आधिदैविकोपास्त्यानन्तर्यमथशब्दार्थः । ऋचि वाग्दृष्टिः साम्नि प्राणदृष्टिश्च कर्तव्येत्यत्र हेतुमाह –
अधरेति ।
कथमृक्सामयोरिव वाक्प्राणयोरधरोपरिस्थानत्वं तत्राऽऽह –
प्राण इति ।
स्थानमात्रत्वं व्यावर्तयति –
सहेति ॥ १ ॥