छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःषष्ठः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥
तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह — तस्य ऋक्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी । सर्वात्मा हि देवः । परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्याद्यृक्सामगेष्णत्वम् , सर्वयोनित्वाच्च । यत एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य, तस्मादुद्गीथ इति । तस्मात्त्वेव हेतोः उदं गायतीत्युग्दाता । यस्माद्धि एतस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गीतेति नामप्रसिद्धिः उद्गातुः । स एषः देवः उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा लोकाः तेषां लोकानां च ईष्टे न केवलमीशितृत्वमेव, च - शब्दाद्धारयति च, ‘स दाधार पृथिवीं द्यामुतेमाम्’ (ऋ. सं. मं. १० । १२१ । १) इत्यादिमन्त्रवर्णात् । किञ्च, देवकामानामीष्टे इति एतत् अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥

कथं परस्योपासनमित्यपेक्षायामुद्गीथे सम्पाद्येति दर्शयति –

तस्येत्यादिना ।

यथाऽऽदित्यादीनामुद्गीथेसम्पाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्वर्क्सामात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः ।

मण्डलावच्छिन्नस्य पुरुषस्य कथमृगादिगेष्णत्वमित्याशङ्क्याऽऽह –

सर्वात्मेति ।

परस्य स्वारस्येन सर्वात्मत्वादाध्यानार्थं मण्डलावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः ।

तत्रैव हेत्वन्तरमाह –

परापरेति ।

सर्वात्मत्वं साधयति –

सर्वयोनित्वादिति ।

सर्वकारणत्वेन सर्वात्मत्वादृगादिगेष्णत्वं युक्तमेवेत्यर्थः ।

तस्मादुद्गीथ इति वाक्यं योजयति –

यत इति ।

प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना ।

किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रित्याऽऽह –

परोक्षप्रियत्वादिति ।

उन्नामत्वे देवस्योद्गातुरुद्गातृत्वप्रसिद्धिं प्रमाणयति –

तस्मादिति ।

तच्छब्दार्थं स्फुटयति –

यस्मादिति ।

प्रकृतस्योन्नाम्नो देवस्याऽऽगानादित्यतःशब्दार्थः । उद्गातुरुद्गातेति नामप्रसिद्धिरिति युक्तेति योजना ।

सर्वपाप्मोदयलिङ्गात्तस्य चान्यत्रासम्भवादादित्यान्तर्गतो देवः परमात्मेत्युक्तं तत्रैव हेत्वन्तरमाह –

स एष इति ।

देवकामानामादित्यादुपरितनलोकेष्वधिष्ठातारो ये देवास्तेषां कामाः काम्यमानफलविशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर” (बृ.उ. ४ । ४ । २२) इति श्रुतेरिति भावः ॥ ८ ॥

इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य षष्ठः खण्डः ॥