छान्दोग्योपनिषद्भाष्यम्
प्रथमोऽध्यायःसप्तमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ ५ ॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, पूर्ववत् । सैव ऋक् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम् ; प्रसिद्धा च ऋक् पादबद्धाक्षरात्मिका ; तथा साम ; उक्थसाहचर्याद्वा स्तोत्रं साम ऋक शस्त्रम् उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत्स एव । सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम । ऋगादिप्रकरणात् तद्ब्रह्मेति त्रयो वेदाः । तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते । किं तत् ? यदमुष्य आदित्यपुरुषस्य — हिरण्मय इत्यादि यदधिदैवतमुक्तम् , यावमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौ ; यच्चामुष्य नाम उदित्युद्गीथ इति च तदेवास्य नाम । स्थानभेदात् रूपगुणनामातिदेशात् ईशितृत्वविषयभेदव्यपदेशाच्च आदित्यचाक्षुषयोर्भेद इति चेत् , न ; ’ अमुना’ ‘अनेनैव’ (छा. उ. १ । ७ । ८) इत्येकस्योभयात्मत्वप्राप्त्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत् — वक्ष्यति हि ‘स एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादि, न ; चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः । तस्मादध्यात्माधिदैवतयोरेकत्वमेव । यत्तु रूपाद्यतिदेशो भेदकारणमवोचः, न तद्भेदावगमाय ; किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥

आध्यात्मिकप्रधानोपासनशेषत्वेनाङ्गोपासनान्युक्त्वाऽनन्तरं प्रधानोपासनाविषयं दर्शयति –

अथेति ।

दृश्यत इति प्रयोगाच्छायात्माऽयमित्याशङ्क्याऽऽह –

पूर्ववदिति ।

यथा पूर्वस्मिन्नाधिदैविके वाक्ये समाहितचेतोभिरादित्यपुरुषस्य दृश्यत्वमुक्तं तथा चाक्षुषपुरुषस्यापि विशिष्टाधिकारिभिरेव दृश्यत्वमेष्टव्यमित्यर्थः ।

छायात्मपक्षे वाक्यशेषविरोधमभिप्रेत्याऽऽह –

सैवेति ।

येयमृग्यथा व्याख्याता सा सर्वा स एव पुरुष इत्यर्थः ।

ऋच्युक्तं न्यायं साम्न्यतिदिशति –

तथेति ।

यत्किञ्चित्साम तत्सर्वं स एव पुरुष इत्यर्थः ।

ऋक्सामशब्दयोरर्थान्तरमाह –

उक्थेति ।

ऋक्साम यद्वदिति दृष्टान्तस्तथाशब्दार्थः ।

कथमृगाद्यात्मत्वं परस्येत्याशङ्क्याऽऽह –

सर्वात्मकत्वादिति ।

ब्रह्मशब्दस्य परमात्मविषयत्वं व्यावर्तयन्प्रकरणादित्युक्तन्यायेन त्रयो वेदाः स एव पुरुष इत्युपसंहारः ।

छायात्मनो जडस्य व्यावृत्त्यर्थं रूपातिदेशं दर्शयति –

तस्येति ।

किं तदादित्यपुरुषस्य रूपमित्यपेक्षायामाह –

हिरण्मय इत्यादीति ।

इतश्च नायं छायात्मेत्याह –

यावमुष्येति ।

नामातिदेशोऽप्येतमर्थमुपोद्बलयतीत्याह –

यच्चेति ।

आदित्यचाक्षुषयोरुपास्ययोर्भेदादुपासनाऽपि भिन्नेति शङ्कते –

स्थानेति ।

आदित्यमण्डलं चक्षुश्चेति स्थाने भिद्येते रूपं हिरण्मयो हिरण्यश्मश्रुरित्यादि ऋगादिगेष्णत्वादिर्गुण उदित्यादि नाम तेषामतिदेशस्तस्यैतस्य तदेव रूपमित्यादिः । ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् । ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेत्यध्यात्मम् इत्ययमीशितृत्वविषयो भेदव्यपदेशः । अतश्चैतयोर्भेदादुपासनमपि भिन्नमेवेत्यर्थः ।

नोपास्यभेदादुपासनाभेदोऽस्तीति दूषयति –

नेति ।

उपासकस्तावदमुनाऽऽदित्यात्मना पराचो लोकान्देवकामांश्चाऽऽप्नोति । स एवानेन चाक्षुषरूपेणार्वाचीनलोकान्मनुष्यकामांश्चाऽऽप्नोतीति श्रूयते । न चैकस्य वस्तुतो भिन्नोभयरूपत्वप्राप्तिरुपपद्यते । तस्माद्भेदकल्पना न युक्तेत्यर्थः ।

उभयात्मकत्वमेकस्यापि विद्यामाहात्म्याद्वेद्यभावोपगमादुपपन्नमिति शङ्कते –

द्विधेति ।

एकस्य विद्यावशादनेकरूपत्वे वाक्यशेषं प्रमाणयति –

वक्ष्यति हीति ।

एकस्यानेकशरीरपरिग्रहेपि न स्वरूपभेदोपपत्तिरिति परिहरति –

न चेतनस्येति ।

एकत्वसाधकसद्भावस्तच्छब्दार्थः ।

परोक्तं भेदकमनुवदति –

यस्त्विति ।

भेदकारणमित्यस्मादुपरिष्टादितिशब्दो द्रष्टव्यः ।

दूषयति –

न तदित्यादिना ।

तदित्यतिदिश्यमानं रूपाद्युक्तम् ॥ ५ ॥