद्गौणमेव हिरण्मयपदमित्युपसंहरति –
अत इति ।
हिरण्यश्मश्रुरित्यादिविशेषणेष्वपि तुल्यं गौणत्वमित्याह –
उत्तरेष्वपीति ।
नन्वादित्यादिमण्डले पुरुषो नास्माभिर्दृश्यते तत्राऽऽह –
निवृत्तचक्षुर्भिरिति ।
विशिष्टाधिकारिणामादित्यपुरुषदर्शनमुपपादयति –
ब्रह्मचर्यादीति ॥ ६ ॥