छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते । चक्षुरेव सात्मामस्तत्साम ॥ २ ॥
चक्षुरेव ऋक् आत्मा साम । आत्मेति च्छायात्मा, तत्स्थत्वात्साम ॥

भोक्तारं व्यावर्तयति –

आत्मेति ।

छायात्मनः सामत्वे हेतुमाह –

तत्स्थत्वादिति ।

चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥