आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किञ्चिदुपदिशति –
अथेति ।
अक्ष्णो यदेतद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।
तदेव रूपं विशिनष्टि –
भा इति ।
ऋचि पूर्वोक्तरूपदृष्टिवद्वक्ष्यमाणरूपदृष्टिरपि साम्नि कर्तव्येत्याह –
अथेति ।
यथाऽऽदित्यमण्डले समधिगम्यमतिकृष्णं रूपमुक्तं तथा चक्षुष्यपि दृक्शक्तेरधिष्ठानं तादृग्रूपमुपलभ्यते तद्दृष्टिः साम्नि कर्तव्येत्यर्थः ॥ ४ ॥