सर्वं एव सुवर्णं इति विशेषणादक्ष्णोरपि सुवर्णत्वे प्राप्ते प्रत्याह –
तस्येति ।
विशेषमेव प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
यथा कप्यासवद्व्यवस्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना ।
आसशब्दनिष्पत्तिप्रकारं सूचयति –
आसेरिति ।
घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति –
कपीति ।
तस्य करणत्वं स्फुटयति –
येनेति ।
कपिः स कपिपृष्ठान्तः कप्यास इति शेषः ।
पदार्थमुक्त्वा वाक्यार्थमाह –
कप्यास इवेति ।
निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादित्याशङ्क्याऽऽह –
उपमितेति ।
कप्यासेनोपमितं पुण्डरीकं तेनोपमानेनोपमितत्वाच्चक्षुषोर्न निहीनोपमानप्रयुक्तं निहीनत्वमित्यर्थः ।
यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञत्वशङ्कां व्यावर्तयितुं नाम व्यपदिशति –
तस्येति ।
नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति –
कथमित्यादिना ।
न तस्य सर्वपाप्मोदयस्तत्कार्यभाक्त्वादित्याशङ्क्याऽऽह –
पाप्मनेति ।
आदित्यक्षेत्रज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति” (बृ.उ. १ । ५ । २०) इति श्रुतेरित्याशङ्क्य परमात्मविषयवाक्यशेषमुदाहरति –
य आत्मेति ।
उक्तार्थयोगोऽतःशब्दार्थः ।
उपास्यं परमात्मानमुपन्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति –
तमेवंगुणसम्पन्नमिति ।
यथोक्तेन प्रकारेणोन्नामानमिति सम्बन्धः ॥ ७ ॥